अध्यायः 020

कृष्णेन युधिष्ठिरंप्रति संवस्य साल्वेन सह युद्धप्रकारकथनम् ॥ 1 ॥

वासुदेव उवाच ।
आनर्तनगरं मुक्तं ततोऽहमगमं तदा ।
महाक्रतौ राजसूये निवृत्ते नृपते तव ॥
अपश्यं द्वारकां चाहं महाराज हतत्विषम् ।
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥
अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम् ।
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः ॥
एवमुक्तः स तु मया विस्तरेणेदमब्रवीत् ।
रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम ॥
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः ।
विनाशे साल्वराजस्य तदैवाकरवं मतिम् ॥
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ॥
राजानमाहुकं चैव तथैवाकनदुन्दुभिम् ॥
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ॥
साल्वराजविनाशाय प्रयातं मां निबोधत ।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ॥
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ।
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा ॥
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ ।
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहिशात्रवान् ॥
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम् ॥
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः ।
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥
प्रयातोस्मि नरव्याघ्र बलेन महता वृतः ।
क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना ॥
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् ।
सरांसि सरितश्चैव मार्तिकावतमासदम् ॥
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात् ।
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम् ॥
`दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके ।' ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः ।
समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥
`स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे । मद्बाहुना च सेनायां शिष्टायां किंचिदेव च'
स समालोक्य सहसा स्मयन्निव युधिष्ठिर ।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥
स चापि पापप्रकृतिर्दैतेयापशदो नृप ।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥
सैनिकान्मम सूतं च हयांश्च स समाकिरत् ।
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् ।
चिक्षिपुः समरे वीरा मयि साल्वपदानुगाः ॥
ते हयांश्च रथं चैव ध्वजं दारुकमेव च ।
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः ॥
न हया न रथो वीर न ध्वजो न च दारुकः ।
अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे ॥
ततोऽहमपि कौन्तेय शराणामयुतान्बहून् ।
आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम् ॥
न तत्रविषयस्त्वासीन्मम सैन्यस्य भारत ।
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥
ततस्ते प्रेक्षकाः सर्वे देवा वै दिवमास्थिताः ।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे ।
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत ।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः । नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः ।
पतितास्तेऽपि भक्ष्यन्ते समुद्रांभोनिवासिभिः ॥
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ।
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥
तान्दृष्ट्वा पतितांस्तत्र साल्वः सौभपतिस्ततः ।
मायायुद्धेन महता योधयामास मां युधि ॥
ततो गदा हलाः प्रासाः शूलशक्तिपरश्चथाः । असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः ।
पट्टसाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि ॥
तामहं माययैवाशु प्रतिगृह्य व्यनाशयम् ।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥
ततोऽभवत्तम इव प्रकाश इव चाभवत् ।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥
अङ्गारपांसुवर्षं च शस्त्रवर्षं च भारत ।
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः ॥
विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥
`ततो हतायां च मया मायायां युधि दानवः । मायामन्यां महाराज चकार मतिमोहिनीम् ॥'
ततो व्योम महाराज शतसूर्यमिवाभवत् ।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः ।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥
तदस्त्रमस्तमस्त्रेण विधूतं शरतूलवत् । तथा तदभवद्युद्धं तुमुलं रोमहर्षणम् ।
लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि विंशोऽध्यायः ॥ 20 ॥

3-20-3 हृदिकात्मजं कृतकर्माणम् ॥ 3-20-10 त्रिःसामा त्रिस्वरा नीचमन्द्रतारभावेन ॥ 3-20-12 वाचयित्वा स्वस्तिवादानिति शेषः । शिरसा हरमिति ट. पाठः । शिरसाहुकमिति क. पाठः ॥ 3-20-14 जितकाशिना जयशोभिना ॥ 3-20-15 मार्तिकावतं देशविशेषम् । आसदं प्राप्तः ॥ 3-20-16 सागरमन्तिकात् सागरसमीपे । अन्वगां अनुगतवानस्मि ॥ 3-20-17 महोर्मिणः महोर्मिमतः । व्रीह्यादित्वादिनिः । नाभ्यां गर्भे गुप्त इत्यर्थः ॥ 3-20-20 तस्य पुरं मदीयैः शरैर्नासाद्यतेति संबन्धः ॥ 3-20-26 आमन्त्रितानां अभिमन्त्रितानाम् । दिव्येन विधिना अलौकिकया अस्त्रिविद्यया ॥ 3-20-30 वध्यतां वध्यमानानाम् ॥ 3-20-32 प्राणएन बलेन ॥ 3-20-34 शक्त्यादीनां कनो दीप्तिर्गतिः शोभा वा तां पान्ति ते । कार्तिकेयेन्द्रवरुणयमायुधतुल्या इत्यर्थः ॥