अध्यायः 254

भीष्मेण दुर्योधनंप्रति पाण्डवप्रशंसनपूर्वकं तैःसह सन्धिविधानम् ॥ 1 ॥ तथा कर्णस्य गर्हणम् ॥ 2 ॥ दुर्योधनानुमत्या कर्णेन दिग्विजयाया निर्गमनम् ॥ 3 ॥

जनमेजय उवाच ।
एवं गतेषु पार्थेषु वने तस्मिन्महात्मसु ।
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः ॥
कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः ।
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥
वैशंपायन उवाच ।
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने । आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ।
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वच ॥
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् ।
वचनं ते न रुचितं मम तन्न कृतं च ते ॥
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् ।
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥
प्रत्यक्षं तव गान्धारे ससैन्यस् विशांपते ।
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ॥
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज । `व्यपायात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनःपुनः ॥'
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् ।
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते ॥
न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम् ।
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥
तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः ।
रसन्धिं सन्धिविदांश्रेष्ठ कुलस्यास्य विवृद्धये ॥
एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः ।
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः ।
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥
तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः ।
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥
गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः ।
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते ।
कथं च सुकृतं तत्स्यान्मन्त्रयामास भारत ॥
[*कर्ण उवाच ।
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव ।
भीष्मोस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति ॥
त्वद्वेषाच्च महाबाहो मामपि द्वेष्टुमर्हति ।
विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर ॥
सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत ।
त्वत्समं यदुक्तं च भीष्मेणामित्रकर्शन ॥
पाण्डवानां यशो राजंस्तव निन्दां च भारत ।
अनुजानीहि मां राजन्सभृत्यबलवाहनम् ॥
जेष्यामि पृथिवीं राजन्सशैलवनकाननाम् ।
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः ॥
तामहं ते विजेष्यामि एक एव न संशयः ।
संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः ॥
अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति ।
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु ॥
अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव ।
प्रतिजानामि ते सत्यं राजन्नायुधमालभे ॥
तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ ।
प्रीत्या परमया युक्तः कर्णमाह नराधिपः ॥
धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः ।
हितेषु वर्तसे नित्यं सफलंजन्म चाद्य मे ॥
यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम् ।
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति ॥
एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता ।
सर्वमज्ञापयामास प्रायात्रिकमरिंदम ॥
प्रययौ च महेष्वासो नक्षत्रे शुभदैवते ।
शुभेतिथौ मुहूर्ते च पुज्यमानो द्विजातिभिः ॥
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः । नादयन्रथघोषेण त्रैलोक्यं सचराचरम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चतुःपञ्चासदधिकद्विशततमोऽध्यायः ॥ 254 ॥

3-254-6 अपयात् अपायात् पलायितः ॥ 3-254-10 संधिं क्षमं युक्तं मन्ये ॥ 3-254-15 मन्त्रयामोऽद्य यद्धितमिति झ. ध.पाठः ॥ 3-254-27 प्रायात्रिकं प्रयातुं राज्ञोऽपेक्षितं शकटापणवीथ्यादि ॥ 3-254-29 मङ्गलैः मङ्गलद्रव्यैः सुगन्धतैलादिभिः स्नातः । शुभैर्नीराजनादिभिः प्रययौ इति संबन्धः ॥ * एतदादिः सार्धोऽध्यायो झ. पुस्तकएव दृश्यते ॥