अध्यायः 255

दिग्विजयार्थं गतेन कर्णेन सकलराजवशीकरणपूर्वकं पुनर्हास्तिनपुरंप्रत्यागमनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः कर्णो महेष्वासो बलेन महता वृतः ।
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ ॥
युद्धेन महता चैनं चक्रे वीरं वशानुगम् । सुवर्णं रजतं चापि रत्नानि विविधानि च ।
करं च दापयांमास द्रुपदं नृपसत्तम ॥
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः ।
तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत् ॥
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान् ।
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् ॥
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः ।
प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत् ॥
स हैमवतिकाञ्जित्वा करं सर्वानदापयत् ।
नेपालविषये ये च राजानस्तानवाजयत् ॥
अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः ।
अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ ॥
मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः ।
आवशीरांश्च योध्यांश्च अहिक्षत्रांश्च सोऽजयत् ॥
पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत् ॥
वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम् ।
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा ॥
एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः । दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान् ।
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः ॥
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम् ।
प्रीतोस्मि तव राजेन्द्र विक्रमेण बलेन च ॥
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम् ।
प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि ॥
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोगमत् ॥
स केवलं रणए चैव नीलं चापि महीपतिम् । वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः ।
दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत् ॥
शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः ।
पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः ॥
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ ।
वृष्णिभिः सह संम्य पश्चिमामपि निर्जयत् ॥
वारुणीं दिशमागम्य यावनान्वर्बरांस्तथा ।
नृपान्पश्चिमभूमिस्थान्दापयामास वै करान् ॥
विजित्य पृथिवीं सर्वां सपूर्वापरदक्षिणाम् ।
सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः ॥
भद्रान्रोहितकांश्चैव आग्रेयान्मालवानपि ।
गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव ॥
शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः ।
नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान् ॥
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः ।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् ॥
तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः ।
प्रत्युद्गत्य महाराज सभ्रातृपितृबान्धवः ॥
अर्चयामास विधिना कर्णमाहवशोभिनम् ।
आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः ॥
यन्न भीष्मान्न च द्रोणान्न कृपान्न च वाह्लिकात् ।
प्राप्तवानस्मि भद्रं ते त्वत्तःप्राप्तं मया हि तत् ॥
बहुना च किमुक्तेन शृणु कर्ण वचो मम ।
सनाथोस्मि महाबाहो त्वया नाथेन सत्तम ॥
न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम् ।
अन्येवा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः ॥
स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम् ।
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा ॥
ततो हलहलाशब्दः प्रादुरासीद्विशांपते ।
हाहाकाराश्च बहवो नगरे नागसाह्वये ॥
रकेचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे ।
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप ॥
एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतांवरः ।
सपर्वतवनाकाशां ससमुद्रां सनुष्कुटाम् ॥
देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि ।
द्वीपैश्चानूपसंपूर्णैः पृथिवीं पृथिवीपते ॥
कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान् ।
अक्षयं धनमादाय सूतजो नृपमभ्ययात् ॥
प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम ।
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः ॥
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित् ।
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः ॥
तदाप्रभृति राजा च शकुनिश्चापि सौबलः । जानाते निर्जितान्पार्थान्कर्णेन युधि भारत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥

3-255-7 मुण्डिकान्मिथिलानिति ख.पाठः ॥ 3-255-13 प्रतिज्ञां क्षत्रधर्मं समपालयं पालितवानस्मि । रक्षत्रधर्मावेक्षयैव त्वया सह युद्धं कृतं न त्वज्जिगीषयेति भावः ॥ 3-255-14 शैलं श्रीशैलम् ॥ 3-255-20 आग्नेयान्मालवानिति ख. पाठः ॥ 3-255-24 तत्कर्म कर्णविजयं पुरे उद्धोषयामास ॥ 3-255-27 अभ्युदित्नेभ्योपि उदिताः श्रेष्ठतमाः ॥ 3-255-31 आकाशः पर्वतवनयोरन्तरालम् । सस्याद्युत्पत्तिभूमिमित्यर्थः ॥ 3-255-32 अनूपं सर्वतोजलं तेन संपूर्णैः ॥