अध्यायः 210

कौशिकनामकेन द्विजवरेण पतिव्रतावचनाद्धर्मावगतये धर्मव्याधंप्रति गमनम् ॥ 1 ॥ व्याधेन तस्मै नानाधर्मोपदेशः ॥ 2 ॥

मार्कण्डेय उवाच ।
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेपतः ।
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् ।
श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम् ॥
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल ।
तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥
इतिसंचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः ।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ।
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ॥
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ।
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ॥
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम् ।
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम् ॥
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ।
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम् ॥
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ।
सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ॥
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ।
अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम् ॥
मार्गमाहिपमांसानि विक्रीणन्तं तपस्विनम् ।
आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः ॥
स तु ज्ञाता द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।
आजगाम यतो विप्रः स्थित एकान्तआसने ॥
व्याध उवाच ।
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम ।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः ।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥
अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम् ।
गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ ॥
मार्कण्डेय उवाच ।
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत् ।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ॥
प्रविश्य च गृहंरम्यमासनेनाभिपूजितः ।
`अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः' ॥
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ।
ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत् ॥
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥
व्याध उवाच ।
कुलोचितमिदं कर्म पितृपैतामहं परम् ।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन् ।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च ।
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् ।
कृतमन्वेति कर्तारं पुरा कर्म द्विजेत्तम ॥
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् ।
दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत ॥
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ।
ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा ॥
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः ।
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हिते ।
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते ।
स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम ॥
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् ।
दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम् ॥
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति ।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् ।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् ।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम् ।
सदोपवासी च तथा नक्तभोजी सदा द्विज ॥
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ।
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ॥
व्यभिचाराननरेन्द्राणां धर्मः संकीर्यते महान् ।
अधर्मो वर्तते चापि संकीर्यन्ते ततः प्रजाः ॥
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च ।
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः ॥
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ।
स एष राजा जनकः प्रजा धर्मेण पश्यति ॥
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ।
`पात्येष राजा जनकः पितृवद्द्विजसत्तम' ॥
येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः ।
सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम् ॥
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः ।
न किंचिदुपजीवनति दान्ता उत्थानसीलिनः ॥
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता ।
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे ।
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ॥
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ॥
न मुह्येदर्थकृच्छ्रेषु न च धऱ्मं परित्यजेत् ।
कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत् ॥
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ।
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ॥
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ।
कर्म चैतदसाधूनां वृजिनानामसाधुकम् ॥
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये ।
अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः ॥
महादृतिरिवाध्मातः पापो भवति नित्यदा ।
`साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम' ॥
मूढानामवलिप्तानामसारं भाषितं भवेत् ।
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥
न लोके राजते मूर्खः केवलात्मप्रशंसया ।
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते ॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥
कर्मणा येन केनापि पापात्मा द्विजसत्तम ।
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते ॥
पापनि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात् ।
धर्मो ब्रह्मन्नुदते ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात् ॥
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः ।
[तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः] ॥
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः ॥
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः ।
`अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति' ॥
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ॥
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम ।
`तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः' ॥
लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ॥
येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः । सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

3-210-1 आगोऽपराधः कृतमननेत्यागस्कृतः ॥ 3-210-7 विमानैः साप्तभौमिकगृहैः ॥ 3-210-10 सूना वधस्थानं तन्मध्ये ॥ 3-210-16 अदेशस्थं अयोग्यदेशस्थम् ॥ 3-210-22 गुरू मातापितरौ ॥ 3-210-23 वर्तये जीवामि ॥ 3-210-24 कुत्सा विद्यमानदोषसंकीर्तनम् । गर्हा अविद्यमानदोषारोपः । पुराकृतं कर्मेति संबन्धः ॥ 3-210-25 लोकः परलोकः ॥ 3-210-30 न ग्लाति न ग्लानि नयति ॥ 3-210-36 व्यभिचारात्स्वैरगतेः ॥ 3-210-37 भेरुण्डाः भयानकाः । उरुण्डाः इति ख. थ.ध. पाठः ॥ 3-210-40 सुपरिणीतेन साधुना ॥ 3-210-41 ये संयुञ्जन्ति सम्यग्योगं सेनाविनेशं कुर्वन्ति तएव पार्तिवा अन्ये चोरो इत्यर्थः ॥ 3-210-44 संरम्भाद्भयात् ॥ 3-210-45 अन्त् विपरीतं स्यात् इतरत्तादृशं द्वितीयं कल्याणमेवाचरेत् ॥ 3-210-46 पापः पापी ॥ 3-210-47 वृजिनानां व्यसनवताम् ॥ 3-210-49 दृतिर्भस्त्रा । आध्यातः सन्नसारोपि पुष्टो भवेत् ॥ 3-210-51 मृजाहीनः मलिनदेहः ॥ 3-210-52 मूढस्वरूपमाह अब्रुवन्निति ॥ 3-210-53 पापात् प्राक्कृतात् । द्वितीयात्करिष्यमाणात् ॥ 3-210-54 जपतपस्तीर्थाद्यन्यतमेन येनकेनचिदपि कर्मणा पापात् परिमुच्यत् इत्यनुषज्ज्यते ॥