अध्यायः 273

भीमेन केशग्रहणेन निपातितस्य जयद्रथस्य मूर्ध्नि पादप्रहारपूर्वकं क्षुरप्रेण पञ्चचूदीनिर्माणम् ॥ 1 ॥ भीमेन बन्धनपूर्वकमानीतस्य तस्य युधिष्ठिरेण मोचनम् ॥ 2 ॥ जयद्रयेन तपःप्रसादितान्महादेवादर्जुनवर्जमेकस्मिन्दिने पाण्डवजयरूपवराऽऽदानम् ॥ 3 ॥

वैशंपायन उवाच ।
जयद्रथस्तु संप्रेक्ष्यभ्रातरावुद्यतायुधौ ।
प्रादावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥
`लताभिः संवृते कक्षे किरीटं रत्नभास्वरम् ।
अपविध्यप्रधावन्तं निलीयन्तं वनान्तरे ॥
भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम् । मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूपितात्' ।
अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः ॥
समुद्यम्य च तं भीमो निष्पिपेप महीतले ।
गले गृहीत्वाराजानं पातयामास चैव ह ॥
पुनः स जीवमानस्य तस्योत्पतितुमिच्छतः ।
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥
तस्य जानू ददौ भमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः ॥
सरोषं भीमसेनं तु वारयामास फल्गुनः ।
दुःशलायाः कृतेराजा यत्त्वामाहेति कौरव ॥
भीम उवाच ।
नायं पापसमाचारो मत्तो जीवितुमर्हति ।
कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः ॥
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥
एवमुक्त्वा सटास्तस्य पञ्चचक्रे वृकोदरः ।
अर्धचन्द्रेण वाणेन किंचिदब्रुवतस्तदा ॥
विकल्पयित्वा राजानं ततः प्राह वृकोदरः ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः ॥
एवमस्त्विति तं राजा कृच्छ्रमाणो जयद्रथः ।
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥
तत एनं विचेष्टन्तं वद्ध्वा पार्थो वृकोदरः ।
रथमारोपयामास विसंज्ञं पांसुकुण्ठितम् ॥
ततस्तं रथमास्थाय भीमः पार्तानुगस्तदा ।
अग्र्यमाश्रममध्यस्थामभ्यगच्छद्युधिष्ठिरम् ॥
दर्शयामास भीमस्तु तदवस्थं जयद्रथम् ।
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै ।
दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥
तमुवाच च ततो ज्येष्ठो भ्राता सप्रणयं वचः ।
मुञ्चेममधमाचारं प्रमाणा यदि ते वयम् ॥
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् ।
दासोऽयंमुच्यतां रात्रस्त्वयापञ्चशिखः कृतः ॥
`एवमुक्तः स भीमस्तु भ्रात्रा चैव च कृष्णया ।
मुमोच तं महापापं जयद्रथमचेतनम्' ॥
स मुक्तोऽभ्येत्यराजानमभिवाद्य युधिष्ठिरम् ।
ववन्दे विह्वलोराजातांश्च वृद्धान्मुनींस्तदा ॥
तमुवाच धृणी राजा धर्मपुत्रो युधिष्ठिरः ।
तथाजयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥
अदासो गच्छ मुक्तोसि मैवं कार्षीः पुनः क्वचित् ।
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षत्रसहायवान् ॥
एवंविधं हि क कुर्यात्त्वदनयः पुरुषाधमः ।
`कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते' ॥
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् ।
संप्रेक्ष्यभरतश्रेष्ठः कृपां चक्रे नराधिपः ॥
धर्मे ते वर्धतां वुद्धिर्मा चाधर्मे मनः कृथाः ।
साश्च साथपादातः स्वस्ति गच्छ जयद्रथ ॥
एवमुक्तस्तु सव्रीजं तूष्णीं किंचिदवाङ्युखः ।
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥
स देवं शरणं गत्वा विरूपाक्षमुमापतिम् ।
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः ।
वरं चास्मै ददौ देवः स जग्राह च तच्छृणु ॥
समस्तान्सरथान्पञ्चजयेयं युधि पाण्डवान् ।
इति राजाऽब्रवीद्देवं नेति देवस्तमब्रवीत् ॥
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि ।
ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम् ॥
बदर्यां तप्ततपसं नारायणसहायकम् ।
अजितं सर्वलोकानां देवैरपि दुरासदम् ॥
मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम् ।
अवाप लोकपालेभ्यो वज्रादीन्स महाशरान् ॥
देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः ।
प्रधानपुरुषोऽव्यक्तोविश्वात्माविश्वमूर्तिमान् ॥
युगान्तकाले संप्राप्ते कालाग्निर्दहते जगत् । सपर्वतार्णवद्वीपं सशैलवनकाननम् ।
निर्दहन्नागलोकांश्चपातालतलचारिणः ॥
अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः । घोरस्वरा विनदिनस्तटिन्मालावलम्बिनः ।
समुत्तिष्ठन्दिशः सर्वाविवर्षन्तः समन्ततः ॥
ततोऽग्नीं शमयामासुः संवर्ताग्निनियामकाः ।
अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः ॥
एकार्णवे तदातस्मिन्नुपशान्तचराचरे । नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते ।
चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही ॥
ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात् ।
सहस्रशीर्पा पुरुषः स्वप्नुकामस्त्वतीन्द्रियः ॥
फणासहस्रविकटं शेषं पर्यङ्कभोगिनम् । सहस्रमिव तिग्मांशुसंघातममितद्युतिम् ।
कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम् ॥
तत्रासौ भगवान्देवः स्वपञ्जलनिधौ तदा ।
नैशेन तमसा व्याप्तां स्वां रात्रिंकुरुते विभुः ॥
सत्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमपश्यत ।
इमं चोदाहरन्त्यत्रश्लोकं नारायणं प्रति ॥
आपो नारास्तत्तनव इत्यपां नाम शुश्रुमः ।
अयनं तेन चैवास्ते तेन नारायणः स्मृतः ॥
प्रध्यानसमकालं तुप्रजाहेतोः सनातनः ।
ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः ॥
ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः ।
तत्रोपविष्टः सहसा ब्रह्मा लोकपितामहः ॥
शून्यं दृष्ट्वा जगत्कृत्स्नं मानसानात्मनः समान् ।
ततो मरीचिप्रमुखान्महर्षीनसृजन्नव ॥
तेऽसृजन्सर्वभूतानि त्रसानि स्थावराणि च ।
यक्षराक्षसभूतानि पिशाचोरगमानुषान् ॥
सृजते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः ।
रौद्री भावेन शमयेत्तिस्रोऽवस्थाः प्रजापतेः ॥
न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः ।
कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः ॥
जलेन समनुप्राप्ते सर्वतः पृथिवीतले ।
तदा चैकार्णवे तस्मिननेकाकाशे प्रभुश्चरन् ॥
निशायामिव खद्योतः प्रावृट््काले समन्ततः ।
प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाऽभवत् ॥
जले निमग्नां गां दृष्ट्वाचोद्धर्तुं मनसेच्छति ।
किंनु रूपमहं कृत्वासलिलादुद्धरे महीम् ॥
एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा ।
जलक्रीडाभिरुचितं वाराहं रूपमस्मरत् ॥
कृत्वा वराहवपुपं वाङ्मयं वेदसंमितम् ।
दशयोजनविस्तीर्णमायतं शतयोजनम् ॥
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रंप्रदीप्तिमत् ।
महामेघौघनिर्घोपं नीलजीमूतसन्निभम् ॥
भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः ।
दंष्ट्रेणैकेन चोद्धृत्यस्वे स्थाने न्यविशन्महीम् ॥
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः ।
नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः ॥
दैत्येन्द्रस्य सभां गत्वापाणिं संस्पृश्यपाणिना ।
दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः ॥
दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः ।
शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा ॥
मेघस्तनितनिर्घोषो नीलाभ्रचयसन्निभः ।
देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् ॥
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा ।
नारसिंहेन वपुषादारितः करजैर्भृशम् ॥
एवं निहत्य भगवान्दैत्येनद््रं रिपुघातिनम् । भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च ।
कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः ॥
पूर्णे वर्षसहस्रे तु प्रसूत भर्गमुत्तमम् ॥
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः । दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः ।
जटी यज्ञोपवीती च भगवान्बालरूपधृक् ॥
यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा ।
बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे ॥
तं दृष्ट्वावामनतनुं प्रहृष्टो बलिरब्रवीत् ।
प्रीतोस्मि दर्शने विप्र ब्रूहि त्वं किं ददानिते ॥
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह ॥
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत ।
मेदिनीं दानवपते देहि मे विक्रमत्रयम् ॥
