अध्यायः 276

मुनिवरेण विश्रवसा भार्यात्रये रावणादीनामुत्पादनम् ॥ 1 ॥ सानुजेन रावणेन तपस्तोषितस्य ब्रह्मणो वरात्पुष्पका पहरणपूर्वकं कुबेरस्य निष्कासनेन लङ्कायां निवासः ॥ 2 ॥

मार्कण्डेय उवाच ।
पुलस्त्यस् तु यः क्रोधादर्धदेहोऽभवन्मुनिः । विश्रवानाम सक्रोधं पितरं राक्षसेश्वरः ।
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः ।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥
स राजराजो लङ्कायां न्यवसन्नरवाहनः ।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥
ताः सदा तं महात्मानं संतोषयितुमुद्यताः ।
ऋषिं भरतशार्दूल नृत्यगीतविशारदाः ॥
पुष्पोत्कटा च राका च मालिनी च विशांपते ।
अन्योन्यस्पर्धयाराजञ्श्रेयस्कामाः सुमध्यमाः ॥
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान्पुत्रानकैकस्या यथेप्सितान् ॥
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥
मालिन जनयामास पुत्रमेकं विभीषणम् ।
राकार्या मिथुनं जज्ञे खरः शूर्पणखा तथा ॥
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् ।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥
दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः ।
महोत्साहो महावीर्यो महासत्वपराक्रमः ॥
कुम्भकर्णओ बलेनासीत्सर्वेभ्योऽभ्यधिको युधि ।
मायावी रणशौण्डश्चरौद्रश्च रजनीचरः ॥
खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः ।
सिद्धविघ्नकरी चापि रौद्री शूर्पणखा तदा ॥
सर्वे वेदविदः शूराः सर्वेसुचरितव्रताः ।
ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् ।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥
जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः ।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् ।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥
अधःशायी कुम्भकर्णो यताहारो यतव्रतः ।
विभीषणः शीर्णपर्णमेकमभ्यवहारयन् ॥
उपवासरतिर्धीमान्सदा जप्यपरायणः ।
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥
स्वरः शूर्पणखा चैव तेषां वै तप्यतां तपः ।
परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ ॥
पूर्णे वर्षसहस्रेतु शिरश्छित्त्वा दशाननः ।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् ।
प्रलोभ्यवरदानेन सर्वानेवपृथक्पृथक् ॥
ब्राह्मोवाच ।
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः ।
यद्यदिष्टमृते त्वेकममरत्वं तथाऽस्तु तत् ॥
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया ।
तथैव तानि ते देहे भविष्यन्ति यथेप्सया ॥
वैरूप्यं च न ते देहे कामरूपधरस्तथा ।
भविष्यसि रणेऽरीणां विजेता न च संशयः ॥
रावण उवाच ।
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा ।
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥
ब्रह्मोवाच ।
य एते कीर्तिताः सर्वे न तेभ्योस्ति भयं रतव ।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥
मार्कण्डेय उवाच ।
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा ।
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥
कुम्भकर्णमथोवाच तथैव प्रपितामहः । `वरं वृणीष्व भद्रं ते प्रीतोस्मीति पुनःपुनः' ।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥
तथाभविष्यतीत्युक्त्वा विभीषणमुवाच ह ।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनःपुनः ॥
विभीषण उवाच ।
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् ।
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥
ब्रह्मोवाच ।
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन ।
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते ॥
मार्कण्डेय उवाच ।
राक्षसस्तु वरंलब्ध्वा दशग्रीवो विशांपते ।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥
हित्वास भगवाँल्लङ्कामाविशद्गन्धमादनम् ।
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह ॥
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः ।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति ।
अवमत्य गुरुं मां च क्षिप्रं त्वंनभविष्यसि ॥
विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन् ।
अन्वगच्छन्महाराज श्रिया परमया युतः ॥
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः ।
सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः ।
सर्वे समेत्य राजानमभ्यषिञ्चन्दशाननम् ॥
दशग्रीवश्चदैत्यानां दानवानां बलोत्कटः ।
आक्रम्य रत्नान्यहरत्कामरूपी विहंगम ॥
रावयामास लोकान्यत्तस्माद्रावण उच्यते । दशग्रीवः कामबलो देवानां भयमादधत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि ,ट््सप्तत्यधिकद्विशततमोऽध्यायः ॥ 276 ॥

3-276-2 पितरं विश्रवसम् । राक्षसेक्श्वरः कुबेरो रक्षःपुरीनायकत्वात् ॥ 3-276-5 पुष्पोत्कटा बलाका च इति ध. पाठः ॥ 3-276-13 पित्रा विश्रवसा ॥ 3-276-16 पञ्चदिक्षु चत्वार एकः सूर्य इतिपञ्चानामग्नीनां म्यगः पञ्चाग्निः ॥ 3-276-17 विभीषणस्तपोऽतिष्ठदित्युत्तरेणान्वयः ॥ 3-276-23 महदीप्सया श्रेष्ठपदापेक्षया ॥ 3-276-35 रनभविष्यसि मरिष्यसि ॥ 3-276-36 अन्वगच्छत् कुबेरमिति शेषः ॥ 3-276-39 रत्नानि जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते । विहंगमः खेचरः ॥ 3-276-40 रावयामास हिंसार्थस्य रुहो रूपमिदम् ॥