अध्यायः 239

कर्णशकुन्यादिभिर्द्वैतवनगमने घोषयात्राया उपायत्वनिर्धारणम् ॥ 1 ॥

वैशंपायन उवाच ।
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः ।
हृष्टो भूत्वापुनर्दीनो राधेयमिदमब्रवीत् ॥
ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम् ।
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्रपाण्डवाः ॥
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः ।
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् ।
एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥
न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम् ।
उन्माथनमृते तेषां वनस्थानामपि द्विषाम् ॥
जानासिहि यथा क्षत्ता द्यूतकाल उपस्थिते ।
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा ॥
तानिसर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् ।
विचिन्त्य निश्चय गच्छे गमनायेतराय वा ॥
ममापि हिमहान्हर्षो यदहं भीमफल्गुनौ ।
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥
न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम् ।
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥
किंनु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् ।
द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥
यदि मां दर्मराजश्च भीमसेनश्च पाण्डवः ।
युक्तं रपरमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥
उपायं न तु पश्यामि येन गच्छेम तद्वनम् ।
यथाचाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥
स सौबलेन सहितस्तथा दुःशासनेन च ।
उपायं पश्य रनिपुणं येन गच्छेम तद्वनम् ॥
अहमप्यनुगच्छामि गमनायेतराय च ।
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे ।
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥
ततो भीष्मस्य राज्ञश्च निशम्य रगमनं प्रति ।
व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥
तथेत्युक्त्वा तु ते सर्वेग्मुरावसथान्प्रति ।
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् ।
उपायः परिदृष्टोऽयं तं निबोधजनेश्वर ॥
घोषा द्वैतवने सर्वेत्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामो न संशयः ॥
उचितं हि सदा गन्तुं घोषयात्रां विशांपते ।
एवं चेत्त्वां पिता राजन्समनुज्ञातुमर्हति ॥
तथा कथयमानौ तु घोषयात्राविनिश्चयम् ।
गान्धारराजः शकुनिरित्युवाच हसन्निव ॥
उपायोऽयंमया दृष्टो गमनाय निरामयः ।
अनुज्ञास्यतिनो राजा चोदयिष्यति चाप्युत ॥
घोषा द्वैतव्रने सर्वेत्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामः सरः प्रति ॥
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः । तदेव च विनिश्चेत्य ददृशुः कुरुसत्तमम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥

3-239-4 आयतिमुत्तरकालम् ॥ 3-239-7 इतरायावस्थानाय ॥ 3-239-11 लक्ष्म्या उपेतं पश्येतां चेज्जीवितं युक्तमिति संबन्धः ॥ 3-239-14 अह्मप्यद्यनिश्चित्य इति झ. पाठः । कल्यं प्रातः ॥ 3-239-15 वचो भीष्मस्य इति झ. पाठः ॥ 3-239-19 घोषा गोव्रजाः ॥ 3-239-22 अयमुपायो घोषयात्रैव ॥ 3-239-24 तलान् हस्ततलानि ॥