अध्यायः 213

धर्मव्याधेन कौशिकंप्रति पौरुषनिन्दनन दैवप्रशंसनपूर्वकं सुकृतदुष्कृतयोः सुखदुःखहेतुताप्रतिपादनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।
विप्रर्षभमुवाचेदं सर्वधर्मभृतांवर ॥
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम् ।
सूक्ष्मा गतिर्हि धर्मस् बहुशाखा ह्यनन्तिका ॥
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत् ।
अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत् ॥
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥
यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम ।
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥
विषमां च दशां प्राप्तो देवान्गर्हति वै भृशम् ।
आत्मृनः कर्मदोषेण न विजानात्यपण्डितः ॥
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम ।
`न शुभं कर्म बध्नाति पुरुषं पाषनिश्चयम्' ॥
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥
यो यमिच्छेद्यथा कामं तं तं कामं स आप्नुयात् ।
यदि स्यादपराधीनं पौरुषस् क्रियाफलम् ॥
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेनैव युज्यते ॥
अचेष्टमपि चासीनं श्रीः कंचिदुपतिष्ठति ।
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृध्नुभिः ।
दशमासधृता गर्भा जायन्ते कुलपांसनाः ॥
अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः ।
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥
`न देहजा मनुष्याणां व्याधयो द्विजसत्तम' ।
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ॥
आधिभिश्चैव बाध्यन्ते व्यालैः क्षुद्रमृगा इव ।
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥
येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः ।
न शक्नुवन्ति ते भोक्तुं चेष्टितं पूर्वकर्मया ॥
अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः ।
दुःखेन चाधिगच्छनति भोजनं द्विजसत्तम ॥
इति लोकमनाक्रन्दं देहशङ्कापरिप्लुतम् ।
स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥
न म्रियेयुर्न जीर्यैयुः सर्वे स्युः सर्वकामिकाः ।
नाप्रियं प्रतिपश्येयुर्विधिश्च यदि नो भवेत् ॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाथक्ति न च तद्वर्तते तथा ॥
बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः ।
महत्तु फलवैषम्यं दृश्यते कर्मसिद्धिषु ॥
न केचिदीशते ब्रह्मन्स्वयंग्राह्यस्य सत्तम ।
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥
तथा श्रुतिरियंब्रह्मञ्जीवः किल सनातनः ।
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥
वध्यमाने शरीरे तु देहनाशो भवत्युत ।
जीवः संक्रमतेऽन्यत्रकर्मबनधनिबन्धनः ॥
ब्राह्मण उवाच ।
कथं धर्मविदांश्रेष्ठ जीवो भवति शाश्वतः ।
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतांवर ॥
व्याध उवाच ।
न जीवनाशोस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतीति मूढाः ।
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास् शरीरभेदः ॥
अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस् कश्चित् ।
यत्तेन किंचिद्धि कृतंहि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥
सुपुण्यशीला हि भवन्ति पुण्या नराधमाः पापकृतो भवन्ति ।
नरोऽनुयातस्त्विह कर्मभिः स्वै- स्ततः समुत्पद्यति भावितस्तैः ॥
ब्राह्मण उवाच ।
कथं संभवते योनौ कथं वा पुण्यपापयोः ।
जातीः पुण्या ह्यपुण्याश् कथं गच्छति सत्तम ॥
व्याध उवाच ।
गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते ।
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥
यथा संभृतसंभारः पुनरेव प्रजायते ।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥
शुभैः प्रयोगैर्देवत्वंव्यामिश्रैर्मानुषो भवेत् ।
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥
जातिमृत्युजरादुःखैः सततं समभिद्रुतः ।
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः ।
तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते ॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ॥
अजस्रमेव दुःखार्तोऽदुःखितः सुखिसंज्ञितः ।
ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि ॥
परिक्रामति संसारे चक्रवद्बहुवेदनः ।
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ॥
तपोयोगसमारम्भं कुरुते द्विजसत्तम ।
कर्मभिर्बहुभिश्चापि लोकानश्नाति कर्मभिः ॥
[स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ।] प्राप्नोति सुकृताँल्लोकान्यत्रगत्वा न शोचति ॥
पापं कुर्वनपुण्यवृत्तः पुण्यस्यान्तं न गच्छति । `पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति' ।
तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पापकम् ॥
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते ।
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥
संस्कृतस्य च दान्तस् नियतस्य यतात्मनः ।
प्राज्ञास्यानन्तरा वृत्तिरिहि लोके परत्र च ॥
सतां धऱ्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः ॥
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः ।
स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसंकराः ॥
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति ।
तस्माद्धर्मादवाप्तेन धनन द्विजसत्तम ॥
तस्यैव सिंचते मूलं गुणान्पश्यति यत्र वै । धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति ।
स मित्रजनसंतुष्ट इह प्रेत्य च नन्दति ॥
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांस्च सत्तम ।
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥
धरमस्य च पलं लब्ध्वा न तुष्यति महाद्विज ।
अतुष्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते ।
विरज्ये यथाकामं न च धर्मं विमुञ्चति ॥
फलत्यागे च यतते दृष्ट्वा लोकं क्रियात्मकम् ।
ततो मोक्षे प्रयतते नानुपायादुपायतः ॥
एवं निर्वेदमादत्ते पापं कर्म जहाति च ।
धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥
इन्द्रियाणां निरोधेन सत्येन च दमेन च ।
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥
ब्राह्मण उवाच ।
इन्द्रियाणीति यान्याहुः कानि तानि यतव्रत ।
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥
कथं च फलमाप्नोति तेषां धर्मभृतांवर । एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमस्यापर्वणि त्रयोदशाधिकद्विशततमोऽध्याः ॥ 213 ॥

3-213-4 धारणा अवधारणं । निश्चय इत्यर्थः ॥ 3-213-8 सनीतं गुरुशिक्षा ॥ 3-213-10 प्रहीणाः श्रान्ता अपीत्यर्थः ॥ 3-213-13 पुत्रगृध्रुभिः पुतर्कामैः ॥ 3-213-19 अनाक्रन्दं असहायम् । आक्रन्दः क्रन्दने ह्वाने मित्रदारुणयुद्धयोरिति मेदिनी । स्रोतसा कर्मप्रवाहेण ॥ 3-213-23 स्वीयमपि वस्तु स्वस्यानधीनं प्राक्कर्मवशाद्भवतीत्यर्थः ॥ 3-213-27 दशार्धता पञ्चत्वम् ॥ 3-213-27 मोहनीयैस्तामसै । अधः नरकतिर्यक्षु ॥ 3-213-33 प्रेत्य मृत्वा । 3-213-36 दुःखात्मकः प्रतीघातः । दुखं भोक्तुमित्यर्थः ॥ 3-213-39 निवृत्तबन्धो वीतरागः । तत्र हेतुः विशुद्धश्चेति ॥ 3-213-40 तपोयोगयोः आलोचनध्यानयो समारम्भम् ॥ 3-213-42 यतेत् यतेत ॥ 3-213-49 प्रभुत्वं अप्रतिहतेच्छत्वम् ॥ 3-213-51 अतुष्यमाणः प्रीतिमलभमानः निर्वेदं वैराग्यं दोषं रागद्वेषादिकं नानुरुध्यते तद्वशो न भवतीत्यर्थः ॥ 3-213-52 उपायत एव मोक्षे प्रयतते नन्वनुपायाद्दैवमात्राश्रयादिति योजना ॥ 3-213-54 तपः ज्ञानम् । निःश्रेयसं मोक्षसाधनम् ॥ 3-213-57 तेषां इन्द्रियाणां निग्रहादिति शेषः ॥