अध्यायः 226

कन्यया इन्द्रंप्रतिस्वस्य दक्षपुत्रीत्वकथनपूर्वकं भर्तृकामनानिवेदनम् ॥ 1 ॥ इन्द्रेण कन्याया उचितपतिं प्रार्थितेन ब्रह्मणा कन्याभर्तुरनतिचिरभावित्वकथनपूर्वकं तस्यैव तत्सेनापतीभवनकथनम् ॥ 2 ॥ सप्तर्षिमस्वे तत्पत्नीनामवलोकनेन क्षुभितमनसाऽग्निना तासामलाभेन निर्वेदाद्वनंप्रति गमनम् ॥ 3 ॥ चिरेणाग्निकामया स्वाहयाऽत्रावसरे सप्तर्षिपत्नीसमानरूपस्वीकारेणाग्निवशीकरणनिर्धारणम् ॥ 4 ॥

कन्योवाच ।
अहं प्रजापतेः कन्या देवसेनेति वुश्रुता ।
भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता ॥
सहैवावां भगिन्यौ तु सखीभिः सह मानसम् ।
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम् ॥
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः ।
इच्छत्येनं दैत्यसेना न चाहं पाकशासन ॥
सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु ।
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥
इन्द्र उवाच ।
मम मातृष्वसेयी त्वं माता दाक्षायणी मम ।
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥
कन्योवाच ।
अबलाऽहं महाबाहो पतिस्तु बलवान्मम ।
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥
इन्द्र उवाच ।
कीदृशं तु बलंदेवि पत्युस्तव भविष्यति ।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥
कन्योवाच ।
देवदानवयक्षाणां किन्नरोरगरक्षसाम् ।
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः ॥
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति ।
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥
मार्कण्डेय उवाच ।
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् ।
अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ॥
अथापश्यत्स उदये भास्करं भास्करद्युतिः ।
सोमं चैव महाभागं प्रविशन्तं दिवाकरम् ॥
अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु ।
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ॥
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः ।
अपश्यल्लोहितोदं च मघवान्वरुणालयम् ॥
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः ।
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् ।
तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम् ॥
समालोक्यैकतामेव शशिनो भास्करस्य च ।
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत् ॥
सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम् ।
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति ॥
सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम् ।
शृगालिनयग्निवक्रा च प्रत्यादित्यं विराविणी ॥
एष रौद्रश्चसंघातो महान्युक्तश्च तेजसा ।
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ।
अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः ॥
एष चेञ्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ।
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः ॥
गृहीत्वा देवसेनां तां ववन्दे स पितामहम् ।
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा ॥
ब्रह्मोवाच ।
यथैतच्चिन्तितंकार्यं त्वया दानवसूदन ।
तथा स भविता गर्भो बलवानुरुविक्रमः ॥
स विष्यति सेनानीस्त्वया सह शतक्रतो ।
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ मह कन्यया ।
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन् ॥
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः ।
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे ॥
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ।
इष्टिं कृत्वयतान्यायं सुसमिद्धे हुताशने ॥
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ।
समाहूतो हुतवहःसोऽद्भुतः सूर्यमण्डलात् ॥
विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः ।
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥
सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः ।
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् ।
स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम् ॥
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः ।
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ॥
स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः ।
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥
भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम् ।
साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम् ॥
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः ।
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥
मार्कण्डेय उवाच ।
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः ।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥
निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः ।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥
कामसंतप्तहृदयो देहत्यागे विनिश्चितः ।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ॥
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा । सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी ।
सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम् ।
तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् । कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ।
एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षङ्घिंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥

3-226-12 अप्यमावस्यमावासी चामामास्यप्यमामसाति शब्दार्णवः ॥ 3-226-20 अग्निस्च तैर्गुणैर्युक्तः सर्वैरग्निश्च देवतेति झ. पाठः ॥