अध्यायः 242

गन्धर्वैःसह कौरवाणामायोधनम् ॥ 1 ॥ चित्रसेनादिभिर्विरथीकृतेन कर्णेन रणाङ्कणात्पलायनम् ॥ 2 ॥

वैशंपायन उवाच ।
ततस्ते सहिताः सर्वे दुर्याधनमुपागमन् ।
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् ।
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥
शासतैनानधर्मज्ञान्मम विप्रियकारिणः । यदि प्रक्रीडते सर्वैर्देवैः सह शचीपतिः ।
`वयमत्र यथा प्रीता क्रीडिष्यामो निरङ्कुशं' ॥
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः ।
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः ॥
ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात् ।
सिंहनादेन महता पूरयन्तो दिशो दश ॥
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः ।
`साम्नैव रतत्र विक्रान्ता मा साहसमिति प्रभो' ॥
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधायिप ।
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥
यदि वाता न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ।
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति ।
अनार्याञ्शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः ॥
अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत ।
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥
तान्दृष्ट्वाऽऽपततः शीघ्रान्गन्धर्वानुद्यतायुधान् ।
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः ॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
राधेयस्तु तदा वीरो नासीत्तत्रपराङ्मुखः ॥
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः ।
गन्धर्वाञ्शतशोऽभिघ्नँल्लघुत्वात्सूतनन्दनः ॥
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः ।
क्षणएन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता ।
भूय एवाभ्यवर्तन्त शततशोऽथ सहस्रशः ॥
गन्धर्वभूता पृथिवी क्षणेन समपद्यत ।
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः । दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ।
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिःखनैः ॥
सैन्यमायोधितं दृष्ट्वाकर्णो राजन्न मृष्यत ॥
महता रथसङ्घेन रथचारेण चाप्युत । वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन् ।
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवं प्रति ॥
तदा सुतुमुलं युद्धमभवद्रोमहर्षणम् ।
ततस्ते मृदवोऽभूवनगन्धर्वाः शरपीडिताः ॥
उच्चुक्रुशुश्च कौरव्यागन्धर्वान्प्रेक्ष्य पीडितान् ॥
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनो ह्यमर्षणः ।
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् ।
`वियत्संछादयामास न ववौ तत्र मारुतः' ॥
हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत ।
हयारोहाः सह हयै रथैश्च रथिनस्तदा ॥
पत्तयश्च तथापेतुर्विशस्ताः शरवृष्टिभिः' ।
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥
एकैको हि तदा योधो धार्तारष्ट्रस्य भारत ।
पर्यवार्यत गन्धर्वैर्दशभिर्दशभिर्युधि ॥
ततः संपीड्यमानास्ते बलेन महता तदा ।
प्राद्रवन्त रणे भीता यत्रराजा युधिष्ठिरः ॥
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः ।
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥
दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः ।
गन्धर्वान्योधयामासुः समरे भृशविक्षताः ॥
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः ।
जिघांसमानाः संरब्धाः कर्णमभ्यद्रवत्रणे ॥
असिभिः पट्टसैः शूलैर्गदाभिश्च महाबलाः ।
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् ।
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥
अन्ये च्छत्रं वरूथं च बन्धुरं च तथा परे । `अन्ये संचूर्णयामासुश्छत्रे चाक्षौ तथा परे ॥'
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥ ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् ।
`अंसावलम्बितधनुर्धावमानो महाबलः' । विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥

3-242-19 भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः । महता इति झ. पाठः । न मृष्यत नामृष्यत । अडभाव आर्षः ॥ 3-242-34 वरूथं रथगुप्तिम् । बन्धुरं रथवन्धनानि ॥