अध्यायः 215

कौशिकंप्रति धर्मव्याधे नभूतपञ्चकगुणनिरूपणपूर्वकमिन्द्रियजयाजययोः सुखदुःखासाधारणकारणताकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत ।
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥
ब्राह्मण उवाच ।
महाभूतानि यान्याहुः पञ्च धर्मविदांवर ।
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥
व्याध उवाच ।
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
गुणोत्तराणइ सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥
भूमिः पञ्चगुणा ब्रह्मननुदकं च चतुर्गुणम् ।
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एतेगुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥
शब्दः स्पर्शश्च रूपं च सरश्चापि द्विजोत्तम ।
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु ॥
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु ।
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥
अन्योन्यं नातिवर्तन्ते सम्यक्व भवति द्विज ।
यदा तु विषमं भावमाचरन्ति चराचराः ॥
तदा देही देहमन्यं व्यतिरोहति कालतः ।
प्रातिलोम्याद्विनश्यन्ति जायन्ते चानुपूर्वशः ॥
तत्र तत्रहि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् ।
तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु ।
इन्द्रियाणि तथा देही धारयन्निह तप्यते ॥
लोके विततमात्मानं लोकं चात्मनि पश्यति ।
परापरज्ञः सक्तः सन्स तु भूतानि पश्यति ॥
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।
ब्रह्मभूतस् संयोगो नाशुभेनोपपद्यते ॥
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् ।
लोकबुद्धिप्रकाशेन ज्ञेयमार्गेण गम्यते ॥
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् ।
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि । `तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति' ।
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा ॥
इन्द्रियाण्येव तत्सर्वंयत्स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् ।
एतन्मूलं हि तपसः स्वर्गस्य नरकस्य च ॥
इन्द्रियाणां प्रसङ्गेन दोमार्च्छत्यसंशयम् ।
सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात् ॥
षण्णामात्प्रनि योज्यानामैश्वर्यं योऽधितिष्ठति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥
रथः शरीरं पुरुषस्य दृष्ट- मात्मा नियन्तेन्द्रियाण्याहुरश्वान् ।
तैरप्रमत्तः कुशली सदश्वै- र्दान्त सुखं याति रथीव धीरः ॥
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम् ।
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते ।
तदस् हरते बुद्धिं नावं वायुरिवाम्भसि ॥
येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम् । तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥

3-215-3 गुणोत्तराणि उत्तरोत्तरगुणाः पूर्वपूर्वस्मिन्वर्तन्त इत्यर्थः ॥ 3-215-10 आनुपूर्व्या विनश्यन्ति इति झ. थ. पाठः ॥ 3-215-20 कृत्स्नस्य नरकस्य चेति झ. ध. पाठः ॥ 3-215-27 षट्सु मोहात् इति झ. पाठः ॥