अध्यायः 280

सीतामादाय गच्छता रावणेन निरोधकत्यजटायुषो युद्धे हननपूर्वकं लङ्काप्रवेशः ॥ 1 ॥ मृगहननपूर्वकं प्रतिनिवृत्तेन रामेण मध्येमार्गं संगतस्य लक्ष्मणस्य विजने सीतात्यजनेन हेतुना गर्हणपूर्वकं स्वावासगमनम् ॥ 2 ॥ सीतान्वेषिणा सलक्ष्मणेन रामेण मार्गे स्वग्राहिणः कबन्धस्य वधः ॥ 3 ॥ कबन्धदेहान्निर्गतेन गन्धर्वेण रामंप्रति पम्पातटे सुग्रीवंप्रति गमनचोदना ॥ 4 ॥

गार्कण्डेय उवाच ।
सखा दशरथस्यासीज्जटायुररुणात्मजः ।
गृध्रराजो महावीरः संपातिर्यस् सोदरः ॥
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।
सक्रोधोऽभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥
अथैनमब्रवीद्गृध्रो मुञ्चमुञ्चेति मैथिलीम् ।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥
न हिमे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ॥
पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम् ।
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥
स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।
खङ्गमादाय चिच्छेद भुजौ तस् पतत्रिणः ॥
निहत्य गृध्रराजं सभिन्नाभ्रशिखरोपमम् ।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः ॥
यत्रयत्रतु वैदेही पश्यत्याश्रममण्डलम् ।
सरोवा सरितो वाऽपि तत्र मुञ्चति भूषणम् ॥
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् ।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥
तत्तेषां वानरेन्द्राणां पपात पवनोद्धतम् ।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥
अचिरेणातिचक्राम खेचरः खे चरन्निव ।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् ॥
प्राकारवप्रसंबाधां निर्मितां विश्वकर्मणा ।
प्रविवेशपुरीं लङ्कां ससीतो राक्षसेश्वरः ॥
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।
निवृत्तो ददृशे दूराद्भ्रातरं लक्ष्मणं तदा ॥
कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥
मृगरूपधरेणाथ रक्षसासोपकर्षणम् ।
भ्रातुरागमनं चैवचिन्तयन्पर्यतप्यत ॥
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण ॥
तस् तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।
स ददर्श रतदा गृध्रं निहतं पर्वतोपमम् ॥
राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः ।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।
गृध्रराजेस्मि भद्रंवां सखा दशरथस् वै ॥
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे ।
कोयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ ॥
ततो ददृशतुस्तौ तं छिननपक्षद्वयं खगम् ।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।
तस् गृध्रः शिरःकम्पैराचचक्षे ममार च ॥
दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम् ।
संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥
ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीकटम् ।
विध्वस्तकलशं शून्यं गोमायुशतसंकुलम् ॥
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥
वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।
ददर्श मृगयूथनि द्रवमाणानि सर्वशः ॥
शब्दं च घोरं सत्वानां दावाग्नरिववर्धतः ।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ॥
मेघपर्वतसंकाशं सालस्कन्धं महाभूजम् ।
उरोगतविशालाक्षं महोदरमहामुखम् ॥
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् ।
विषादमगमत्सद्यः सौमित्रिरथ भारत ॥
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् ।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥
हरणं चैववैदेह्या मम चायमुपप्लवः ।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥
नाहं त्वां मह वैदेह्या समेतं कोसलागतम् ।
द्रक्ष्यामि प्रथिते राज्येपितृपैतामहे स्थितम् ॥
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः ।
अभिषिक्तस् वदनं सोमं शान्तघनं यथा ॥
एवं बहुविधं धीमान्विललाप स लक्ष्मणः ।
तमुवाचाथकाकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते । `शक्तो धर्षयितुं वीर सुमित्रानन्दवर्धन' ।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥
इत्येवं वदता तस् भुजो रामेण पातितः ।
खङ्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥
ततोऽस्य दक्षिणं बाहुं स्वङ्गेनाजघ्निवान्बली ।
सौमित्रिरपि संप्रेक्ष्यभ्रातरं राघवं स्थितम् ॥
पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम् ।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः ।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥
तस्याचचक्षेगन्धर्वोविश्वावसुरहं नृप ।
प्राप्तो ब्राह्मणशपेन योनिं राक्षससेविताम् ॥
रावणेन हृतासीता लङ्कायां संनिवेशिता ।
सुग्रीवमभिगच्छस्वस ते साह्यं करिष्यति ॥
एषा पम्पा शिवजला हंसकारण्डवायुता ।
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥
वसते तत्रसुग्रीवश्चतुर्भिः सचिवैः सह ।
भ्राता बानरराजस् वालिनो हेममालिनः ॥
तेन त्वं सहसंगम्य दुःखमूलं निवेदय ।
समानशीलो भवतः साहाय्यं स करिष्यति ॥
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ।
ध्रुवं वानरराजस् विदितो रावणालयः ॥
इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः । विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि अशीत्यधिकद्विशततमोऽध्यायः ॥

3-280-3 ध्रियमाणे जीवति ॥ 3-280-4 नखरैः नखैः ॥ 3-280-5 चक्षार सुस्राव ॥ 3-280-7 अङ्केन उत्सङ्गेन ॥ 3-280-9 गिरिप्रस्थे पर्वतशिखरे ॥ 3-280-12 प्राकारः परिधिभित्तिः वप्रस्तद्बाह्यं वेणुमयं दुर्गं ताभ्यां संबाधा दुर्गमा ॥ 3-280-14 कथं प्राप्तोसीति संबन्धः ॥ 3-280-20 वां युवयोः ॥ 3-280-21 आहव्रृते ॥ 3-280-29 उरसि नेत्रे उदरे मुखं च यस्य । कबन्धः शोर्षहीनः पुमान् ॥ 3-280-31 येन यतस्तन्मुखं ततः कृष्यते ॥ 3-280-41 कामया इच्छया ॥ 3-280-44 पम्पा नामतः । तटाकिनी सरसी ॥