अध्यायः 269

द्रौपद्या स्वाभिलाषिणो जयद्रथस्य गर्हणम् ॥ 1 ॥ तथा बलात्स्ववस्त्रान्तकर्षिणस्तस्याक्षेपादधःपातनपूर्वकं स्वयमेव तद्रथारोहणम् ॥ 2 ॥

वैशंपायन उवाच ।
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा ।
मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥
यशस्विनस्तीक्ष्णविषान्महारथा- नभिब्रुवन्मूढ न लज्जसे कथम् ।
महेन्द्रकल्पान्निरतान्स्वकर्मसु स्तितान्समूहेष्वपि यक्षरक्षसाम् ॥
न किंचिदार्याः प्रवदन्ति पापं वनेचरंवा गृहमेधिनं वा ।
तपस्विनं संपरिपूर्णविद्यं भजन्ति चैवं सुनराः सुवीर ॥
अहं तु मन्ये तव नास्ति कश्चि- देतादृशे क्षत्रियसंनिवेशे ।
यस्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥
नागं प्रमिन्नं गिरिकूटकल्प- मुपत्यकां हैमवतीं चरन्तम् ।
दण्डीव यूथादपसेधसि त्वं यो जेतुमाशंससि धर्मराजम् ॥
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस् पक्ष्माणि मुखाल्लुनासि ।
पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु ।
प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम् ॥
कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ मत्तः पदा क्रामसि पुच्छदेशे ।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः ।
तथैव मां तैः परिरक्ष्यमाणा- मादास्यसे कर्कटकीव गर्भम् ॥
जयद्रथ उवाच ।
जानामि कृष्णे विदितं ममैत- द्यथाविधास्ते नरदेवपुत्राः ।
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाऽद्य ॥
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः ।
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना न्मन्यामहे द्रौपदी पाण्डुपुत्रान् ॥
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः ।
आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥
द्रौपद्युवाच ।
महाबला किंत्विह दुर्बलेव सौवीरराजस्य मताऽहमस्मि ।
नाहं प्रमाथादिह संप्रतीता सौवीरराजं कृपणं वदेयम् ॥
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे समेतौ ।
इन्द्रोऽपितां नापहरेत्कथंचि- न्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥
यथा विकीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि ।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा वक्षं दहन्नग्निरिवोष्णगेषु ॥
जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे ।
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः ॥
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः ।
हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदनति ॥
गाण्डीवमुक्तांश्च महाशरौघान् पतङ्गसङ्घानिव शीघ्रवेगान् ।
यदा द्रष्टास्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दितासि ॥
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च ।
यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् ॥
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौ दिशश्च ।
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥
यथा वाऽहं नातिचरे कथंचि- त्पतीन्महार्हान्मनसाऽपिजातु ।
तेनाद्य सत्येन वशीकृतंत्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥
न संभ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा ।
समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागताऽस्मि ॥
वैशंपायन उवाच ।
`इत्येवमुक्तस्तु स सिन्धुनाथ- स्तां द्रौपदीमाहविशालनेत्राम् ।
आरुह्यतामाशु रथं मदीयं मा त्वां वलाद्दौपदिकर्षयेहम्' ॥
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती ।
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा ।
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री ।
सा मृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥
धौम्य उवाच ।
नेयं शक्या त्वया नेतुमविजित्य महारथान् ।
धर्मं क्षत्रस् पौराणमवेक्षस्व जयद्रथ ॥
क्षुद्रं कृत्वाफलंपापं त्वं प्राप्स्यसि न संशयः ।
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥
वैशंपायन उवाच ।
इत्युक्तवाह्रियमाणां तां राजपुत्रीं यशस्विनीम् । अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥

3-269-1 रोषेण रागो रक्तिमा तेन सहितं सरोषरागं तदुपहतं च म्लानं च तेन । वल्गुना सुन्दरेण । नते स्वभावत उन्नते क्रोधेन भ्रुवौ यस्यास्तथा । विस्फूर्य फूत्कारं कृत्वा । सरोषवाचोपहितेनेति ध. पाठः ॥ 3-269-2 अभि अभिक्रम्य ब्रुवन् । स्थितानचलान् । यक्षादिभिरप्यजेयानित्यर्थः ॥ 3-269-3 भषन्ति हैवं सुनराः सुवीरेति झ. पाठः ॥ 3-269-4 क्षत्रियसंनिवेशे नृपसमाजे । पातालमुखे महागृर्ते । प्रतिसंहरेत् प्रतिषेधेत ॥ 3-269-5 उपत्यकामद्रिसमीपभूमिम् । दण्डी दणअडमात्रायुधो यूथात्समूहादपसेधसि अपकर्षसि ॥ 3-269-6 बाल्यात् मौढ्यात् पक्ष्माणि मुखोपरिस्थकेशान् । पदा समाहत्य लुनासि छिनस्ति ॥ 3-269-9 वेण्वादयः फलिता एव नश्यन्ति । कर्कटी च परिणतगर्भा नश्यतीति लोकप्रसिद्धम् ॥ 3-269-10 विभीषणेन भयप्रदर्शनेन ॥ 3-269-11 सप्तदश अष्टौ कर्माणि नवशक्त्यादयश्च नित्यं सन्ति येषु तानि सप्तदशानि. नित्ययोगे मत्वर्थीयोर्शआद्यच् । अनवमेषु अनीचेषु । षङ्गुणाः शौर्यतेजोधृतिदाक्षिण्यदानैश्वर्याणि ॥ 3-269-12 शक्याः निवारितुमिति शेषः । पुनरिति पाण्डवापराजयानन्तरम् । त्वं मत्प्रसादं आशंस प्रार्थय ॥ 3-269-13 प्रमाथात निग्रहात् । प्रतीता प्रख्याता । सभायां वस्त्रराशिप्रदानेन भगवदनुग्रहीतत्वात् । महाबलाः किंत्विह दुर्बला वा सौवीरराजस्य सुताहमस्मि । साहं प्रमादादिह संप्रभीतेति ध. पाठः ॥ 3-269-14 कृष्णौ वासुदेवारजुनौ ॥ 3-269-15 मदन्तरे मन्निमित्तम् । प्रवेष्टा प्रकर्षेण वेष्टयिष्यति । उष्णगेषु निदाधेषु ॥ 3-269-17 गाण्डीवमुक्ताः शराइति शेषः ॥ 3-269-19 अभविष्यत् भविष्यतीत्यर्थे व्यत्ययेन लृङ् ॥