अध्यायः 258

दुर्योधनसभायां कर्णेनार्जुवधप्रतिज्ञानम् ॥ 1 ॥ चारमुखात्पाण्डवैस्तच्छ्रवणम् ॥ 2 ॥

वैशंपायन उवाच ।
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् ।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः ।
ऊटुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव ॥
अपरे त्वब्रुवंस्तत्रवादिकास्तं महीपतिम् ।
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः ॥
नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ।
एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम् ॥
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ।
`प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता' ॥
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा ।
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ ।
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥
अभिवाद्य ततः पादान्मतापित्रोर्विशांपते ।
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ॥
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः ।
निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः ।
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥
हतेषु युधि पार्थेषु राजसूये तथा त्वया ।
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः ।
सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु । निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ ।
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ॥
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत ।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥
सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः ।
`राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः' ॥
कदा तु तं क्रतुवरं राजसूयं महाधनम् ।
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर ।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥
कीलालजं न खादेयं करिष्ये चासुरव्रतम् ।
नास्तीति नैव वक्ष्यामि याचितो येन केचनित् ॥
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः ।
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ॥
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ।
`तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते' ॥
दूर्योधनोऽपि राजेन्द्र विसृज्यनरपुङ्गवान् ।
प्रविवेश गृहंश्रीमान्यथा चैत्ररथं प्रभुः ॥
तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत ।
`स्वानिस्वनि महाराज भीष्मद्रोणादयो नृपा' ॥
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः ।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता ।
प्रतिज्ञा सूतपुतर्स्य विजयस्य वधं प्रति ॥
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप ।
`अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन्' ॥
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ।
अनुस्मरंश् संक्लेशान्न शान्तिमुपजग्मिवान् ॥
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः ।
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम् ।
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥
संगम्य सूतपुत्रेण कर्णेनाहवशोभिना ।
`सततं प्रीयमाणो वै देविना सौबलेन च' ॥
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम् ।
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥
भ्रातॄणां च प्रियं राजन्स चकार परंतपः । निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥

3-258-1 मागधाश्च महेष्वासं नागराश्च सहस्रशः । इति क. थ. पाठः ॥ 3-258-3 वादिकाः कृतानुवादिनो भूतविशेषाः । वातिकास्तमिति झ. पाठः । वातिकाः वातरोगोपहतचेतस उचितभाषणानभिज्ञः ॥ 3-258-11 सभाजयिता पूजयिष्यामि ॥ 3-258-17 धावये परेणति शेषः ॥ 3-258-18 कीलालजं मांसम् । असुरं सुरारहितं च व्रतं स्वनियमं करिष्ये । मद्यं मांसं च त्यक्ष्ये इत्यर्थः ॥ 3-258-19 उत्कुष्टं उच्चैः शब्दः कृतः ॥