अध्यायः 200

मार्कण्डेयेन पाण्डवानप््रति श्येनात्कपोतरक्षणरूपशिबिचरितकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
देवानां कथा संजाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ॥ एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम् ॥
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण ॥
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत् ॥
अथ पुरोहितो राजानमब्रवीत् ॥ प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते ॥
वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः ॥
अथ कपोतो राजानमब्रवीत् ॥ प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये ॥
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ॥ तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ॥ एवंयुक्तमपापं मां विद्धि ॥
गदामि वेदानविचिनोमि छन्दः सर्वेवेदा अक्षरशो मे अधीताः ।
न साधु दानं श्रोत्रियस्य प्रदानं मा प्रादाः श्येनाय न कपोतोऽस्मि ॥
अथ श्येनो राजानमब्रवीत् ॥
पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात्कपोतात् ।
त्वमाददानोऽथ कपोतमेनं मा त्वं राजन्विघ्नकर्ता भवेथाः ॥
राजोवाच ।
केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकनेन संस्कृता ।
यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु ॥
नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम् ।
भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत्राणमिच्छन्स काले ॥
जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते ।
भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम् ॥
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्धश्यति शीघ्रमेव ।
भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥
उक्षाणं पक्त्वा सह ओदनेन अस्मात्कपोतात्प्रति ते नयन्तु ।
यस्मिन्देशे रमसेऽतीव श्येन तत्रमांसं शिवयस्ते वहन्तु ॥
श्येन उवाच ।
नोक्षाणो राजन्प्रार्थयेयं न चान्य दस्मान्मांसमधिकं वा कपोतात् ।
देवैर्दत्तः सोऽद्य ममैष भक्ष- स्तन्मे ददस्व शकुनानामभावात् ॥
राजोवाच ।
उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव ।
भयाहितस् दायं ममान्तिकात्त्वां प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः ॥
त्यजे प्राणाननैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन ।
यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथंचित् ॥
यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु ।
यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद्वदेस्तत्करोमि ॥
श्येन उवाच ।
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ॥ तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति ॥
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ॥ गुरुतर एव कपोत आसीत् ॥
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ॥ एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत् ॥
अथ राजा स्वयमेव तुलामारुरोह ॥ न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत् ॥
कपोतं विद्युः शिवयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः ।
नानीश्वर ईदृशं जातु कुर्या- देतं प्रश्नं भगवन्मे विचक्ष्व ॥
कपोत उवाच ।
वैश्वानरोऽहं ज्वलनो धूमकेतु- रथैव श्येनो वज्रहस्तः शचीपतिः ।
साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशंप्रपन्नौ ॥
यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन् ।
एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम् ॥
एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ संमतो भृशम् ।
एतस्मात्पार्श्वात्पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम ॥
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्विशततमोऽध्यायः ॥ 200 ॥

3-200-5 घोरं निन्दितं अनिष्टसूचकमित्यर्थः । अन्तवान् दिगन्तानामीश्वरः ॥ 3-200-6 अङ्गैरिति । मुनिरहं स्वशरीरेण कपोतशरीरं प्रविष्टोऽस्मीत्यर्थः । प्राणान्प्राणरक्षकत्वेन त्वमेव मम प्राणा इत्यर्थः ॥ 3-200-8 श्रोत्रियस्य मे श्येनाय त्वत्कर्तृकं प्रदानं न साधुदानम् ॥ 3-200-10 भवेषु जन्मसु पर्यायेण वसतिः स्थितिर्भवति अतस्त्वं सर्गे सृष्टौ अस्मात्कपोतात् जातोसि । अतस्त्वं तव जन्मान्तरीयं पितरं कपोतं आददानो रक्षन् मम आहारे विघ्नं माकुर्वित्यर्थः ॥ 3-200-11 एतयोः स्वरूपं ज्ञात्वा साधुकर्म कथं कुर्यामिति विमृशतीत्यर्थः ॥ 3-200-13 ह्रस्वा शैशवे एव प्रजा प्रमीयते म्रियते ॥ 3-200-14 मोघं निष्फलं सोऽन्नं विन्दंति लभते । अप्रचेताः अनुदारः ॥ 3-200-15 अस्मात्कपोतात् । एनं कपोतं मोचयित्वा ते तुभ्यं प्रतिनयन्तु प्रतिनिधित्वेन समर्पयन्तु ॥ 3-200-16 शकुनानां एकस्मिन्नेव बहुत्वम् । अभावात् नाशेन ॥ 3-200-17 उक्षाणं बलीवर्दनम् । वेहतं वन्ध्यां गां वा अनूनं सर्वाङ्गसंपूर्णं यथा स्यात्तथा । भयाहितस्य भीप्रस्तस्य कपोतस्य । दायं प्रतिधनं प्रत्याम्नायं नयन्तु प्रापयन्तु । पश्यन्तु आलोचयन्तु च सन्तः । एनं कपोतं मा हिंसीरिति ॥ 3-200-18 सौम्यो ह्ययं सोमसंयुक्तक्रतुवन्नित्यं परिपाल्यो ह्ययम् । हे सौम्य सोमवत्प्रियदर्शन ॥ 3-200-22 अधिकृत्य छित्त्वा ॥ 3-200-23 अपर्याप्तौ स्वयमेव तुलामाविवेश । व्यलीकं अप्रियम् । त्रातस्त्वया कपोत इत्युक्त्वा ॥ 3-200-25 हे सौरथेय सुरथायाः पुत्र । नौ आवाम् । विद्धीति शेषः ॥ 3-200-26 असिना स्वङ्गेन । एतन्मांसम् । वः गृपाणां लक्ष्म चिह्निं करोमि ॥ 3-200-28 शिबिना शिथिलशरीरेण जातं औद्भिदं उद्भेदेन जातम् । यशसा दीप्यमानम् ॥