अध्यायः 025

मार्कण्डेयेन पाण्डवानुपेत्य धर्मोपदेशपूर्वकमुत्तरदिग्गमनम् ॥ 1 ॥

वैशंपायन उवाच ।
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् ।
विजह्रुरिनद्रप्रतिमाः शिवेषु सरस्वतीसालवनेषु तेषु ॥
यतींश्च राजा स मुनींश्च सर्वां स्तस्मिन्वने मूलफलैरुदग्रैः ।
द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः ॥
इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम् ।
पुरोहितस्तत्र समृद्धतेजा- श्चकार धौम्यः पितृवन्नृपाणाम् ॥
अपेत्य राष्ट्राद्वसतां तु तेषा- मृषिः पुराणोऽतिथिराजगाम ।
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥
तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः ।
अपूजयत्सुरऋषिमानवार्चितं महामुनिं ह्यनुपमसत्ववीर्यवान् ॥
स सर्वविद्द्रौपदीं वीक्ष्य दीनां युधिष्टिरं भीमसेनार्जुनौ च ।
संस्मृत्यरामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः ॥
तं धर्मराजो विमना इवाब्रवी- त्सर्वे ह्रिया सन्ति तपस्विनोऽमी ।
भवानिदं किं स्मयतीव हृष्ट- स्तपस्विनां पश्यतां मामुदीक्ष्य ॥
मार्कण्डेय उवाच ।
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजतेन दर्पः ।
तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि ॥
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् ।
धन्वी चरन्पार्थ मयैव दृष्टो गिरे पुरा ऋष्यमूकस्य सानौ ॥
सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता ।
पितुर्निदेशादनघः स्वधर्मं चरन्वने दाशरथिश्चकार ॥
स चापि शक्रस् समप्रभावो महानुभावः समरेष्वजेयः ।
विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् ॥
भापाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य ।
सत्येन तेऽप्यजयस्तात लोका- न्नेशे बलस्येति चरेदधर्मम् ॥
अलर्कमाहुर्नवर्य सन्तं सत्यव्रतं काशिकरूशराजम् ।
विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम् ॥
धात्रा विधिर्यो विहितः पुराणै- स्तं पूजयन्तो नरवर्य सन्तः ।
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् ॥
महाबलान्पर्वतकूटमात्रा- न्विषाणिनः पश्य गजान्नरेन्द्र ।
स्थितान्निदेशे नरवर्य धातु- र्नेशे बलस्येति चरेदधर्मम् ॥
सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद्विहितं विधात्रा ।
स्वयोनितः कर्म सदाचरन्ति नेसे बलस्येति चरेदधर्मम् ॥
सत्येनं धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य ।
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्त ॥
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरूष्य ।
ततः श्रियं तेजसा तेन दीप्ता- मादास्वसे पार्थिव कौरेवभ्यः ॥
वैशंपायन उवाच ।
तमेवमुक्त्वा वचनं महर्षि- स्तपस्विमध्ये सहितं सुहृद्धिः ।
आमन्त्र्य धौम्यं सहितांश्च पार्थां- स्ततः प्रतस्थे दिशमुत्तरां सः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

3-25-1 महावनेष्वम्बुफलोचितेषु सरस्वतीति ख. पाठः । भागीरथीसालवनेष्विति क. पाठः ॥ 3-25-3 इष्टीः दर्शपौर्णमासाद्याः । पित्र्याणि पिण्डपितृयज्ञदर्सश्राद्धादीनि ॥ 3-25-4 राष्ट्रात् अपेत्य निर्गत्य वने वसताम् ॥ 3-25-6 अस्मयत विस्मितवान् ॥ 3-25-7 ह्रिया प्रागल्भ्यसंकोचेन ॥ 3-25-11 बलस्य बहुसामर्थ्यस्य ईशे प्रभवामीति हेतोरधर्मं न चरेत् । शक्तौ सत्यां धर्ममेवाचरेन्नत्वधर्ममित्यर्थः । नेशो बलस्येतीति क. पाठः ॥ 3-25-14 धात्रा ईशेन पुराणैर्वेदवाक्यैर्विहितो विधिरग्निहोत्रादिः ॥ 3-25-15 पशवोऽपि बलवानस्मीति दर्पेणाधर्मं न चरन्तीत्याह महाबलानिति । विषाणं दन्तः ॥ 3-25-17 विभा प्रभा सैव वसु वित्तं यस्य ॥ 3-25-18 आदास्यते ग्रहीष्यसि ॥