अध्यायः 193

मार्कण्डेयेन युधिष्ठिरंप्रतिकलौ भविष्यल्लोकवृत्तान्तकथनम् ॥ 1 ॥ कलियगान्ते कल्कित्वेनावतरिष्यता हरिणा दुष्टजनसंहारः ॥ 2 ॥

वैशंपायन उवाच ।
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् ।
पुन- पप्रच्छ सामात्यो भविष्यां जगतो गतिम् ॥
युधिष्ठिर उवाच ।
आश्चर्यभूतं भवतः श्रुतं नो वदतांवर ।
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥
अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम ।
समाकुलेषु धर्मेषु किंनु शेषं भविष्यति ॥
किंवीर्या मानवास्तत्रकिमाहारविहारिणः ।
किमायुषः किंवसना भविष्यन्ति युगक्षये ॥
कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् ।
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत ।
रमयन्वृष्णिशार्दूलं पाण्डवांस्च महानृषिः ॥
शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च ।
अनुभूतं च राजेनद््रदेवदेवप्रसादजम् ॥
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ ।
कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥
कृते चतुष्पात्सकलो निर्व्याजोप्राधिवर्जितः ।
वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ ॥
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः ।
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति ।
तामसं युगमासाद्य तदा भरतसत्तम ॥
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ।
आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव ॥
मनुष्याणआमनुयुगं ह्रप्तन्तीति निबोध मे ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर ॥
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ।
सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः ॥
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ।
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ॥
विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति ।
लोभमोहपरा मूढाः कामासक्ताश् मानवाः ॥
वैरबद्धा भविष्यन्ति परस्परवधैषिणः ।
ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्ते परस्परम् ॥
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ।
अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः ॥
ईदृशो भविता लोको युगान्ते पर्युपस्थिते ।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूपकः ॥
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ।
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ॥
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः ।
तेऽपिलोभसमायुक्ता भविष्यन्ति युगक्षये ॥
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः ।
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥
सरित्तीरेषु कुद्दालैर्वापयिष्यनति चौपधीः ।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥
श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृव्रताः ।
तेऽपिलोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥
पिता पुत्रस् भोक्ता च पितुः पुत्रस्तथैव च ।
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः । न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः ।
निम्नेष्वीहां करिष्यनति हेतुवादविमोहिताः ॥
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुक्राः ।
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा । `स्त्रियोऽपि पतिपुत्रादीन्वधिष्यनति युगक्षये' ।
निरुद्वेगो बृहद्बादी न निन्दामुपलप्स्यते ॥
म्लेच्छभूतं जगत्सर्वं निष्क्रियं दानवर्जितम् ।
भविष्यति निरानन्दमनुत्सवमथो तथा ॥
प्रायशः कृपणानां हि तथा बन्धुमतामपि ।
विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥
स्वल्पवीर्यबलाः स्वाधा लोभमोहपरायणाः ।
तत्कथादानसंतुष्ट शिष्टानामपि बान्धवाः ॥
परिग्रहंकरिष्यति मायाचारपरिग्रहाः ।
संघातयन्तः तय राजानः पापबुद्धयः ॥
परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः ।
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥
अरक्षितारो लुब्धाश् मानाहंकारदर्पिताः ।
केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥
आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च ।
भोक्ष्यन्ते निरनुक्रोसा रुदतामपि भारत ॥
न कन्यां याचे कश्चिन्नापि कन्या प्रदीयते ।
स्वयंग्रहा भविष्यन्ति युगान्ते समुपस्थिते ॥
राजानश्चाप्यसंतुष्टाः परार्तान्मूढचेतसः ।
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥
