अध्यायः 231

स्कन्देन स्वाहादेव्या अभीष्टदानम् ॥ 1 ॥ ब्राह्मणा स्कन्दंप्रति सोपपत्तिकं तस्य रुद्रपुत्रत्वादिकथनम् ॥ 2 ॥

मार्कण्डेय उवाच ।
यदा स्कन्देन मातृणामेवमेतत्प्रियं कृतम् ।
अथनैमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् ।
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥
स्वाहोवाच ।
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज ।
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥
न स मां कामिनीं पुत्र सम्यग्जनाति पावकः ।
इच्छामि शाश्वतं वासं वस्तु पुत्र सहाग्निना ॥
स्कन्द उवाच ।
हव्यं कव्यंच यत्किंचिद्द्विजा मन्त्रसुसंस्तुतम् ।
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वासमुद्धृतम् ॥
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः ।
एवमग्निसत््वया सार्धं सदा वत्स्यति शोभने ॥
मार्कण्डेय उवाच ।
एवमुक्ता ततः स्वाहा तुष्टास्कन्देन पूजिता ।
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ॥
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् ।
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ॥
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया ।
हितर्थं सर्वलोकानां जातस्त्वमपराजितः ॥
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना ।
अस्मिन्गिरौ निपतितं मिञ्जिकमिञ्जिकं यतः ॥
`मिथुनं वै महाभाग तत्र तद्रुद्रसंभवम्' ।
संभूतं लोहितोदे तु शुक्रशेषमवापतत् ॥
सूर्यरश्मिषु चाप्यनयदन्यच्चैवापतद्भुवि ।
आसक्तमन्यद्वृक्षेषु तदेवं प्चधाऽपतत् ॥
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः ।
तव पारिषदा घोरा य एते पिशिताशिनः ॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् ।
अपूजयदमेयात्मा पितरं पितृवत्सलः ॥
मार्कण्डेय उवाच ।
अर्कपुष्पैस्तु ते पञ् गणाः पूज्या धनार्थिभिः ।
व्यादिप्रशमनार्थं चतेषां पूजां समाचरेत् ॥
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् ।
नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः ।
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥
एषामेव पिशाचानामसङ्ख्येयगणाः स्मृताः ।
घण्टायाः सपताकायाः शृणु मे संभवं नृप ॥
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते ।
गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता ॥
एका तत्रविशाखस्य घण्टा स्कन्दस्य चापरा ।
पताका कार्तिकेयस् विशाखस्य च लोहिता ॥
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा ।
तैरेव रमते देवो महासेनो महाबलः ॥
स संवृतः पिशाचानां गणैर्देवगणैस्तथा ।
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृत्तः ॥
तेन वीरेण शुशुभे स शैलः शुभकाननः ।
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥
संतानकवनैः फुल्लैः करवीरवनैरपि ।
पारिजातवनैश्चैव जपाशोकवनैस्तथा ॥
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि ।
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥
तत्रदेवगणाः सर्वेसर्वे देवर्षयस्तथा ।
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥
तत्रदेवाश्च गन्धर्वा नृत्यन्तेऽप्सरसस्तथा ।
हृष्टानां तत्रभूतानां श्रूयते निनदो महान् ॥
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् । प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

3-231-10 मुञ्जिको मुष्टिका ततः इति ट. थ.पाठः ॥