अध्यायः 287

विभीषणहनुमद्भ्यां प्रहस्तधूम्राक्षवधश्रवणनिर्विण्णेन रावणेन युद्धाय कुम्भकर्णप्रेषणम् ॥ 1 ॥

मार्कण्डेय उवाच ।
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् ।
गदया ताडयामास विनद्य रणकर्कशम् ॥
स तयाऽभिहतो धीमान्गदया भीमवेगया ।
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥
ततः प्रगृह्यविपुलां शतघण्टां विभीषणः ।
अनुमन्त्र्य महाशक्तिं चिक्षेपास् शिरः प्रति ॥
पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया ।
हृतोत्तामङ्गो ददृशे वातरुग्ण इव द्रुमः ॥
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् ।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥
तस् मेघोपमं सैन्यमापतद्भीमदर्शनम् ।
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ॥
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् ।
निर्ययौ कपिशार्दूलो हनूमान्मारुतात्मजः ॥
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम् ।
महत्या त्वरया राजत्संन्यवर्तन्त सर्वशः ॥
ततः शब्दो महानासीत्तुमुलो रोमहर्षणः ।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥
तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे ।
क्षूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥
तं स रक्षोमहामात्रमापतन्तं सपत्नजित् ।
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः ॥
तयोर्युद्धमभूदधोरं हरिराक्षसवीरयोः ।
जीगीषतोर्युधाऽन्योन्यमिन्द्रप्रह्लादयोरिवं ॥
कगदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् ।
कपिश्च जघ्निवान्रः सस्कन्धविटपैर्द्रुमैः ॥
ततस्तमतिकोपेन साश्वं सरथसारथिम् ।
धूम्राक्षमवधीत्क्रुद्धो हनूमान्मारुतात्मजः ॥
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् ।
हरयो जातविश्रम्भा जघ्नुरन्ये च सैनिकान् ॥
ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः ।
राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् ॥
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः ।
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि ।
धूम्राक्षं च महेष्वासं ससैन्यं सहराक्षसैः ॥
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् ।
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः ।
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥
प्रबोध्य महता चैनं यत्नेनाऽऽगतसाध्वसः । स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ।
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥
धन्योसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी ।
य इदं दारुणं कालं न जानीषे महाभयम् ॥
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह ।
अवमत्येह नः सर्वान्करोति कदनं महत् ॥
मया त्वपहृता भार्या सीता नामास्य जानकी ।
तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे ॥
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः ।
तस्य नान्यो निहन्ताऽस्ति त्वामृतेशत्रुकर्शन ॥
सदंशितोऽभिनिर्याहि त्वमद्य बलिनांवर ।
रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ॥
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ ।
तौ त्वां बलेन महता सहितावनुयास्यतः ॥
इत्युक्त्वा राक्षुसपतिः कुम्भकर्णं तरस्विनम् ।
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥
तथ्त्युक्त्वा युतौ वीरौ रावणं दूषाणानुजौ । कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥ 287 ॥

3-287-11 रक्षोमहामात्रं रक्षःश्रेष्ठम् ॥ 3-287-21 आगतसाध्वसः जातभयः ॥