अध्यायः 190

मार्कण्डेयेन युधिष्ठिरादीन्प्रति मत्स्यरूपिणो हरेर्वैवस्वतमनोश्च चरितप्रतिपादकमस्योपाख्यानकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह ।
कथयस्वति चरितं मनोर्वैवस्वतस्य च ॥
मार्कण्डेय उवाच ।
विवस्वतः सुतो राजन्महर्षिः सुप्रतापवान् ।
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥
ओजसातेजसा लक्ष्म्या तपसा च विशेषतः ।
अतिचक्राम पितरं मनुः स्वंच पितामहम् ॥
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः ।
एकपादस्थितस्तीव्रं चकार सुमहत्तपः ॥
अवाकूशिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् ।
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् ।
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥
भगवन्क्षुद्रमत्स्येस्मि बलवद्भ्यो भयंमम ।
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥
दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः ।
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः ।
त्रातुमर्हसि कर्तास्मि कृतेप्रतिकृतं तव ॥
स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः ।
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः ।
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम् ॥
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः ।
पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः ॥
अथ कालेन महता स मत्स्यः सुमहानभूत् ।
अलिञ्जरजले चैव नासौ समभवत्किल ॥
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत ।
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः ।
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥
तत्रतं प्राक्षिपच्चापि मनुः परपुरंजय ।
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥
द्वियोजनायता वापी विस्तृताचापि योजनम् ।
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशांपते ।
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ॥
नय मां भगवन्साधो समुद्रमहिषीं प्रियाम् ।
गङ्गां नांत्रापि शक्तोस्मि वस्तुं मतिमतांवर ॥
निदेशे हि मया तुभ्यं स्थातव्यमनसूयता ।
वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ ॥
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।
नदीं गङ्गां तत्रचैनं स्वयं प्राक्षिपदेव च ॥
स तत्र ववृधे मत्स्यः कंचित्रालमरिंदम ।
गतः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो ।
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् ।
समुद्रमनयत्पार्त तत्रचैनमवासृजत् ॥
सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा ।
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥
यदा समुद्रे प्रक्षिप्तः स मत्स्यो ननुना तदा ।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥
भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः ।
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥
अचिराद्भगवन्बौममिदं स्थावरजङ्गमम् ।
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥
संप्रक्षालनकालोऽयंलोकानां समुपस्थितः ।
तस्मात्त्वां बोधयाम्यद्ययत्ते हितमनुत्तमम् ॥
त्रसानां स्तावराणां च यच्चेङ्गं यच्च नेङ्गति ।
तस्य सर्वस् संप्राप्तः कालः परमदारुणः ॥
नौश्च कारयितव्या ते दृढा युक्तवटारका ।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा ।
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥
नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय ।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥
एवमेतत्त्वया कार्यमापृष्टोसि व्रजाम्यहम् । ता न शक्या महत्यो वै आपस्तर्तुं मया विना ।
नातिशङ्क्यमिदं चापि वचनं मे त्वया विभो ॥
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत ।
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह । बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ।
नौकया शुभयावीर महोर्मिणमरिंदम ॥
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते । सच तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय ।
शृङ्गी तत्राजगागाशु तदा भरतसत्तम ॥
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे ।
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि ।
मनुर्मनुजशार्दूल तस् शृङ्गे न्यवेशयत् ॥
संयतस्तेन पाशेन मत्स्यः परपुरंजय ।
वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥
स ततार तया नावा समुद्रं मनुजेश्वर ।
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ ।
घूर्णते चपलेव स््री मत्ता परपुरंजय ॥
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे ।
सर्वं सलिलमेवासीत्खं द्यौश्च नरपुङ्गव ॥
एवंभूते तदा लोके संकुले भरतर्षभ ।
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च ॥
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः ।
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये ॥
ततो हिमवतः शृङ्गं यत्परं भरतर्षभ ।
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥
अथाब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः ।
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ ।
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् ।
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥
अथाब्रवीदनिमिषस्तानृषीन्सहितस्तदा । अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ।
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात् ॥
मनुना च प्रजाः सर्वाः सदेवासुरमानुपाः ।
स्रष्टव्याः सर्वलोकाश्चयच्चेङ्गं यच्चा नेङ्गति ॥
तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति । मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ।
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ॥
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ।
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे ।
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् ।
आख्यानमिदमाख्यातं सर्वपापहरं मया ॥
य इदं शृणुयान्नित्यं मनोश्चरितमादितः । स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

3-190-6 चीरिणीनदीविशेषः ॥ 3-190-11 अलिञ्जरे मणिकाख्यपात्रे ॥ 3-190-13 न समभवत्स्थूलत्वेन न ममावित्यर्थः ॥ 3-190-30 त्रसानां जङ्गमानाम् । इङ्गं चलनशीलं वृक्षादि । नेङ्गति पाषाणादि । कालोऽन्तः ॥ 3-190-31 वटारका रज्जुः ॥ 3-190-32 यथोक्तानि द्विजैः पुरा इति झ. पाठः ॥ 3-190-41 सच तांस्तारयन्नावा इति झ. पाठः ॥