अध्यायः 232

स्कन्दस्य देवसैनापत्येऽभिषेकानन्तरं महादेवस्य पार्वत्या सह भद्रवटंप्रति प्रस्थानम् ॥ 1 ॥ तदेन्द्रादिभिर्दिक्पालैः ससैन्यैस्तमनु प्रस्थानम् ॥ 2 ॥ तदा रुद्रेण स्कन्दस्य देवसैनापत्ये नियोजनम् ॥ 3 ॥ ततो देवासुराणां महायुद्धम् । तत्रस्कन्देन महिषासुरसंहारः ॥ 4 ॥

मार्कण्डेय उवाच ।
यदाऽभिषिक्तो भगवान्सैनापत्ये तु पावकिः ।
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ।
`अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः' ॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे ।
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम् ॥
तेपिबन्त इवाकाशं त्रासयन्तक्षराचरान् ।
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ।
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह ।
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह ।
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः ।
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः ।
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः ।
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥
यमस्य पृष्ठतश्चैव रघोरस्त्रिशिखरः शितः ।
विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः ॥
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः ।
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥
पृष्ठतोविजयस्यापि याति रुद्रस्य पट्टसः ।
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥
पट्टसं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् ।
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः ॥
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः ।
भृग्वङ्गिरोभिः सहितो दैधतैश्चानुपूजितः ॥
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः ।
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा ।
नद्यो ह्रदाःसमुद्राश्चतथैवाप्सरसां गणाः ॥
नक्षत्राणि ग्रहाश्चैवदेवानां शिशवश्च ये ।
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ।
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ॥
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ।
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ ॥
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः ।
सहराजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया ।
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥
तत्र विद्यागणाः सर्वेये केचित्कविभिः स्मृताः ।
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः । व्यापृतस्तु श्मशाने यो नित्यं रुद्रस् वै सखा ।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥
एबिश्च सहितो देवस्तत्रयाति यथासुखम् ।
अग्रतः पृष्ठतस्चैवं न हि तस्य गतिर्ध्रुवा ॥
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् ।
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥
`एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः' ।
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥
कदेवसेनापतिस्त्वं देवसेनाभिरावृतः ।
अनुदच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥
अथाब्रवीन्महासेनं महादेवो बृहद्वचः ।
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥
स्कन्द उवाच ।
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो ।
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥
रुद्र उवाच ।
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि ।
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥
मार्कण्डेय उवाच ।
इत्युक्त्वा विससर्जैनं परिष्यज्य महेश्वरः ।
`स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा' ॥
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ।
सहसैव महाराजदेवान्सर्वान्प्रमोहयत् ॥
जज्वाल स्वं सनक्षत्रं प्रमूढं भुवनं भृशम् ।
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा ।
उमा चैवमहाभाग देवाश्च समहर्षयः ॥
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम् ।
नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः ।
अभ्यद्रवद्रणए देवान्भगवन्तं च शंकरम् ॥
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः ।
पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः ॥
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः ।
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् ।
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥
असुरैर्वध्यमानं तत्पावकैरिव काननम् ।
अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा ॥
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः ।
न नाथमधिगच्छन्ति वध्यमाना महारणे ॥
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः ।
आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम् ॥
भयं त्यजत भद्रं व शूराः शस्त्राणि गृह्णत ।
कुरुध्वंविक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥
जयतैनाम्सुदुर्वृत्तान्दानवान्घोरदर्शनान् ।
