अध्यायः 292

रावणवधानन्तरमविन्ध्यनाम्ना राक्षसवृद्धेन रामसमीपंप्रति सीताया आनयनम् ॥ 1 ॥ सूतया स्वशीलशङ्किनो रामस्यानङ्गीकारवचनश्रवणेन बूमौ पतनम् ॥ 2 ॥ अन्तरिक्षगतैर्ब्रह्मादिभिः सीतायाः सौशील्यख्यापनपूर्वकं रामंप्रति तद्ग्रहणचोदना ॥ 3 ॥ रामेण सीतालक्ष्मणादिभिः सहायोध्यांप्रति प्रस्थानम् ॥ 4 ॥ दूत्येन भरतंप्रति हनुमत्प्रेषणपूर्वकं नन्दिग्राममागतेन रामेण भरताधिभिः सहायोध्यांप्रत्यागमनम् ॥ 5 ॥ वसिष्ठादिभिः सीतया सह राज्येऽभिपिक्तेन रामेण सुग्रीवविभीषणादीनां सबहुमानं स्वस्वपुरप्रेषणपूर्वकं प्रजापालनम् ॥ 6 ॥

मार्कण्डेय उवाच ।
स हत्वा रावयणं क्षुद्रं राक्षसेनद्रं सुरद्विषम् ।
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः ।
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः ।
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥
पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम् ।
तन्महोत्सवसंकाशमासीदाकाशमच्युत ॥
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः ।
विभीषणाय प्रददौ प्रभुः परपुरंजयः ॥
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् ।
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ॥
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् ।
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् ।
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् ।
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ॥
उवाच रामो वैदेहीं परामर्शविशङ्कितः ।
`लक्षयित्वेङ्गितं सर्वं प्रियं तस्यै निवेद्य सः' ॥
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तनमया कृतम् । मामासाद्यपतिं भद्रे न त्वं राक्षसवेश्मनि ।
जरां व्रजेथा इतिमे निहतोसौ निशाचरः ॥
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् ।
परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥
सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि ।
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः ।
पपात देवी व्यथिता निकृत्ता कदली यथा ॥
योप्यस्या हर्षसंभूतो मुखरागः पुराऽभवत् ।
क्षणेन सपुनर्नष्टो निःश्वासादिव दर्पणे ॥
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् ।
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः ।
पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम् ॥
शक्रश्चाग्निश्च वायुश्चयमो वरुण एव च ।
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् ।
विमानेन महार्हेण हंसयुक्तेन भास्वता ॥
ततोऽन्तरिक्षं तत्सर्वंदेवगन्धर्वसंकुलम् ।
शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥
तत उत्थाय वैदेही तेषां मध्ययशस्विनी ।
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ॥
राजपुत्र न ते कोपं करोमि विदिताहि मे ।
गतिः स्त्रीणां नराणां च शृणु चदं वचो मम ॥
अन्तश्चरतिभूतानां मातरिश्वा सदागतिः ।
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥
अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च ।
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥
यथाऽहं त्वदृतेवीर नान्यंस्वप्नेऽप्यचिन्तयम् ।
तथा मे देव निर्दिष्टस्त्वमेव हि पतिर्भव ॥
ततोऽन्तरिक्षे वागारीत्सुभगा लोकसाक्षिणी ।
पुण्यासंहर्षणी तेषां वानराणां महात्मनाम् ॥
वायुरुवाच ।
बोभो राघव सत्यं वै वायुरस्मि सदागतिः ।
अपापा मैथिली राजन्संगच्छसहभार्यया ॥
अग्निरुवाच ।
अहमन्तःशरीरस्थो भूतानां रघुनन्दन ।
सुसूक्ष्ममपि काकुत्स्थ मैथिलीनापराध्यति ॥
वरुण उवाच ।
रसावै मत्प्रसूता हि भूतदेहेषु राघव ।
अहंवै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ॥
यम उवाच ।
`धर्मोऽहमस्मि काकुत्स्थ साक्षी लोकस्य कर्मणाम् ।
शुभाशुभानां सीतेयमपापा प्रतिगृह्यताम्' ॥
ब्र्हमोवाच ।
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मणि ।
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम ॥
शत्रुरेष त्वया वीर देवगनधर्वभोगिनाम् ।
यक्षाणां दानवानां च महर्षीणां च पातितः ॥
अवध्यः सर्वभूतानां मत्प्रसादात्पुराऽभवत् ।
कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः ॥
वधार्थमात्मनस्तेन हृता सीता दुरात्मना ।
नलकूबरशापेन रक्षा चास्याः कृता मया ॥
यदि ह्यकामामासेवेत्स्तरियमन्यामपि ध्रुवम् ।
शतधाऽस्य फलेन्मूर्धा इत्युक्तः सोभवत्पुरा ॥
