अध्यायः 243

चित्ररथेन रणे पराजितस्य दुर्योधनस्य बन्धनपूर्वकं स्वरथारोपणम् ॥ 1 ॥ इतरैर्गन्धर्वैर्दुर्योधनभ्रतॄणां तद्दाराणां वन्धनम् ॥ 2 ॥ दुर्योधनामात्यादिभिर्युधिष्ठिराय तन्निवेदने भीमेन तदनुमोदनम् ॥ 3 ॥

वैशंपायन उवाच ।
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।
संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
दुर्योधनो महाराजो नासीत्तत्र पराङ्मुखः ॥
तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥
युगमीषां वरूथं च तथैव ध्वजसारथी ।
अश्वांस्त्रिवेणुमक्षं च तिलशो व्यधमञ्छरैः ॥
दुर्योधनं चित्रसनो विरथं पतितं भुवि ।
अभिद्रुस्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥
`तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम् ।
आरोप्यस महाबाहुश्चित्रसेनो ननाद ह' ॥
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे ।
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥
विधिशतिं चित्रसेनमादायान्ये विदुद्रुवुः ।
विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥
सेनास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः ।
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥
शकटापणवेशाश्च यानयुग्यं च सर्वशः ।
शरणं पाण्डवाञ्जग्मुर्हियमाणे महीपतौ ॥
सैनिका ऊचुः ।
प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः ।
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥
दुःशासनो दुर्विषहो दुर्मुखो दुर्मुखो दुर्जयस्तथा ।
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥
इतिदुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।
आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन् ॥
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् ।
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥
महता हि प्रयत्नेन संनह्य गजवाजिभिः ।
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा ॥
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥
दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेविनः ।
`दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः' ॥
द्वेष्टारमन्ये क्लीवस्य घातयन्तीति नः श्रुतम् ।
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ॥
दिष्ट्या लोके पुमानस्ति कश्चिदस्मन्प्रिये स्थितः ।
येनास्माकं हृतो भार आसीनानां सुखावहः ॥
शीतवातातपसहांस्तपसा चैव कर्शितान् ।
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम् ॥
अधर्मो हि कृतस्तेन येनैतदुपलक्षितम् ।
अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः ॥
एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम् । न कालः परुषस्यायमिति राजाऽभ्यभाषत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥

3-243-6 जीवग्राहं जीवन्तमेव गृहीत्वेति णमुलन्तम् । कषादित्वादग्रहीदित्यनुप्रयोगः ॥ 3-243-18 राज्ञो युधिष्ठिरस्य ॥ 3-243-19 क्लीबस्य अशक्तत्वात् ॥ 3-243-23 येनैतदुपशिक्षितम् इति झ. पाठः ॥ 3-243-24 अपस्वरं क्रोधेन विकलवर्णं यथा स्यात्तथा ब्रुवाणम् ॥