अध्यायः 284

वानरसनापतिभिः स्वस्वसैन्यैः सहरामसुग्रीवोपासनम् ॥ 1 ॥ वानरसेनाभिः सह सागरतीरमुपागतेन रामेण सेनानां सागरतरणाय समुद्राराधनार्थं नियमेन दर्भसंस्तरे शयनम् ॥ 2 ॥ सागरेण रामंप्रति स्वप्ने स्वात्मप्रदर्शनपूर्वकं नलेन सेतुनिर्मापणचोदना ॥ 3 ॥ रामेण शरणार्थिनो विभीषणस्य लङ्काराज्येऽभिषेचनपूर्वकं सेतुमार्गेण सैन्यैः सह लङ्कागमनम् ॥ 4 ॥

मार्कण्डेय उवाच ।
ततस्तत्रैवरामस्य समासीनस्य तैः सह ।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥
वृतः कोटिसहस्रेण वानराणां तरस्विनाम् ।
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥
कोटीशतवृतोवाऽपिगजो गवय एव च ।
वानरेन््रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत ।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥
गन्धमादनवासी तु प्रथितो गन्धमादनः ।
कोटीशतसहस्राणि हरीणां समकर्षत ॥
पनसो नाम मेधावी वानरःसुमहाबलः ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥
श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान् ।
प्रचकर्ष महासैनयं हरीणां भीमतेजसाम् ॥
कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥
एते चान्ये च बहवो हरियूथपयूथपाः ।
असङ्ख्येया महाराज समीयू रामकारणात् ॥
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम् ।
श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम् ॥
गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः ।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ॥
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः ।
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥
सवानरमहासैन्यः पूर्णसागरसन्निभः ।
निवेशमकरोत्तत्रसुग्रीवानुमते तदा ॥
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव ।
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः ।
जघनं पालयामास सौमित्रिरकुतोभयः ॥
बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः ।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥
प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम् ।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥
विविधेषु प्रशस्तेषु बहुमूलफलेषु च ।
प्रभूतमधुमांसेषु वारिमत्सु विवेषु च ॥
निवसन्ती निराबाधा तथैवगिरिसानुषु ।
उपायाद्धिरिसेना सा क्षारोदमथ मागरम् ॥
द्वितीयसागरनिमं तद्बलंबहुलध्वजम् ।
वेलावनं समासाद् निवासमकरोत्तदा ॥
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत ।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥
उपायः कोनु भवतां मतः सागरलङ्घने ।
इयं हि महती सेना सागरश्चातिदुस्तरः ॥
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः ।
समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः ॥
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः ।
नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत ॥
शतयोजनविस्तारं न शक्ताः सर्ववानराः ।
क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः ॥
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा ।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः ।
प्लवोडुपप्रतारश्चनैवात्रमम रोचते ॥
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।
प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः ॥
न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः ।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।
प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे ॥
सागरस्तु ततः स्वप्ने दर्शयामास राघवम् ।
देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः ॥
कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥
ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ । ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः ।
एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् ॥
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते । येन गत्वादशग्रीवं हन्याम कुलपांसनम् ।
`राक्षसंसानुबन्धं तं मम भार्यापहारिणम्' ॥
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः ॥
इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः ।
उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः ॥
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।
शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर ॥
यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽऽज्ञया ।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात् ॥
अस्तित्वत्रनलो नाम वानरः शिल्पिसंमतः ।
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ॥
स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि ।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥
इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह ।
कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम ॥
तेनोपायेन काकुत्स्थः सतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम् ॥
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि ।
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥
तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः ।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥
प्रतिजग्राह रामस्तं स्वागतेन महामनाः ।
सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह ॥
राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः ।
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥
सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम् ।
चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च ॥
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मार्गेणैव नराधिपः ॥
ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः ।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ ।
चरौ वानररूपेण तौ जग्राह विभीषणः ॥
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम् । प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ॥ 284 ॥

3-284-8 मुखे पुण्ड्रस्तिलकं येषां ते. ललाटे ऊर्ध्वपुण्ड्राकारेण चिह्नेन चिह्नितानाम् ॥ 3-284-10 शिरीषकुसुमाभानां सिंहानामिति ध. पाठः ॥ 3-284-18 शालिभिर्भातीति शालिभं तच्चतद्वनं पक्वजलिभवनं तद्वत्पीतवर्णमित्यर्थः ॥ 3-284-29 प्लवः अलाबुघटादिमयं तरणसाधनम् । उडुपं रक्षुद्रनौका ताभ्यां प्रतारस्तरणम् ॥ 3-284-30 समारप्स्यामि आराधयिष्यामि ॥ 3-284-34 मधुरं वच इदंशृण्वित्याहेति शेषेण योज्यम् ॥ 3-284-40 आज्ञायेति च्छेदः । पूर्वरूपमार्षम् ॥ 3-284-47 प्रणिधिश्छलकृत गुप्तचारो वा ॥ 3-284-50 मासेनैव नराधिप इति झ. पाठ ॥