नात्रशङ्का त्वया कार्या प्रतीच्छेमां महामते ।
कृतं त्वया महत्कार्यं देवानाममितप्रभ ॥
दशरथ उवाच ।
प्रीतोस्मि वत्स भद्रं ते पिता दशरथोस्मि ते ।
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥
राम उवाच ।
अभिवादयेत्वां राजेन्द्र यदि त्वं जनको मम ।
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥
मार्कण्डेय उवाच ।
तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ । गच्छायोध्यां प्रशाधि त्वंराम रक्तान्तलोचन ।
संपूर्णानीहवर्षाणि चतुर्दश महाद्युते ॥
ततो देवान्नमस्कृत्य मुहृद्भिरभिनन्दितः ।
महेन्द्रइव पौलोम्या भार्यया स समेयिवान् ॥
ततो वरं ददौ तस्मै ह्यविन्ध्याय परंतपः ।
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥
तमुवाच ततो ब्रह्मा देवैः शक्रषुरोगमैः ।
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥
वव्रेरामः स्थितिं धर्मे शत्रुभिश्चापराजयम् ।
राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥
ततस्ते ब्रह्मणा प्रोक्ते तथेतिवचने तदा ।
समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥
सीता चापि महाभागा वरं हनुमते ददौ ।
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा ।
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥
ततस्ते प्रेक्षमाणानां तेपामक्लिष्टकर्मणाम् ।
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ॥
दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः ।
उवाच परमप्रीतसुहृन्मध्य इदं वचः ॥
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् ।
अपनीतं त्वया दुःखमिदं सत्यपराक्रम ॥
सदेवासुरगनधर्वा यक्षराक्षसपन्नगाः ।
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥
इत्येवमुक्त्वाऽनुज्ञाप्यरामं शस्त्रभृतांवरम् ।
संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ॥
ततःसीतां पुरस्कृत्य रामः सौमित्रिणा सह ।
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ॥
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः ।
संततार पुनस्तेन सेतुना मकरालयम् ॥
पुष्पकेण विसानन खेचरेण विराजता ।
कामगेन यथामुख्यैरमात्यैः संवृतो वसी ॥
ततस्तीरे समुद्रस्यं यत्रशिश्य स पार्थिवः ।
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥
अथैनान्राघवः काले समानीयाभिपूज्य च ।
विसर्जयामास तदा रत्नैः संतोष्य सर्वशः ॥
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च ।
सुग्रीवसहितो रामः किष्किन्दां पुनरागमत् ॥
विभीषणेनानुगतः सुग्रीवसहितस्तदा ।
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ॥
किष्किन्धां तु समासाद्यरामः प्रहरतांवरः ।
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ॥
ततस्तैरेव सहितो रामः सौमित्रिणा सह ।
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥
अयोध्यां स समासाद्यपुरीं राष्ट्रपतिस्ततः ।
भरताय हनूमन्तं दूतं प्रास्थापयद्द्रुतम् ॥
लक्षयित्वेङ्गितं सर्वंप्रियं तस्मै निवेद्य वै ।
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपाविशत् ॥
सतत्रमलदिग्धाङ्गं भरतं चीरवाससम् । `नन्दिग्रामगतंरामः सशत्रुघ्नं सराघवः' ।
अग्रतःपादुके कृत्वा ददर्शासीनमासने ॥
समेत्यभरतेनाथ शत्रुघ्नेन च वीर्यवान् ।
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥
ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा ।
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥
तस्मै तद्भरतो राज्यमागतायातिसत्कृतम् ।
न्यासं निर्यातयामास युक्तः परमया मुदा ॥
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिजितेऽहनि ।
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥
सोभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् ।
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ ।
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥
पुष्पकं च विमानं तत्पूजयित्वा स राघवः ।
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥
ततो देवर्षिसहितः सरितं गोमतीमनु । शताश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः ॥ 292 ॥

3-292-3 ब्रिदशालयः स्वर्गस्तत्स्थाः ॥ 3-292-55 यत्र शिश्ये पूर्वं समुद्रप्रार्थनार्थं शयनं कृतवान् ॥ 3-292-62 लक्षयित्वेङ्गितैः सर्वैरिति ध.पाटः ॥ 3-292-65 गुरुणा रामेण ॥ 3-292-67 वैष्णवे नक्षत्रेश्रवणे ॥ 3-292-71 जारूथ्यान् त्रिगुणदक्षिणानित्यर्जुनमिश्रः ॥