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे ।
ततो दिव्याद्भुततमं रूपं विक्रमतोहरेः ॥
विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम् ।
ददौ शक्राय च महीं विष्णुर्देवः सनातनः ॥
एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः ।
तेन देवाः प्रादुरासन्वैष्णवं चोच्यते जगत् ॥
असतां निग्रहार्थाय धर्मसंरक्षणाय च । अवतीर्णो मनुष्याणामजायत यदुक्षये ।
यं देवंविदुषोगान्ति तस्य कर्माणि सैन्दव ॥
अनाद्यन्तमजं देवं प्रभुंलोकनमस्कृतम् ।
यं देवं विदुषोगान्तितस् कर्माणि सैन्धव ॥
यमाहुरजितंकृष्णं शङ्खचक्रगदाधरम् ।
श्रीवत्सधारिणं देवं पीतकौशेयवाससम् ॥
प्रधानं सोऽस्त्रविदुषां तेन कृष्णन रक्ष्यते ॥
सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः ।
समानस्यन्दने पार्थमास्थाय परवीरहा ॥
न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः ।
कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति ॥
तमेकं वर्जयित्वातु सर्वंयौधिष्ठिरं बलम् ।
चतुरः पाण्डवात्राजन्दिनैकं जेप्यसे रिपून् ॥
`तस्मात्त्वंपार्थरहितान्पाण्डवान्वारयिष्यसि ।
एतद्धि पुरुषव्याघ्र मया दत्तो वरस्तव' ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः ।
उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः ॥
वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः ।
वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः ॥
त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः ।
उमासहायो भगवांस्तत्रैवान्तरधीयत ॥
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ । पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तथा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यजद्रथविमोक्षणपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ 273 ॥

3-273-9 घृणी दयावान् । बालिशया स्वल्पया । बाधसेशत्रुं हन्तुं न ददासि ॥ 3-273-10 सटाः जटाः केशसंनिवेशे मध्ये मध्येपञ्चसु स्थानेषु अर्धचन्द्रेण बाणेन क्षीरवद्वाषयामासेत्यर्थः ॥ 3-273-11 विकत्थयित्वाराजानमिति झ. पाठः ॥ 3-273-29 बलिं उपहारम् ॥ 3-273-31 महाबाहुं देवैरपि दुरासदम् इति ध. पाठः ॥ 3-273-33 शृणाति हिनस्तीति शरमस्त्रम् ॥ 3-273-34 नारायणसहायस्याजेयत्वं वक्तुं नारायणमाहात्म्यमेवाह देवदेव इत्यादिना ॥ 3-273-35 कालाग्निरूपो नारायणो निदेहते ॥ 3-273-36 विनदिनः गर्जन्तः । समुत्तिष्ठन् समुदतिष्ठन् । उत्तिष्ठन्तीत्यर्थः ॥ 3-273-37 शमयामासुः पयोधरा इतिप्रपूर्वेणान्वयः । अक्षमात्रैः रथाक्षमात्राभिः स्थूलाभिः । सामान्ये नपुंसकम् ॥ 3-273-40 अध्यतिष्ठदिति शेषः ॥ 3-273-43 नारायणपदंनिर्वक्ति आप इति । नराज्जाता नाराः तत्तनयः नारायणस्यैव तनवः नाराः आपः अयनं निवासस्थानं यस्य ॥ 3-273-45 तस्मिंश्च पद्मे पितामह उपविष्ट इतिक्रमभङ्गेन योज्यम् ॥ 3-273-47 त्रसानि जंगमानि ॥ 3-273-49 हे सिन्धुपते । ते तव श्रुतं श्रवणं नास्ति । यथो विष्णोरद्भुतकर्मणः कथ्यमानानि कर्माणि न वेत्सीति शेषः ॥ 3-273-53 जलक्रीडायामभिरुचितं प्रीतिर्यस्य ॥ 3-273-54 वराहवपुषमात्मानमिति शेषः । वाङ्ययं चतुर्वेदमयम् । वेदसंमितं वेदप्रमितयज्ञरूपम् ॥ 3-273-55 वर्ष्म शरीरम् ॥ 3-273-56 दंष्ट्रेण दंष्ट्रया न्यविशत् न्यवेशयत् ॥ 3-273-62 गर्भे धरितः गर्भधारितः ॥ 3-273-64 दुर्दिनं प्रावृट््दिनं तत्र भवोऽम्भोदः कृष्णमेघस्तत्सदृशः । श्रीवत्सेनोरसि भूषित इत्यर्थः ॥ 3-273-65 वाटं स्थानम् । बलिनो बलेः । अयमिकारान्त इन्नन्तश्र शब्दो दृश्यते ॥ 3-273-69 दिव्यं च तदद्धुततमं च रूपं बभूवेति शेषः ॥ 3-273-72 अवतीर्णोऽवतरणं कुर्वन्नजायत आविर्भूतः । यदुक्षये यदूनां गृहे ॥ 3-273-73 तस्य कर्माणि विदुषो विद्वांसः गान्ति गायन्ति ॥ 3-273-75 सोऽर्जुनः अस्त्रविदुषां प्रधानं श्रेष्ठः य अजितमाहुस्तेन कृष्णेन रक्ष्यते ॥ 3-273-77 तेन कृष्णसहायत्वेन हेतुना । भावः पूज्यतमः । भावः पूज्यतमे लोके इत्यनेकार्थः ॥ 3-273-78 दिनैकमेकदिनमेव न सर्वदा ॥ 3-273-83 जयद्रथोऽपि मन्दात्मा स्वमेवेति झ. पाठः ॥