अध्यायः 281

रामण सुग्रीवेण सख्यकरणपूर्वकं वालिहननम् ॥ 1 ॥ रावणेनाशोकवने सीतानिवेशनपूर्वकं तद्वशीकरणाय राक्षसीनां नियोजनम् ॥ 2 ॥ तत्र त्रिजटया रामरावणयोरिष्टानिष्टसूचकस्वदृष्टस्वाप्नप्रकारकथनेन सीतायाः परिसान्त्वनम् ॥ 3 ॥

मार्कण्डेय उवाच ।
ततोऽविदूरे नलिनीं रप्रभूतकमलोत्पलाम् ।
सीताहरणदुःखार्तः पम्पां रामः समासदत् ॥
मारुतेन सुशीतेन सुखेनामृतगन्धिना ।
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ॥
विललाप सराजेन्द्रस्तत्रकान्तानुस्मरन् ।
कामबाणाभिसंतप्तं सौमित्रिस्तमथाब्रवीत् ॥
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद ।
आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम् ॥
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च ।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् ।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः ।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ॥
निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि ।
प्रतस्थतुरभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥
तावृश्यमूकमभ्येत्य बहुमूलफलद्रुमम् ।
गिर्यग्रे वानरान्पञ्वीरौ ददृशतुस्तदा ॥
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः ।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ॥
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः ।
रसख्यं वानरराजेन चक्रे रामस्तदा नृप ॥
`ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम् ।
दुःखमाख्यातवान्सर्वं रामायामिततेजसे' ॥
तद्वासो दर्शयामास तस् कार्ये निवेदिते ।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत् ॥
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् ।
पृथिव्यां वानरैश्वर्ये स्वयंरामोऽभ्यषेचयत् ॥
प्रतिजज्ञे चकाकुत्स्थः समरे वालिनो वधम् ।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ॥
इत्येवं समयं कृत्वाविश्वास्य च परस्परम् ।
अभ्येत्य सर्वकिष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ॥
सुग्रीवः प्राप्यकिष्किन्धां ननादौघनिभस्वनः ।
नसाय् तन्ममृषे वाली तारा तं प्रत्यषेधयत् ॥
यथानदतिसुग्रीवो बलवानेष वानरः ।
मन्ये चाश्रयवान्प्राप्तो न त्वं निष्क्रान्तुमर्हसि ॥
हेममाली ततो वाली तारां ताराधिपाननाम् ।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ॥
सर्वभूतरुतज्ञा शृणु सर्वं कपीश्वर ॥
केन चाश्रयवान्प्राप्तो ममैप भ्रातृगन्धिकः ॥
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा ।
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ॥
हृतदारो महासत्वोरामो दशरथात्मजः ।
रतुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ॥
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः ।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ॥
मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः ।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ॥
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः ।
अलं तव विनाशाय रामवीर्यव्यपाश्रयाः ॥
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः ।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ॥
तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात् ।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोभ्यभाषत ॥
असकृत्त्वं मया क्लीव निर्जितो जीवितप्रियः ।
मुक्तो गच्छसि दुर्बुद्धे कथंकारं रणे पुनः ॥
इत्युक्तः प्राहसुग्रीवो भ्रातरं हेतुमद्वचः ।
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव ॥
हृतराज्यस्य मे राजन्हृतदारस्य च त्वया ।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम् ॥
एवमुक्त्वाबहुविधं ततस्तौ सन्निपेततुः ।
समरे वालिसुग्रीवौ सालतालशिलायुधौ ॥
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः ।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ॥
न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते ।
सुग्रीवस् तदा मालां हनुमान्कण्ठ आसजत् ॥
स मालया तदा वीरः शुशुभे कण्ठसक्तया ।
श्रीमानिव महाशैलो मलयो मेघमालया ॥
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः ।
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्षयन् ॥
विष्फारस्तस् धनुषो यन्त्रस्येव तदा बभौ ।
वितत्रास तदा वाली शरेणाभिहतो हृदि ॥
स भिन्नहृदयो वाली वक्राच्छोणितमुद्वमन् ।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह ॥
गर्हयित्वास काकुत्स्थं पपात भुवि मूर्च्छितः ।
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ॥
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ।
तां तारापतिमुखीं तारां निपतितेश्वराम् ॥
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे ।
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥
रावणोऽपिपुरीं गत्वालङ्कां कामबलात्कृतः ।
सीतां निवेशयामास भवने नन्दनोपमे ॥
अशोकवनिकाभ्यासे तापसास्रमसन्निभे ।
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ॥
उपवासतपःशीला ततः सा पृथुलेक्षणा ।
उवास दुःखवसतिं फलमूलकृताशना ॥
दिदेश राक्षसीस्तत्ररक्षणे राक्षसाधिपः ।
प्रासासिशूलपरशुमुद्गरालातधारिणीः ॥
द्व्यक्षीं त्र्यक्षीं ललाटक्षीं दीर्घजिह्वामजिह्विकाम् ।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ॥
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः ।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः ।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः ॥
खादाम पाटयामैनां तिलशः प्रविभज्यताम् ।
येयं भर्तारमस्माकमवमत्येह जीवति ॥
इत्येवं परिभर्त्सन्तीस्त्रासयानाः पुनः पुनः ।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ॥
आर्याः खादत मां शीघ्रं न मे लोभोस्ति जीविते ।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ॥
अद्यैवाहं निराहारा जीवितप्रियवर्जिता ।
शोषयिष्यामि गात्राणि बल्ली तलगता यथा ॥
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते ।
इति जानीत सत्यं मेक्रियतां यदनन्तरम् ॥
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः ।
आख्यातुं राक्षसेन्द्राय जन्मुस्तत्सर्वमादितः ॥
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी ।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ॥
सीते वक्ष्यामि ते किंचिद्विश्वासं करु मे सखि ।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम ॥
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः ।
स रामस्य हितान्वेषी त्वदर्थे मामचूचुदत् ॥
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च ।
भर्ता तेकुशली रामोलक्ष्मणानुगतो बली ॥
सख्यं वानरराजेन शक्रप्रतिमतेजसा ।
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥
मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात् ।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि ॥
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् ।
न शक्रोत्यवशां नारीमुपैतुमजितेन्द्रियः ॥
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः ।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः ।
विनाशायास्य दुर्बुद्धेः पौलस्त्यस्य कुलस्य च ॥
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः ।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः ।
मया विनासलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥
तैलाभिषिक्तो विकचो मज्जनप्के दशाननः ।
असकृत्स्वरयुक्ते तु रथे नृत्यन्निव स्थितः ॥
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः ।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः ।
श्वेतपर्वतमारूढ एक एव विभीषणः ॥
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः ।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ॥
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा ।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥
हस्तिसक्थिसमारूढो भुञ्जानो मधुपायसम् ।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम् ॥
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता ।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥
हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता ।
राघवेण सहभ्रात्रा सीते त्वमचिरादिव ॥
इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः ।
बभूवाशावती बाला पुनर्भर्तृसमागमे ॥
तावदभ्यागता रौद्र्यः पिशाच्यस्ताःसुदारुणाः । ददृशुस्तां त्रिजटया सहासीनां यथापुरम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः ॥ 281 ॥

