अध्यायः 205

उदङ्केन राज्येस्वपुत्राभिषेचनपूर्वकं वनंप्रस्थितं बृहदश्वं प्रति तन्निवारणपूर्वकं धुन्धुनामकासुरहननचोदना ॥ 1 ॥

मार्कण्डेय उवाच ।
इक्ष्वाकौ संस्तिते राजञ्शशादः पृथिवीमिमाम् ।
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥
शशादस्य तु दायाद ककुत्स्थो नाम वीर्यवान् ।
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रश्च जज्ञिवान् ।
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ॥
बृहदश्वस् दायादः कुवलाश्व इति स्मृतः ।
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंसतिः ॥
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ।
कुवलाश्वश्च पितृतोगुणैरभ्यधिकोऽभवत् ॥
समये तं तदा राज्ये बृहदश्वोऽभ्यषेचयत् ।
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः ।
जगाम तपसे धीमांस्तपोवनममित्रहा ॥
अथ शश्वाव राजर्षिं तमुदङ्को नराधिप ।
वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥
तमुदङ्को महातेजाः सर्वास्त्रविदुषांवरम् ।
न्यवारयदमेयात्मा समासाद्य पुरोत्तमे ॥
उदङ्क उवाच ।
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि ।
निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि ॥
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥
पालन हि महान्धर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी ॥
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।
प्रजानां पालने यत्नः पुरा राजर्षिभिः कृतः ॥
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ।
निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव ॥
ममाश्रमसमीपे वै समेषु मरुधन्वसु । समुद्रवालुकापूर्ण उज्जालक इति स्मृतः ।
बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः । मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ।
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः ॥
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥
शेते लोकविनाशाय तप आस्थाय दारुणम् ।
त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥
अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम् । नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ।
अवाप्यस वरं राजन्सर्वलोकपितामहात् ॥
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा ।
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥
क्रूरस्य तस्य स्वपतो वालुकान्तर्हितस्य च ।
संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते ॥
यदा तदा भूश्चलति सशैलवनकानना ।
तस्य निःश्वासवातेन रज उद्धूयते महत् ॥
आदित्यरथमाश्रित्य सप्ताहं भूमिकम्पनम् ।
सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम् ॥
तेन राजन्न शक्नोमि तस्मिन्स्तातुं स्वआंश्रमे ॥
तं विनाशय राजेन्द्र लोकानां हितकाम्यया ।
लकाः स्वस्था भविष्यन्ति तस्मिन्विनिहतेऽसुरे ॥
`धुन्धुनामानमत्युग्रं दानवं धोरविग्रहम् ।
समरे धोरतुमुले विनाशय महेषुणा' ॥
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः ।
तेजसा तव तेजश्च विष्णुराप्यायविष्यति ॥
विष्णुना च वरो दत्तः पूर्वं मम महीपते ॥
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ।
तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥
तत्तेजस्त्वंसमाधाय राजेन्द्र भुवि दुःसहम् ।
तं निषूदय संदिष्टो दैत्यं रौद्रपराक्रमम् ॥
न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते । निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

3-205-3 बाडिशश्च पृथो पुत्र इति क. थ. पाठः ॥