अध्यायः 198

मार्कण्डेयेन पाण्डवान्प्रति विप्राय गोप्रदानरूपयवातिचरितकथनम् ॥ 1 ॥

[*मार्कण्डेय उवाच ।
इदमन्यच्छ्रूतां ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत आसांचक्रे ॥ गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् भो राजन्गुर्वर्थं भिक्षेयं समयादिति राजोवाच ॥
ब्रवीतु भगवान्समयमिति ॥
ब्राह्मण उवाच ।
विद्वेषणं परमं जीवलोके कुर्यान्नरः पार्थिव याच्यमानः ।
तं त्वां पृच्छामि कथं तु राज- न्दद्याद्वान्दयितं च मेऽद्य ॥
राजोवाच ।
नचानुकीर्तये दद्य दत्त्वा अयाच्यमर्थं न च संशृणोमि ।
प्राप्यमर्थं च संश्रुत्य तं चापि दत्त्वा सुसुखी भवामि ॥
ददामि ते रोहिणीनां सहस्रं प्रियो हि मे ब्राह्मणो याचमानः ।
न मे मनः कुप्यति याचमाने दत्तं न शोचामि कदाचिदर्थम् ॥
इत्युक्त्वा ब्राह्मणा राजा गोसहस्रं ददौ । प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥

3-198-3 विद्वेषणं याचकस्य द्वेषम् । प्रीत्यैव ददासि चेत् ग्रहीष्यामीत्यर्थः ॥ 3-198-4 हे दद्य ददो हानं तदर्ह ॥ 3-198-5 रोहिणीनां गवाम् ॥ * - एतदाद्यध्यायत्रयं षोढशगद्याधिकं झ. पुस्तकएव दृश्यते नेतरकोशेषु ।