अध्यायः 026

दाल्भ्येन युधिष्ठिरंप्रति ब्राह्मणस्य क्षत्रवृद्धिकारणत्वकधनम् ॥ 1 ॥ महर्षीणां युधिष्ठिराभिगमनम् ॥ 2 ॥

वैशंपायन उवाच ।
वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु ।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः ।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥
यजुषामृचां साम्नां च गद्यानां चैव सर्वशः ।
आसीदुच्चार्यमाणानां निःस्वनो हृदयंगमः ॥
ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम् ।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।
होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् ॥
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया ॥
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥
ब्राह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ ॥
नाब्राह्मणस्तात चिरं बुभूषे- दिच्छन्नमं लोकममुं च जेतुम् ।
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं हन्ति नृपः सपत्नान् ॥
चरन्नैश्रेयसं धर्मं प्रजापालनकारितम् ।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥
अनूनमासीदसुरस्य कामै- वैरोचनेः श्रीरपि चाक्षयाऽऽसीत् ।
लब्ध्वा महीं ब्राह्मणसंप्रयोगा- त्तेष्वाचरन्दुष्टमयथो व्यनश्यत् ॥
नाब्राह्मणं भूमिरियं सभूति- र्वर्णं द्वितीयं भजते चिराय ।
समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम् ॥
कुञ्चरस्येव संग्रामे परिगृह्याङ्कुशग्रहम् ।
ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम् ॥
ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।
तौ यदा चरतः सार्धं तदा लोकः प्रसीदती ॥
यथा हि सुमहानग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ॥
ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत् ।
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ॥
अलब्धलाभाय च लब्धवृद्धये । यथार्हतीर्थप्रतिपादनाय ।
यशस्विनं वेदविदं विपश्चितं बहुश्रुं ब्राह्मणमेव वासयेत् ॥
ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर ।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥
वैशंपायन उवाच ।
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमंपूजयन् ।
युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन् ॥
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥
कृतवाक्च सुवाश्चैव बृहदश्चो विभावसुः ।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाबिगमनपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

3-26-1 अनुकीर्णं व्याप्तम् ॥ 3-26-3 गद्यानां ब्राह्मणवाक्यानां पादाक्षरादिनियमहीनानाम् । साम्नां च निगमानां च भारतेति क. पाटः । भाष्याणां चैव सर्वश इति ख. पाठः.॥ 3-26-5 संध्यामुपास्येति शेषः ॥ 3-26-11 नृपः अब्राह्मणो ब्राह्मणहीनो न बुभूषेत् न भवितुमिच्छेत् । तस्येच्छतोपि जयो दुर्लभ इत्यर्थः । विनीतौ सम्यक् शिक्षितौ धर्मार्थौ येन ॥ 3-26-12 तीर्थमुपायम् ॥ 3-26-13 वैरोचनेर्बलेः ॥ 3-26-15 अङ्कुशग्रहमङ्कुशेन निगृह्णाति तम् । परिगृह्य वर्जयित्वा । परिर्वर्जने ॥ 3-26-18 बुद्धिपर्येषणं बुद्धेः साकल्येन संग्रहणम् ॥ 3-26-19 यथार्हतीर्थे यथायोग्यपात्रे । प्रतिपादनाय दानाय ॥