अभिद्रवत भद्रं वो मया सह महासुरान् ॥
शक्रस् वचनं श्रुत्वा समाश्वस्ता दिवौकसः ।
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥
ततस्ते त्रिदशाः सर्वेमरुतश्च महाबलाः ।
प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह ॥
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे ।
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु ॥
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा ।
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः ॥
तानि दैत्यशरीराणि निर्भिन्नानिस्म सायकैः ।
अपतन्भूतलेराजंश्छिन्नाभ्राणीव सर्वशः ॥
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि ।
त्रासितं विविधैर्बाणैः कृतंचैव पराङ्युखम् ॥
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः ।
संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः ॥
एवमन्योन्रसंयुक्तं युद्धमासीत्सुदारुणम् ।
देवानां दानवानां च मांसशोणितकर्दमम् ॥
अनयो देवलोकस्य सहसैवाभ्यदृश्यत ।
तथहि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः ।
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः ।
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥
ते तं धनैरिवादित्यं दृष्ट्वासंपरिवारितम् ।
तमुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् ।
`महाकायं महाराज सतोयमिव तोयदम्' ॥
पतता तेन गिरिणा देवसैन्यस् पार्थिव ।
भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् ।
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः ।
व्यद्रवन्तरणे बीता विकीर्णायुधकेतनाः ॥
ततःस महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ ।
अभिद्रुत्य च जग्राह रुद्रस् रथकूवरम् ॥
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः ।
रेसतू रोदसी गाढं मुमुहुश् महर्षयः ॥
अनदंश्चमहाकाया दैत्या जलधरोपमाः ।
आसीच्चनिश्चितं तेषां जितमस्माभिरित्युत ॥
तथाभूते तु भगवानाहूय गुहमात्मजम् । `दौरात्म्यं पश्य पुतर् त्वं दानवस्य दुरात्मनः ।
जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम् ॥
इत्युक्ताव भगवान्स्कन्दं परिपूज्य महेश्वरः । अयोजयन्निग्रहार्थं महिषस् गतायुषः' ।
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस् चानदत् ।
देवान्संत्रासयंश्चापि दैत्यांस्चापिप्रहर्षयत् ॥
ततस्तस्मिनभये घोरे देवानां समुपस्थिते ।
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः ।
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः ॥
रथमादित्यसंकाशमास्थितः कनकप्रभम् ।
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥
स चापि तां प्रज्वलितां महिषस् विदारिणीम् ।
मुमोच शक्तिं राजेनद््र महासेनो महाबलः ॥
सा मुक्ताऽभ्यहरत्तस्य महिषस्य शिरो महत् ।
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥
पतता शिरसा तेन द्वारं षोडशयोजनम् । पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत् ।
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुम् ॥
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः ।
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥
प्रायः शरैर्विनिहता महासेनेन धीमता । शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ।
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः ॥
दनवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् ।
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥
तमांसीवयथा सूर्यो वृक्षानग्निर्घनान्खगः ।
तथास्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् ।
शुशुभे कृतिकापुत्रः प्रकीरणांशुरिवांशुमान् ॥
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम् ।
तदाऽब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः ।
`हजय्यो युधि देवानां दानवः स महाबलः' ॥
देवास्तृणसमा यस्य वबूवुर्जयतांवर ।
सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥
शतं महिषतुल्यानां दानवानां त्वय रणे ।
निहतंदेवशत्रूणां यैर्वयं पूर्वतापिताः ॥
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः ।
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति । त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ।
वशगाश्च भविष्यनति सुरास्तव महाभुज ॥
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः ।
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः ॥
गतो भद्रवटंरुद्रो निवृत्ताश्च दिवौकसः ।
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः ।
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥
स्कन्दस् य इदं विप्रः पठेज्जन्म समाहितः ।
`शृणुयाद्ब्राह्मणेभ्यो यः श्रावयेद्वाविचेतनम् ॥
धनमायुर्यशो दीप्तिं पुत्राञ्शत्रुजयंतथा' । सपुष्टिमिहसंप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥

3-232-8 जृम्भकैर्ग्रहविशेषैः भास्करैर्यक्षरक्षोभिः इति ध.पाठः ॥ 3-232-23 विद्यागणाः स्तुतिपद्यसमूह्यः ॥ 3-232-62 कूवरं धूःप्रदेशम् ॥ 3-232-63 रेसतुः शब्दं चक्रतुः । रोदसी द्यावाभूमी ॥