अध्यायः 291

इन्द्रजिद्वधक्रोधाद्रावणेन त्वयमेव युद्धाय रामंप्रत्यभियानम् ॥ 1 ॥ तदा इन्द्रेण रामाय मातलिसनायस्य निजरथस्य प्रेषणम् ॥ 2 ॥ श्रीरामेण मायायोधिनो रावणस्य ब्रह्मास्त्रेण हननम् ॥ 3 ॥

मार्कण्डेय उवाच ।
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते ।
निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥
संवृतोराक्षसैर्घेरैर्विविधायुधपाणिभिः ।
अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥
तमाद्रवन्तं संक्रुद्ध मैन्दनीलनलाङ्गदाः ।
हनुमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥
ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः ।
द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः ॥
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः ।
मायावी चासृजन्मायां रावणो राक्षसाधिपः ॥
तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः ।
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् ।
अथ भूयोपि मायां स व्यदधाद्राक्षसाधिपः ॥
कृत्वा रामस् रूपाणि लक्ष्मणस्य च भारत ।
अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥
ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः ।
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः ॥
तां दृष्ट्वाराक्षसेन्द्रस् मायामिक्ष्वाकुनन्दनः ।
उवाच रामः सौमित्रिमसंभ्रान्तो बृहद्वचः ॥
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् ।
इत्युक्त्वाऽभ्यहनद्रामो लक्ष्मणश्चात्मरूपकान् ॥
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।
उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥
मातलिरुवाच ।
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः ।
`त्वदर्थमिह संप्राप्तः संदेशाद्वै शतक्रतोः' ॥
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ।
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥
तदनन नरव्याघ्र मया यत्तेन संयुगे ।
स्यन्दनेन जहिक्षिप्रं रावणं मा चिरं कृथाः ॥
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः ।
मायैषाराक्षसस्येति तमुवाच विबीषणः ॥
नेयं माया नरव्याघ्ररावणस् दुरात्मनः ।
तदातिष्ठ रथंशीघ्रमिमसैन्द्रं महाद्युते ॥
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् ।
रथेनाभिपपाताथ दशग्रीवं रुषाऽन्वितः ॥
हाहाकुतानि भूतानि रावणे समभिद्रुते ।
सिंहनादाः सपटहादिति दिव्यास्तथाऽनदन् ॥
[दशकन्धरराजसून्वोस्तथा युद्धमभून्महत् । अलब्धोपममन्यत्रतयोरेव तथाऽभवत् ॥]
सरामाय महाघोरं विससर्ज निशाचरः ।
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम् ॥
तच्छूलं सत्वरं रामश्चच्छेद निशितैः शरैः ।
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान् ।
सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥
ततो भुशुण्डीः शूलानि मुसलानि परश्वथान् ।
शक्तीश्च विविधाकाराः शतघ्नीश्च शितान्क्षुरान् ॥
तां मायांविविधां दृष्ट्वा दशग्रीवस्य रक्षसः ।
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥
ततः सुपत्रं सुमुखंहेमपुङ्गं शरोत्तमम् ।
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥
तं प्रेक्ष्यबाणं रामेण ब्रह्मास्त्रेणानुमन्त्रितम् ।
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः ।
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिंनराः ॥
ततः ससर्ज तं रामः शरमप्रतिमौजसम् ।
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥
मुक्तमात्रेण रामेण दूराकृष्टेन भारत । स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः ।
प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः ॥
ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः ।
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥
तत्यजुस्तं महाभागं पञ्चभूतानि रावणम् ।
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥
शरीरधातवो ह्यस् मासं रुधिरमेव च । नेशुर्ब्रह्मास्त्रनिर्दग्दा न च भस्माप्यदृश्यत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकनवत्यधिकद्विशततमोऽध्यायः ॥ 291 ॥

3-291-8 रामस्य रूपं कृत्वालक्ष्मणमभिदुद्राव लक्ष्मणस्य रूपं कृत्वा राममिति येजना ॥ 3-291-32 पञ्चभूतानि तत्यजुर्मृत इत्यर्थः ॥