म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः ।
हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते ॥
सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः ।
स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥
भीरुस्था शूरमानी शूरा भीरुविषादिनः ।
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥
नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम् ।
अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते ॥
ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप ।
एकवर्णस्तदा लोको भविष्यति युगक्षये ॥
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा ।
बार्याश्च पतिशुश्रूषां न करिष्यन्ति संक्षये ॥
ये यवान्ना जनपदा गोधूमान्नास्तथैव च ।
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥
स्वैराहाराश्च पुरुषा योपितश्च विशांपते ।
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर ।
श्राद्धे न देवान्न पितॄस्तर्पयिष्यन्ति मानवाः ॥
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः ।
तमोग्रस्तस्तदा लोको भविष्यति जनाधिप ॥
परमायुश्च भविता तदा वर्षाणि षोडश ।
ततः प्राणान्विमोक्ष्यन्ति युगान्ते समुपस्थिते ॥
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते ।
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति ।
युगान्ते राजशार्दूल न तोषमुपयास्यति ॥
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति ।
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियश्चापि भविष्यनति युगक्षये ॥
म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु ।
भाविन पश्चिमे काले मनुष्या नात्र संशयः ॥
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् ।
युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति ॥
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा ।
आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते ॥
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः ।
भवितारो जनाः सर्वे संप्राप्ते तु युगक्षये ॥
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः ।
भविता संशयो लोके जीवितस्य हि देहिनाम् ॥
तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप ।
ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः ॥
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः ।
त्रातारमलाभन्तो वै भ्रमिष्यनति महीमिमाम् ॥
जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः ।
यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् ॥
आश्रयिष्यन्ति च नदी पर्वतान्विषमाणि च ।
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥
दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः ।
कुराजभिश्च सततं करभारप्रपीडिताः ॥
धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये ।
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः ।
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः । एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ।
शूद्राश्च प्रभविष्यन्ति न द्विजा युगसंक्षये ॥
आश्रमेषुमहर्षीणां ब्राह्मणावसथेषु च ।
देवस्थानेषु चैत्येषु नागानामालयेषु च ॥
एडूकचिह्ना पृथिवी न देवगृहभूषिता ।
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥
दा रौद्रा धर्महीना मांसादाः पानपास्तथा ।
भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् ॥
पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम् ।
प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् ॥
अकालवर्षी पर्जन्यो भविष्यति गते युगे ।
अक्रमेण मनुष्याणां भविष्यनति तदा क्रियाः ॥
विरोधमथ यास्यनति वृषला ब्राह्मणैः सह ।
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात् ॥
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ।
`अन्यायवर्तिनश्चापि भविष्यनति नराधिपाः' ॥
निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः ।
आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः ॥
एवं पर्याकुले लोके मर्यादा न भविष्यति । `ब्राह्मणःक्षत्रियावैश्याः परित्यक्ष्यन्ति सत्क्रियाम्'
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥
आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम् ।
अर्थयुक्त्या प्रवात्स्यन्ति मित्रसंबन्धिबान्धवाः ॥
अभावः सर्वभूतानां युगान्ते संभविष्यति ।
दिशः प्रज्वलिता सर्वा नक्षत्राण्यप्रभाणि च ॥
