अध्यायः 021

कृष्णसाल्वयोर्युद्धम् ॥ 1 ॥ साल्वेन स्वमायासृष्टवसुदेवस्य शिरश्छेदनप्रदर्शनेन कृष्णव्यामोहनम् ॥ 2 ॥ ततो मुहूर्तेन प्रतिबुद्धेन कृष्णेन स्वानुभूतस्य मायिकत्वाध्यवसायः ॥ 3 ॥

वासुदेव उवाच ।
एवं स पुरुषव्याघ्रः साल्वो राज्ञं महारिपुः ।
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः ॥
ततः शतघ्नीश्च महागदाश्च दीप्ताश्च शूलान्मुसलानसींश्च ।
चिक्षेप रोषान्मयि मन्दबुद्धिः साल्वो महाराज जयाभिकाङ्क्षी ॥
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव ।
द्विधा त्रिता चाच्छिनमाशु मुक्तै- स्ततोऽन्तरिक्षे निनदो बभूव ॥
ततः शतसहस्रेण शराणां नतपर्वणाम् ।
दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥
ततो मामब्रवीद्वीर दारुको विह्वलन्निव । स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः ।
अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति ॥
इति तस्य निशम्याहं सारथेः करुणं वचः ।
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये ।
अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः ॥
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् ।
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे ।
अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम् ॥
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् ।
त्वरितो रथमारोप्य सौहृदादिव भारत ॥
आहुकस्य वचो वीर तस्यैव परिचारकः ।
विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर ॥
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः ।
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥
उपयात्वा तु साल्वेन द्वारकां वृष्णिनन्दन ।
विषक्ते त्वयि दुर्धर्ष इतः शूरसुतो बलात् ॥
तदलं साधुयुद्धेन निवर्तस्व जनार्दन ।
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः ।
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च ॥
सात्यकिं बलदेवं च प्रद्युम्नं च महांरथम् ।
जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम् ॥
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन ।
तेषु रक्षां समाधाय प्रयातः सौभयातने ॥
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा । सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ।
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन ।
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः ।
बलदेवमुखाः सर्व इति मे निश्चिता मतिः ॥
सोहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः ।
अविह्वलो महाराज पुनः साल्वमयोधयम् ॥
तदोऽपश्यं महाराज प्रपतन्तमहं तदा ।
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥
तस्य रूपं प्रपततः पितुर्मम नराधिप ।
ययातेः क्षीणपुण्यस्य स्वर्गादिव भहीतलम् ॥
विशीर्णमलिनोष्णीपप्रकीर्णाम्बरमूर्धजः ।
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम ।
मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् ।
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥
प्रसार्य बाहू पततः प्रसार्य चरणावपि ।
रूपं पितुर्मे विबभौ शकुने- पततो यथा ॥
तं पतन्तं महाबाहो शूलपट्टसपाणयः ।
अभिघ्नन्तो भृशं वीर मम चोतोह्यकम्पयन् ॥
ततो मुहूर्तात्प्रतिलभ्य संज्ञा- महं तदा वीर महाविमर्दे ।
न तत्रसौमं न रिपुं च साल्वं पश्यामि वृद्धं पितरं न चापि ॥
ततो ममासीन्मनसि मायेयमिति निश्चितम् । प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकविंशोऽध्यायः ॥ 21 ॥

3-21-8 बाणरोत्पीडात् क्षतस्थानात् । उल्वणमुत्कटम् ॥ 3-21-9 अस्तम्भयमाश्वासितवान् ॥ 3-21-12 पितृसख आहुकः ॥ 3-21-13 विषक्तेऽन्यत्र व्यासक्ते । शूरसुतो वसुदेवः ॥ 3-21-16 जगर्हे निन्दितवान् ॥