अध्यायः 196

मार्कण्डेयेन सुखदुःखनिरूपकबकशक्रसंवादानुवाः ॥ 1 ॥

वैशंपायन उवाच ।
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च ।
पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बकः ॥
मार्कण्डेयस्तु तान्सर्वान्प्रत्युवाच महातपाः ।
दीर्घायुश्च बकोराजन्नृषिर्नात्र विचारणा ॥
एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत ।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ ।
सखायौ देवराजस् यतावृषी लोकसंमतौ ॥
एतदिच्छामि भगवन्बकशक्रसमागमम् ।
सुखदुःखसमायुक्तं तत्त्वेन कथितं त्वया ॥
मार्कण्डेय उवाच ।
वृत्ते देवासुरे राजन्संग्रामे रोमहर्षणे ।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत् ॥
सम्यग्वर्षति पर्जन्ये सस्यसंपद उत्तमाः । निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः ।
मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः ॥
ताः प्रजा मुदिताः सर्वा दृष्ट्रा बलनिषूदनः ।
ततस्तु मुदितोराजन्देवराजः शतक्रतुः ॥
ऐरावतं समास्थाय अपश्यन्मुदिताः प्रजाः ।
आश्रमांश्च विचित्रांश् नदीश्च विविधाः शुभाः ॥
नगराणि समृद्धानि घेटाञ्जनपदांस्तथा ।
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ॥
उदपानं प्रपा वापी तटाकानि सरांसि च ।
नानाब्रह्रह्मसमाचारैः सेवितानि द्विजोततमैः ॥
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ।
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ॥
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप । तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् ।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत् ।
पाद्यासनार्थदानेन फलमूलैरथार्चयत् ॥
सुखोपविष्टो वरदस्ततस्तु बलसूदनः ।
ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः ॥
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ ।
समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम् ॥
बक उवाच ।
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम् ॥
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि ।
परेष्वायत्तता कृच्छ्रं किंनु दुःखतरं ततः ॥
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे ।
अर्थैर्विहीनः पुरुषः एरैः संपरिभूयते ॥
अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥
अपिप्रत्यक्षमेवैतत्तव देघ शतक्रतो ।
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥
देवदानवगन्धर्वमनुष्योरगराक्षसाः ।
प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥
कुले जाताश् क्लिश्यन्ते दौष्कुलेयवशानुगाः ।
आढ्यैर्दरिद्राऽवमताः किंनु दुःखतरं ततः ॥
लोके वैधर्म्यमेतत्तु दृश्ते बहुविस्तरम् । हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ।
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ॥
इन्द्र उवाच ।
पुनरेव महाभाग देवर्षिगणसेवित ।
समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम् ॥
बक उवाच ।
अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे ।
कुमित्राण्यनपाश्रित् किं वै सुखतरं ततः ॥
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ।
अपि शाकं पचानस्य सुखं वै मघवन्गृहे ॥
आर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कंचन ।
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥
परस्य तु गृहे भोक्तुः परिभूतस् नित्यशः ।
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥
श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति ।
धिगस्तु तस्य तद्भुक्तं कृपणस् दुरात्मनः ॥
यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥
अतो मृष्टतरं नान्यत्पूतं किंचितच्छतक्रतो ।
दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥
तावतां गोसहस्राणां फलं प्राप्नोति दायकः ।
यदेनो यौवनकृतंतत्सर्वं नश्यते ध्रुवम् ॥
रसदक्षिणस् भुक्तस् द्विजस्य तु करे गतम् ।
यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात् ॥
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः । बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षणअणवत्यधिकशततमोऽध्यायः ॥ 196 ॥

3-196-1 ऋषिर्बकः किल भवतो दीर्घायुरासीच्चेति ध. पाठः ॥ 3-196-12 यह्नोत्सववतीं रम्यां पृध्वीं राजञ्शतक्रतुरिति ध. पाठः ॥ 3-196-21 आकुलानां समृद्धानां कथं कालविपर्ययः इति ध. पाठः ॥ 3-196-34 द्विजस्य तु करे हुतमिति ध. पाठः ॥