अध्यायः 022

कृष्णेन युधिष्ठिरंप्रति स्वेन साल्वसंहारकथनपूर्वकं सुभद्राभिमन्युमभ्यां सह द्वारकागमनम् ॥ 1 ॥ धृष्टद्युम्नधृष्टकेतुभ्यां यथाक्रमं द्रौपदेयान्नकुलभार्यां स्वस्वनगरगमनम् ॥ 2 ॥

वासुदेव उवाच ।
ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः ।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।
प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।
अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम् ॥
अथ दानवसङ्घास्ते विकृताननमूर्धजाः ।
उदक्रोशन्महाराज धिष्ठिते मयि भारत ॥
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे ।
अयोजयं तद्वधाय ततः शब्द उपारमत् ॥
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः ।
शरैरादित्यसंकशैर्ज्वलितैः शब्दसाधनैः ॥
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः ॥
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।
नादयामासुरसुरास्ते चापि निहता मया ॥
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।
सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥
ततो लोकान्तकरणो दानवो दारुणाकृतिः ।
शिलावर्षेण महता सहसा मां समावृणोत् ॥
सोहं पर्वतवर्षेण वध्यमानः समन्ततः ।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥
ततोऽहं पर्वतचितः सहयः सहसारथिः ।
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।
ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः ॥
ततो हाहाकृतमभूत्सर्वं किल विशांपते ।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥
ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि ।
एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम् ।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।
हया मम महाराज वेपमाना इवाभवन् ॥
मेघजाल इवाकाशे विदार्याभ्युदितं रविम् ।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान् ।
हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः ॥
साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम् ।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ॥
मार्दवं सखितां चैव साल्वादद्य व्यपाहर ।
जहि साल्वं महाबाहो मैनं जीवय केशव ॥
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् । न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा ।
योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो ।
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून् ।
स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन ॥
नैष मार्दवसाध्यो वै मतो नापि सखा तव ।
येन त्वं योधितो वीर द्वारका चावमर्दिता ॥
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः ।
तत्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥
वधाय साल्वराजस्य सौभस्य च निपातने ।
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥
ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत् । आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ।
योजयं तत्रधनुषा दानवान्तकरं रणे ॥
यक्षाणां राक्षसानां च दानवानां च संयुगे ।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम् ॥
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।
द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः ॥
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् ।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥
तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।
पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम् ॥
ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे ।
द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः ।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥
ततोऽहंसमवस्थाप्यरथं सौभसमीपतः ।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥
एवं निहत्य समरे सौभं साल्वं निपात्य च ।
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम् ॥
तदेतत्कारणं राजन्नागमं नागसाह्वयम् ।
यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः ॥
मय्यागतेऽथवा वीर द्यूतं न भविता तथा ।
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः ॥
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः ।
संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः ॥
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् ।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा ।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥
ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः ।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥
ब्राह्मणाश्च विशश्चैव तथाविषयवासिनः ।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः । शशास पुरुषान्काले रथान्योजयतेति वै ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

3-22-2 सुवाससः सुपुङ्खान् ॥ 3-22-4 विकृताननमूर्धजा इति तेषां स्वरूपकथनं नतु तद्दर्शनम् । धिष्ठिते प्रागल्भ्येन स्थिते । विष्ठिते इति पाठेपि सएवार्तः ॥ 3-22-5 शब्दएव साहो लक्ष्यं यत्रतत्तथा शब्दवेधि शब्देऽस्त्रमुपारमन्न्यपतदित्यर्थः शब्दसाहं शब्दबाधानिवारकं वा ॥ 3-22-6 शब्दसाधनैः शब्दएव साधनं लक्ष्यसंबन्धे कारणं येषां तैः । पुरस्यादृश्यत्वात् ॥ 3-22-9 आग्ज्येतिषं पूर्वसमुद्रतीरस्थं नगरविशेषम् । यतः कामगमं अतः प्राग्ज्योतिषं गत्वा व्यदृश्यत ॥ 3-22-12 अप्रख्यातिं अदर्शनम् । इयां प्राप्तवान् ॥ 3-22-16 एवं मां सौभराजो विजितवान् एतदप्यहं पश्चादश्रौषं पूर्वं मोहमापन्नः सन् संज्ञालार्भानन्तरं श्रुतवान्सारथिमुखेनेति शेषः । एवमज्ञातवान्वीरेति ट. पाठः ॥ 3-22-17 इन्द्रदयितं इन्द्रदैवत्यम् । वज्रं वज्रास्त्रम् समशातयं नाशितवान् ॥ 3-22-19 आहारयन्प्राप्तवन्तः ॥ 3-22-20 तात्कालिकं तत्कालयोग्यम् ॥ 3-22-23 पीठगः स्वासनस्थः । अयुध्यमानोपीत्यर्थः ॥ 3-22-30 प्रतिलोमानां विपरिताचाराणां म्लेच्छानाम् ॥ 3-22-31 क्षुरान्तं तीक्ष्णपरिधि ॥ 3-22-32 तस्मै सौभाय । प्राहिणवं प्रहितवान् ॥ 3-22-33 युगान्ते परिवेष्टत इति ट. पाठः ॥ 3-22-34 क्रकचः दन्तुरखङ्गः ॥ 3-22-43 उदकं धारयितुमिति शेषः ॥ 3-22-50 धृष्टकेतुः शिशुपालसुतः । स्वसारं करेणुमतीं नकुलभार्याम् ॥ 3-22-51 केकयाः सहदेवश्यालाः ॥ 3-22-54 शशास आज्ञापयामास ॥