अध्यायः 233

मार्कण्डेयेन युधिष्ठिराय स्कन्दनाम्नां कीर्तनम् ॥

युधिष्ठिर उवाच ।
भगवञ्श्रोतुमिच्छामि नामानि च महात्मनः ।
तरिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥
वैशंपायन उवाच ।
इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ ।
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥
आगेयश्चैव स्कनदश्च दीप्तकीर्तिरनामयः ।
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥
कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥
अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।
दीप्तशक्तिः प्रशान्तात्मा नद्रकुक्कुटमोहनः ॥
षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥
प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ।
सुव्रतो ललितश्चैवबालक्रीडनकप्रियः ॥
खचारी ब्रह्मचारी च शूरः शरवणोद्भवः । विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ।
वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु ॥
नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् ।
स्वर्गं कीर्तिं धनं चैव स लभेन्नात्र संशयः ॥
मार्कण्डेय उवाच ।
स्तोष्यामि देवैर्ऋषिभिश्च जुष्टं शक्त्या गुहंनामभिरप्रमेयम् ।
षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर ॥
ब्रह्मण्यो वै ब्रहमजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतांवरिष्ठः ।
ब्रह्मप्रियो ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानांच नेता ॥
स्वाहा स्वधा त्वंपरमं पवित्रं मन्त्रस्तुतस्त्वंप्रथितः षडर्चिः ।
संवत्सरस्त्वमृतवश्च षड्वै मासार्धमासाश्चदिनं दिशश्च ॥
त्वंपुष्कराक्षस्त्वरविन्दवक्रः सहस्रचक्षोसि सहस्रबाहुः ।
त्वं लोकपालः परमं हविश्च त्वं भावनः सर्वसुरासुराणाम् ॥
त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शक्रजेता ।
सहस्रपात्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक्व ॥
सहस्रशीर्षस्त्वमनन्तरूपः । सहस्रपात्त्वंदशशक्तिधारी ।
गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव ॥
त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी ।
दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥
सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा ।
ऋतस्य कर्ता दितिजान्तकस्त्वं जता रिपूणां प्रवरः सुराणाम् ॥
सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोसि परावरस्त्वम् ।
धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कत्स्नमिदं महात्मन् ॥
व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुत लोकनाथ ।
नमोस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गतिं न तेऽहम् ॥
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः ।
श्रावयेद्ब्राह्मणेभ्यो यः शृणुयाद्वा द्विजेरितम् ॥
धनमायुर्यशो दीप्तं पुत्राञ्शत्रुजयं तथा । स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥

3-233-4 कामजित्पूणमनोरथः ॥ 3-233-10 जुष्टं सेवितम् ॥ 3-233-11 ब्रह्मण्यो ब्राह्मणेषु साधुः । ब्रह्मजोवेदोक्तेन गर्भाधानादिकर्मणाजातः । ब्रह्मविद्वेदार्थज्ञाता । ब्रह्मे ब्रह्मणि कर्मब्रह्मरूपे शेते इति ब्रह्मेशयः । अदन्तत्वमार्षम् । कर्मब्रह्मनिष्ठावानित्यर्थः । ब्राह्मणसव्रतीति पाठे ब्राह्मणो ब्रह्मवित्तेन सह समानं व्रतमद्वेष्टृत्वादिरूपं यस्य स ब्राह्मणसव्रती ॥ 3-233-12 वषडर्चिःषण्मुखत्वात्वड््जिह्वः ॥