अध्यायः 262

देवदूतात्स्वर्गसुखस्यास्थिरतां परिजानता मुद्गलेन स्वर्गानभिरोचनपूर्वकं देवदूतस्य स्वर्गंप्रति प्रस्थापनम् ॥ 1 ॥ व्यासेन युधिष्ठिरंप्रति मुद्गलोपाख्यानकथनपूर्वकं स्वाश्रमंप्रति गमनम् ॥ 2 ॥

देवदूत उवाच ।
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।
संप्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा ॥
उपरिष्टादयं लोको योऽयं स्वरिति संज्ञितः ।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥
नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।
नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल ॥
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।
दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः ॥
तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम् ।
लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः ॥
देवाः साध्यास्तथा विश्वे तथैव च महर्षयः ।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥
एषां देवनिकायानां पृथक््पृथगनेकशः ।
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ॥
त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः ।
मेरुः पर्वतराड्यत्रदेवोद्यानानि मुद्गल ॥
`नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल ।
सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः' ॥
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा ॥
बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन ।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने ।
न शोको न जरा तत्र नायासपरिदेवने ॥
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।
सुकृतैस्तत्रपुरुषाः संभवन्त्यात्मकर्मभिः ॥
तैजसानि शरीराणि भवन्त्य्रोपपद्यताम् ।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥
रन संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।
तेषां न च रजोवस्त्रं बाधते तत्रवै मुने ॥
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।
समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते ॥
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।
सुखं संर्गजितस्तत्रवर्तयन्ते महामुने ॥
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव ।
उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः ॥
परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः ।
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥
ऋभवो नाम तत्रान्ये देवानामपि देवताः ।
तेषां लोकाः परतरे यान्यजन्तीह देवताः ॥
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।
न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः ॥
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः ।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥
नासुखाः सुखकामास्ते देवदेवाः सनातनाः ।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥
रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥
देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा ।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः ।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया ।
तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा ।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥
कृस्य कर्मणस्तत्रभुज्यते यत्फलं दिवि ।
न चान्त्क्रियते कर्म मूलच्छेदेन भुज्यते ॥
सोऽत्रदोषो मम मतस्तस्यान्ते पतनं च यत् ।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।
यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम् ॥
संज्ञामोहश्चपततां रजसा च प्रधर्षणम् ।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥
आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।
नाकलोकेसुकृतिनां गुणास्त्वयुतशो नृणाम् ॥
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने ।
शुभानुशययोगेन मनुष्येषूपजायते ॥
तत्रापि स महाभागः कुले महति जायते ।
न चेत्संबुध्यते तत्रगच्छत्यधमतां ततः ॥
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥
[मुद्गल उवाच ।
महान्तस्तु अमी दोपास्त्वया स्वर्गस्य कीर्तिताः ।
निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे ॥
देवदूत उवाच ।
ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥
न तत्रविप्र गच्छन्ति पुरुषा विषयात्मकाः ।
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः ॥
निर्ममा निरहंकारा निर्द्विन्द्वाः संयतेन्द्रियाः । ध्यानयोगपराश्चैव तत्रगच्छन्ति मानवाः ॥]
एतत्ते सर्वमाख्यतं यन्मां पृच्छसि मुद्गल ।
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥
व्यास उवाच ।
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाचह ॥
देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम् ।
महादोषेण मे कार्यं न स्वर्गेण सुखेन चा ॥
पतनान्ते महादुःखं परितापः सुदारुणः ।
स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये ॥
यत्रगत्वान शोचन्ति न व्यथन्तिचलन्ति वा ।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥
इत्युक्त्वा स मुनिर्वाक्यं देवदूतंविसृज्य तम् ।
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥
तुल्यनिन्दास्तुतिर्भूत्वासमलोष्टाश्मकाञ्चनः ।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥
`निगृहीतेन्द्रियग्रामः समयोजयदात्मनि ।
युक्तचित्तं यथाऽऽत्मानं युयोज परमेश्वरे' ॥
ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम् ।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥
तस्मात्त्वमपिकौन्तेय न शोकं कर्तुमर्हसि ।
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव ॥
पितृपैतामहं राज्यंप्राप्स्यस्यमितविक्रम ।
वर्षात्रयोदशादूर्ध्वंव्येतु ते मानसो ज्वरः ॥
वैशंपायन उवाच ।
स एवमुक्त्वाभगवान्व्यासः पाण्डवनन्दनम् । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि ब्रीहिद्रौणिकपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥

3-262-2 उपरिष्टाच्च स्वर्लोकः इति ख. झ. पाठः ॥ 3-262-3 पुसः पुमांसः ॥ 3-262-4 शूराश्चाहबलक्षणाः इति ख. झ. पाठः ॥ 3-262-6 यामा धामाश्च गणविशेषाः ॥ 3-262-7 देवानां निकाया आलया येषु तेषां देवनिकायानाम् ॥ 3-262-14 उपपद्यतामुपगच्छताम् ॥ 3-262-26 त्रयस्त्रिशदिमे देवा येषां लोका इति ख. झ. पाठः ॥ 3-262-27 व्युष्टिः संपत्तिः . । 3-262-51 नेमि चक्रधाराम् । अराः नामिनेमिसंधानदारूणि ॥