अध्यायः 201

मार्कण्डेयेन पाण्डवान्प्रति नारदेरिताष्टकादिराजतारतम्कथनपूर्वकदानमहिमानुवाद ॥ 1 ॥

वैशंपायन उवाच ।
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत्पाण्डवो मार्कण्डेयम् ॥ अथाचष्ट मार्कण्डेयः ॥ अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन् ॥
भ्रातरश्चास्य प्रतर्दनो वमुमनाः शिबिरौशीनर रइति स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात्ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान्रथमित्यब्रुवन् ॥
तांस्तथेत्युक्त्वा रथमारुरोह ॥ अथ तेषामेकः सुरर्षिं नारदमब्रवीत् ॥ प्रसाद्य भगवन्तं किंचिदिच्छेयं प्रष्टुमिति ॥
पृच्छेत्यब्रवीदृषिः ॥ रसोऽब्रवीदायुष्मन्तः सर्वगुणप्रमुदिताः ॥ अथायुष्मन्तं स्वर्गस्थानं चतुर्भिर्यातव्यं स्यात्कोऽवतरेत् ॥ अयमष्टकोऽवतरेदित्यब्रवीदृषिः ॥
किंकारणमित्यपृच्छत् ॥ अथाचष्टाष्टकस्य गृहे मया उपितं स मां रथेनानुप्रावहदथापश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमा गाव इति सोब्रवीत् ॥ मयानिसृष्टाइत्येतास्तेनैवस्वयं श्लाघति कथितेन ॥ एपोवतरेदथ त्रिभिर्यातव्यं सांप्रतं कोऽवतरेत् ॥
प्रतर्दन इत्यत्रवीदृषिः ॥ तत्र किं कारणं प्रतर्दनस्यापि गृहे मयोपितं स मां रथेनानुप्रावहत् ॥
अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान्निवृत्तो दास्यामीत्यब्रवीद्ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद्ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैव मुक्त्वा दक्षिणं पार्श्वमददत् ॥
अथान्योष्यश्वार्थी ब्राह्मण आगच्छत् ॥ तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात्पुनरपि चान्योप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोथ तस्मै अपनह्य वामं धुर्यमददत् ॥
अथ प्रायात्पुनरन्य आगच्छदश्वार्थी ब्राह्मणस्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद्ब्राह्मणस्तस्मै दत्त्वाऽश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां सांप्रतं नास्ति किंचिदिति ॥
य एष ददाति चासूयति च तेन व्याहृतेन तथाऽवतरेत् ॥ अथ द्वाभ्यां यातव्यमिति कोऽवतरेत् ॥
वसुमना अवतरेदित्यब्रवीदृषिः ॥
किंकारणमित्यपृच्छदथाचष्ट नारदः ॥ अहं परिभ्रमन्वसुमनसो गृहमुपस्थितः ॥
स्वस्तिवचनमासीत्पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः ॥
तमहं रथं प्राशंसमथ राजाऽब्रवीद्भगवतारथः प्रशस्तः ॥ एष भगवतो भगवतोरथ इति ॥
अथ कदाचित्पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् ॥ सम्यगयमेष भगवत इत्येवं राजाऽब्रवीदिति पुनरेव च तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन्मामभिप्रेक्ष्याब्रवीत् ॥ अथो भगवता पुष्परथस्य स्वस्तिवाचनानि सुष्ठु संभावितानि एतेन द्रोहवचनेनावतरेत् ॥
अथैकेन यातव्यं स्यात्कोऽवतरेत्पुनर्नारद आह ॥ शिबिर्यायादहमवतरेयं अत्र किं कारणमित्यब्रवीत् ॥ असावहं शिविना समो नास्मि यतो] ब्राह्मणः कश्चिदेनमब्रवीत् ॥
शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिबिः किं क्रियतामाज्ञापयतु भवानिति ॥
अथैनं ब्राह्मणोऽब्रवीत् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोपपादय ततोऽहं प्रतीक्ष्य इति ॥ ततः पुत्रं प्रमाथ्य संस्कृत्य विधिना साधयित्वा पात्र्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत् ॥
अथास्य मृगयमाणस्य कश्चिदाचष्ट एष ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति ॥
अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत्सिद्धं भगवन्नन्नमिति ब्राह्मणो न किंचिद्व्याजहार विस्मयादधोमुखश्चासीत् ॥
ततः प्रासादयद्ब्राह्मणं भगवन्भुज्यतामिति ॥ मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत् ॥
त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवाविमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् ॥
अथास्य ब्राह्मणो हस्तमगृह्णात् ॥ अब्रवीच्चैनं जितक्रोधोसि न ते किंचिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत् ॥
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलंकृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलंकृतं सर्वंच तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥
तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इतितस्मिन्नन्तर्हिते अमात्या राजानमूचुः ॥ किं प्रेप्सुना भवता इदमेवं जानता कृतमिति ॥
शिबिरुवाच ।
नैवाहमेतद्यशसे ददानि न चार्यहेतोर्न च भोगतृष्णया ।
पापैरनासेवित एष मार्ग इत्येवमेतत्सकलं करोमि ॥
सद्भिः सदाऽध्यासितं तु प्रशस्तं तस्मात्प्रशस्तं श्रयते मतिर्मे ।
एतन्महाभाग्यवरं शिबेस्तु तस्मादहं वेद यथावदेतत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥

3-201-4 आयुष्मन्तं चिरकालभोग्यम् । स्वर्गस्थानम् । पुंस्त्वमार्षम् । अवतरेत्स्वर्गात् भूमौ प्रथममिति शेषः ॥ 3-201-7 पार्श्वं रथचक्रप्रदेशस्थमश्चम् ॥ 3-201-9 अतियातोऽतिवेगवान् । अश्वचतुष्टयस्यापि दानात् धुरं स्वहस्तेनैव गृह्णता । सांप्रतं युक्तायुक्तविचारः ॥ 3-201-13 पुष्परथस् गिरिगगनसागरेष्वप्रतिषिद्धमार्गस्य प्रयोजनेन तदर्थमित्यर्थः ॥ 3-201-14 रथः स्तुत एव नतु याचितः । राजापि ममाशयं बुद्धापि रथं न दत्तवान् रथस्तुतिं चानुमोदितवानिति प्रघट्टकार्थः ॥ 3-201-15 द्रोहवचनेन अदत्त्वा वृथास्तवेन ॥ 3-201-22 महित्वा पूजयित्वा । कपालं शीर्षास्थिपात्रम् ॥ 3-201-27 यो दत्त्वा श्लाघते यश्चासूयेत् यश्चार्थिनो लिप्सितमिङ्गितैर्ज्ञात्वापि तं स्तुतिमात्रेणैव संभावयति नत्वर्थेन यश्च ब्राह्मणेनार्थितः श्रद्धाक्षमापूर्वकमदेयमपि ददाति अकर्तव्यमपि करोति ते उत्तरोत्तरं श्रेष्ठाः । तत्राप्यन्त्यो नारदादपि श्रेष्ठ इति दातुर्गुणदाम विधानपरोऽयमध्यायः ॥