अध्यायः 289

लक्ष्मणएन्द्रजितोर्युद्धम् ॥ 1 ॥ अङ्गदेनेन्द्रजिद्रथभङ्गे मायया तस्यान्तर्धाने च रामेणापि तत्रागमनम् ॥ 2 ॥

मार्कण्डेय उवाच ।
ततः श्रुत्वाहतं सङ्ख्ये कुम्भकर्णं सहानुगम् ।
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥
पुत्रमिनद्रजितं वीरं रावणः प्रत्यभाषत ।
जहिरामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् ।
जित्वावज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ॥
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः ।
जहि शत्रूनमित्रघ्न मम शस्त्रभृतांवर ॥
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ ।
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः ॥
अगता या प्रहस्तेन कुम्भकर्णेन चानघ ।
खरस्यापचितिः सङ्ख्ये तां गच्छ त्वे महाभुज ॥
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् ।
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम् ॥
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशिथः ।
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥
ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः ।
आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥
तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः ।
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः ।
दिव्यास्त्रविदुपोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥
रावणिस्तु यदा नैनं विशेषयति सायकैः ।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥
तत एवं महावेगैरर्दयामास तोमरैः ।
तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ॥
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्धरणीतले ।
`साधका रावणेराजौ शतशः शकलीकृताः ॥
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् ।
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥
तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान् ।
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥
तमभ्याशगतं वीरमङ्गदं रावणात्मजः ।
गदयाऽताडयत्सव्ये पार्श्वेवानरपुङ्गवम् ॥
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः ।
ससर्जेन्द्रजितः क्रोधात्सालस्कन्धं तथाङ्गदः ॥
सोऽङ्गदेन रुपोत्सृष्टो वधायेन्द्रजितस्तरुः ।
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः ।
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् ।
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा ।
विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम् ॥
तमदृश्यंशरैः शूरौ माययाऽन्तर्हितं तदा ।
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः ।
व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् ।
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥
तांश्च तौ चाप्यदृश्यः सशरैर्विव्याध राक्षसः ।
स भृशं ताडयामास रावणिर्मायया वृतः ॥
तौ शरैरर्दितौ वीरौ भ्रारौ रामलक्ष्मणौ । पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकोननवत्यधिकद्विशततमोऽध्यायः ॥ 289 ॥

3-289-18 रासर्ज उत्सृष्टवान् । सालस्कन्धं महास्कन्धं तरुम् ॥ 3-289-26 तान् हरीन् । तौ च रामलक्ष्मणौ ॥