अध्यायः 217

धर्मव्याधेन कौशिकाय स्वगृहप्रवेशनपूर्वकं वृद्धयोः स्वपित्रोः प्रदर्शनम् ॥ 1 ॥ तथा मातापितृविषये स्वानुसंधानप्रकारनिवेदनम् ॥ 2 ॥

मार्कण्डेय उवाच ।
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह ॥
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् ।
न तेऽस्त्यविदितं किंचिद्धर्मेष्वभिसमीक्ष्यते ॥
व्याध उवाच ।
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम ।
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् ।
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् ।
सौधं हृद्यं चतुःशालमतीव च मनोरमम् ॥
देवतागृहसंकाश दैवतैश्च सुपूजितम् ।
शयनासनसंबाधं गन्धैश्च परमैर्युतम् ॥
तत्रशुक्लाम्बरधरौ पितरावस्य पूजितौ ।
कृताहारौ तु संतुष्टावुपविष्टौ वरासने ॥
`तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह' ।
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत् ॥
वृद्धावूचतुः ।
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु । प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ।
[गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः] ॥
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ ।
`सुखमेव वसावोऽत्र देवलोकगताविव' ॥
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते ।
प्रयतसत्वाद्द्विजातीनांदमेनासि समनवितः ॥
पितुः पितामहा ये च तथैव प्रपितामहाः ।
प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते ।
न चान्या हि तथा बुद्धिर्दृश्यते सांप्रतं तव ॥
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ ।
तथा त्वया कृतंसर्वंतद्विशिष्टं च पुत्रक ॥
मार्कण्डेय उवाच ।
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् ।
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥
प्रतिगृह्यच तां पूजां द्विजः पप्रच्छ तावुभौ । सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ।
अनामय च वां कच्चित्सुखं वेह शरीरयोः ॥
वृद्धावूचतुः ।
कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः ।
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निति ॥
मार्कण्डेय उवाच ।
हाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः ।
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥
पिता माता च भगवन्नेतौ मे दैवतं परम् ।
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः ।
संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥
उपाहारानाहरन्तो देवतानां यथा द्विजः ।
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् ।
एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज ॥
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः ।
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥
एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः ।
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये ।
आहारं च प्रयच्छामि स्वयंच द्विजसत्तम ॥
अनुकूलाः कथा वच्मि विप्रियं परिवर्जये ।
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम ।
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥
पञ्चैव गुरवो ब्रह्मनपुरुषस्य बुभूषतः ।
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम ॥
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम । भवेयुरप्रयस्तेन परिचीर्णास्तु नित्यशः ।
गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥

3-217-6 शयनासनसबाधं शयनादिसंकीर्णम् ॥ 3-217-16 वां युवयोः ॥ 3-217-17 नौ आवयोः ॥