3-281- अविदूरे समीपे । नलिनीं पुष्करिणीम् ॥ 3-281-2 अमृतगन्धिनाऽमृतसदृशेन ॥ 3-281-5 उपपादय सफलीकुरु ॥ 3-281-7 अनन्तरः संलग्नुः ॥ 3-281-9 ऋश्यमूकं पर्वतम् ॥ 3-281-17 ओघो जनवृन्दस्तन्निभः स्वनो यस्य ॥ 3-281-18 आश्रयवान् परबलाश्रितः ॥ 3-281-26 ईर्षुरीर्ष्यालुः ॥ 3-281-28 मुक्तो गच्छसि दुर्बुद्धे कथं घोरे पुनरिति क. पाठः । मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः इति झ. पाठः ॥ 3-281-30 जीवितसामर्थ्यं जीवनस्य श्लाप्यत्वम् ॥ 3-281-47 करभोत्कटमूर्धजाः उष्ट्रसदृशकेश्यः ॥ 3-281-48 परुषव्यञ्जनखरात्मकाः शब्दा यासां ताः ॥ 3-281-52 व्याली तालगता ययेति ख.झ.पाठः ॥ 3-281-61 वधूं स्रुषाम् ॥ 3-281-70 परिक्षिप्ता व्याप्ता ॥