प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा ।
उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥
षङ्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति । तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ।
कबन्धान्तर्हितो भानुरुदयास्तमने तदा ॥
अकालवर्षी भगवान्भविष्यति सहस्रदृक् ।
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥
अभीक्ष्णं क्रूरवादिन्यः परुषा रदितप्रियाः ।
भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः ॥
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये ।
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥
अपर्वणि महाराज सूर्यं राहुरुपैष्यति ।
युगान्ते हुतभुक्वापि सर्वतः प्रज्वलिष्यति ॥
पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः ।
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥
निर्घातवायसा नागाः शकुनाः समृगद्विजाः ।
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥
मित्रसंबन्धिनश्चापि संत्यक्ष्यनति नरास्तदा ।
जनं परिजनं चापि यागान्ते पर्युपस्थिते ॥
अथ देशान्दिशश्चापि पत्तनान्यापणानि च ।
क्रमशः संलयिष्यन्ति युगान्ते पर्युपस्थिते ॥
हा तात हा सुतेत्येवं तदा वाच सुदारुणाः ।
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥
`मोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः ।
पाषण्डजनसंकीर्णा भविष्यन्ति युगक्षये' ॥
ततस्तुमुलसंघाते वर्तमाने युगक्षये ।
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये ।
भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥
यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती ।
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च । प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ।
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥
कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः ।
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥
संभूतः संभलग्रामे ब्राह्मणावसथे शुभे ।
`महात्मा वृत्तसंपन्नः प्रजानां हितकृन्नृप' ॥
मनसा तस्य सर्वाणि वाहनान्यायुधानि च ।
उपस्तास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥
स धर्मविजयी राजा चक्रवर्ती भविष्यति ।
सचेमं संकुलं लोकं प्रसादमुपनेष्यति ॥
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः ।
संक्षेपको हि सर्वस्य युगस्य परिवर्तकः ॥
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः । उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥

3-193-3 शेषं जगद्भविष्यति उत्कर्षं प्राप्स्यति ॥ 3-193-5 काष्ठां अवधिम् । कृतंकृतयुगम् ॥ 3-193-8 कलुषं कलिम् ॥ 3-193-9 निर्व्याजश्छद्महीनः । उपाधिवर्जितः लोभादिहीनः । वृषइव चतुष्पात् ॥ 3-193-10 अर्धेनाधर्मेण ॥ 3-193-14 धर्मवैतंसिकाः धर्मजालिकाः धर्मजालं विस्तार्य लोकान्वञ्चयन्तीत्यर्थः ॥ 3-193-18 अन्त्या इति । चाण्डालाः क्षत्रियादिकर्म क्षत्रियादयश्चाण्डालकर्म करिष्यन्तीत्य्रथः ॥ 3-193-19 शाणी शणसूतर्जा प्रवराशाटीति ख. पाठः ॥ 3-193-26 निम्नेषु हीनेषु कर्मसु ॥ 3-193-32 पापाचारपरिग्रहा इति ध. पाठः ॥ 3-193-37 परार्थान्परधनानि ॥ 3-193-38 हस्तो हस्तं परिमुषेद्धस्तवदेकोदरजोपि भ्राता भ्रातरं वञ्चयेदेव ॥ 3-193-41 एकाहार्यं युगं सर्वमिति झ. पाठः । एकहार्यं एकविधमेव मांसशाकादिकमाहारमर्हतीति तथा । भक्ष्याभक्ष्यविभागो नास्तीत्यर्थः ॥ 3-193-42 एकवर्णः वर्णविभागनाशनात् ॥ 3-193-43 न रक्षति पिता पुत्रमिति ध. पाठः ॥ 3-193-45 खैराचारश्चेति झ. पाठः ॥ 3-193-49 प्रजास्यन्ति प्रजाः जनयिष्यन्ति ॥ 3-193-55 ज्ञानानि ज्ञेयस्वरूपाणि ॥ 3-193-56 श्चान्योन्यमभिशङ्किता इति ध. पाठः ॥ 3-193-57 संक्षयो लोक इजि ध. पाठः ॥ 3-193-59 वृषलार्दिताः शूद्रपीडिताः ॥ 3-193-60 संक्षेप्स्यते नाशं गमिष्यति ॥ 3-193-62 काका इव सर्वतः शङ्किनः नीचवृत्त्युपजीविनो वा ॥ 3-193-65 एडूकान् अस्थ्यङ्कितनानि कुड्यानि । जालूकान्पूजयिष्यन्तीति क. ध. पाठः ॥ 3-193-73 निर्विशेषाः तुल्याचारवेषाः । विष्टिकराः मृतिमदत्त्वाकारयन्ति ते ॥ 3-193-75 आचार्योपि अपनिधिः निर्धनः भर्त्स्यते धिकूक्रिते । अर्थयुक्त्या धनयोगेन नतु स्नेहेन धर्मेण वा ॥ 3-193-78 कबन्धान्तर्हितः राह्वन्तर्हितः ॥ 3-193-91 यदेति । गुरुसूर्यचन्द्राः यदा युगपत्पुष्यक्षत्रमेष्यन्ति तदा कृतयुगप्रवृत्तिरितित्यर्तः ॥ 3-193-94 सभूतः शंबलग्नामे इति ध. पाठः ॥