अध्यायः 256

दुर्योधनेन राजसूययाजनं प्रार्थितैर्ब्राह्मणैर्हेतूक्त्या तन्निपेधनपूर्वकं तप्रति यज्ञान्तरकरणनियोजनम् ॥ 1 ॥

वैशंपायन उवाच ।
जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप ।
अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः ॥
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिंदम ॥
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम ।
तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥
वैशंपायन उवाच ।
एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत्पुनः ।
न किंचिद्दुर्लभं तस्य यस् त्वं पुरुषर्षभ ॥
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः ।
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा ।
कमम स्पृहा समुत्पन्ना तां संपादय सूतज ॥
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् ।
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥
आहूयन्तां द्विजवराः संभाराश्च यथाविधि ।
संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः ।
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः ।
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशांपते ।
पुरोहितं समानाय्य वचनं चेदमब्रवीत् ॥
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् ।
आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम् ॥
स एवमुक्तो नृपतिमुवाच द्विजसत्तमः ॥
`ब्राह्मणैः सहितो राजन्ये तत्रासन्समागताः' । न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ।
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥
दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप ।
अतश्चापि विरुद्धस्ते क्रतुरेणष नृपोत्तमः ॥
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो ।
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥
य इमे पृथिवीपालाः करदास्तव पार्थिव ।
ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम् ॥
तेन ते क्रियतामद्यलाङ्गलं नृपसत्तम ।
यज्ञवाटस् ते भूमिः कृष्यतां तेन भारत ॥
तत्र यज्ञो नृपश्रेष्टः प्रभूतान्नः सुसंस्कृतः ।
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः ।
एतेन नेष्टवान्कश्चिदृतेविष्णुं पुरातनम् ॥
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः ।
अस्माकं रोचते चैव श्रेयश्च तव भारत ॥
निर्विघ्नश्च भवत्येष सफला स्यात्स्पृहा तव ।
`तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम्' ॥
एवमुकत्स्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः ।
कर्णं च सौबलं चैव भ्रातॄश्चैवेदमब्रवीत् ॥
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः ।
रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम् ॥
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् ।
संदिदेश ततोराजाव्यापारस्थान्यथाक्रमम् ॥
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः । यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

3-256-17 कृतं घटितमलंकारादिरूपम् । अकृतमन्यत् ॥ 3-256-25 व्यापारस्थान् शिल्पिनः ॥