अध्यायः 225
मार्कण्डेयेन युदिष्ठिरंप्रति कुमारोत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ देवसेनानां नायकसंपादनाय चिन्तयता इन्द्रेण मानसशैले कस्याश्चित्कन्याया अवलोकनम् तस्याः कुलचिकीर्षितादिप्रश्नश्च ॥ 2 ॥
मार्कण्डेय उवाच । 
					अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ ।
						शुणु जन्म तु कौरव्य कार्तिकेयस् धीमतः ॥
					अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् ।
						जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥
					देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् ।
						तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥
					वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः ।
						स सैन्यनायकार्थाय चिन्तयामास वासवः ॥
					देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः ।
						पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥
					स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् ।
						शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥
					अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह ।
						पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥
					पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव ।
						एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥
					किरीटिनं गदापाणिं धातुमन्तमिवाचलम् ।
						हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत् ॥
					अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि ।
						वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात् ॥
						केश्युवाच । 
					विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया ।
						क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन ॥
					एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै ।
						तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥
					अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् ।
						`महामेघप्रतीकाशं चलत्पावकसंकुलम् ॥
					तदापन्ततं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः ।
						बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥
					पतता तु तदा केशी तेन शृङ्गेण ताडितः ।
						हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥
					अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् ।
							कासि कस्यसि किंचेह कुरुषे त्वं शुभानने ॥
					इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चविंसत्यधिकशततमोऽध्यायः ॥ 225 ॥
3-225-2 अद्भुतस्याग्नेः । अद्भुतं अभिवनम् ॥ 3-225-6 स्त्रिया देवसेनाभिमानिदेवतया ॥
