अध्यायः 218

धर्मव्याधेन कौशिकंप्रति मातापितृशुश्रूषणचोदनपूर्वकं स्वस्य शूद्रयोनौ जनननिदानकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
गुरू निवेद्य विप्राय तौ मातापितरावुभौ ।
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥
प्रवृत्तचक्षुर्जातोस्मि संपश्य तपसो बलम् ।
यदर्थमुक्तोसि तया गच्छ त्वं मिथिलामिति ॥
पतिशुश्रूषपरया दान्तया सत्यशीलया ।
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥
ब्राह्मण उवाच ।
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत ।
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥
व्याध उवाच ।
यत्तया त्वं द्विजश्रेष्ठ नियुक्तो मां प्रति प्रभो ।
दृष्टमेव तया सम्यगेकपत्न्या न संशयः ॥
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया ।
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥
त्वया न पूजिता माता पिता च द्विजसत्तम ।
अनिसृष्टोसि निष्क्रान्तो गृहात्ताभ्यामनिनदित ॥
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ।
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ ॥
तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम् ।
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा ॥
सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय ।
`तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि' ॥
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि ।
यम्यतामद्यविप्रर्षे श्रेयस्ते कथयाम्यहम् ॥
ब्राह्मण उवाच ।
यदेतदुक्तं भवता सर्वं सत्यमसंशयम् ।
प्रीतोस्मि तव भद्रं ते धर्माचारगुणान्वित ॥
व्याध उवाच ।
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः ।
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥
मातापित्रोः सकाशं हि गत्वात्वं द्विजसत्तम । अतन्द्रितः कुरु क्षिप्रंमातापित्रोर्हि पूजनम् ।
अतः परमहं धर्मं नान्यं पश्यामि कंचन ॥
ब्राह्मण उवाच ।
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया ।
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥
एकोनरसहस्रेषु धर्मवानविद्यते न वा ।
प्रीतोस्मि तवसत्येन भद्रं ते पुरुषर्षभ ॥
पतमानोऽद्यनरके भवताऽस्मि समुद्धृतः ।
भवितव्यमथैवं च यद्दृष्टोसि मयाऽनघ ॥
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा ।
सद्भिः पुरुषशार्दूल तथाऽहं भवता त्विह ॥
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव ।
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता ।
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥
येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया । एतामिच्छामि विज्ञातुं तत्त्वेन तव शूद्रताम् ।
कामयानस् मे शंस सर्वं त्वं प्रयतात्मवान् ॥
व्याघ उवाच ।
अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम ।
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः । वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ।
आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम् ॥
कश्चिद्राजा मम सखा धनुर्वेदपरायणः ।
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः । सहितो योधमुख्यैश् मन्त्रिभिश्च सुसंवृतः ।
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम ।
ताडितश्च ऋषिस्तन शरेणानतपर्वणा ॥
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् ।
नापराध्याम्यहं किंचित्केन पापमिदं कृतम् ॥
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम् । अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ।
तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः ।
अजानता कृतमिदं मयेत्यहमथाब्रुवम् ॥
क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः ॥
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्च्छितः । व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥

3-218-2 प्रवृत्तचक्षुर्दिव्यदृष्टिः । तपसः पित्रोः शुश्रूषात्मकस्य ॥ 3-218-28 निष्टनन्तं शब्दं कुर्वन्तम् ॥