अध्यायः 309

कतिपयकालातिपाते कर्णस्य सहजकवचकुण्डलधारणएन कुन्त्यां जननम् ॥ 1 ॥ कुन्त्या धात्र्यासह मन्त्रपूर्वकं जातमात्रस् गर्भस्य मञ्जूषायां निक्षेपपूर्वकमश्वनद्यां विसर्जनम् ॥ 2 ॥ सगर्भाया मञ्जूषायाः क्रमेण चर्मण्वतीयमुनाद्वारा गङ्गायां प्लवनेन चम्पापुरीप्रवेशः ॥ 3 ॥

वैशंपायन उवाच ।
ततो गर्भः समभवत्पृथायाः पृथिवीपते ।
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥
सा बान्धवभयाद्बाला गर्भं तं विनिगूहती ।
धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते ।
कन्यापुरगतां बालां निपुणां परिरक्षणे ॥
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ।
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥
तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम् ।
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी । `उत्स्रष्टुकामा तं गर्भं कारयामास भारत ।
मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम् ॥ प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप ।
अजिनैर्मृदुभिश्चैवं संस्तीर्णशयनां तथा' ॥
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः । मधूच्चिष्टस्थितायां तं सुखायां रुदती तथा ।
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् ।
पुत्रस्नेहेन सा राजन्करुणं पर्यदेवयत् ॥
समुत्सृजन्ती मञ्जूपामश्वनद्यां तदा जले ।
उवाच रुदतीकुन्ती यानि वाक्यानि तच्छृणु ॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक ।
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः ।
आगताश्च तथा पुत्र भवन्त्यद्रोहचेतसः ॥
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः ।
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥
पिता त्वां पातु सर्वत्र तपनस्तपतांवरः ।
येन दत्तोसि मे पुत्र दिव्येन विधिना किल ॥
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः ।
मरुतश्च सहेन्द्रेण दिशश्च सदिदीश्वराः ॥
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च ।
वेत्स्यामि त्वांविदेशेपि कवचेनाभिसूचितम् ॥
धन्यस्ते पुत्र जनरको देवो भानुर्विभावसुः ।
स्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ।
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥
कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् ।
दिव्यवर्मसमायुक्तं दिव्यकृण्डलभूषितम् ॥
पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम् ।
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् ।
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम् ।
हिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥
एवं बहुविधं राजन्विलप्य करुणं पृथा ।
अवामृजतमज्जूषामश्वनद्यां तदा जले ॥
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा ।
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः ।
विवेश राजभवनं पुनः शोकातुरा ततः ॥
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम् ।
चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह ॥
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम् ।
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम् ।
धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः । स सूर्यसंभवो गर्भः कुन्त्या गर्भेण धारितः' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि नवाधिकत्रिशततमोऽध्यायः ॥ 309 ॥

3-309-1 दशोत्तरे एकादशे शुक्ले पक्षे प्रतिपदि चन्द्रइव बाल उद्भूतः । माघशुक्लप्रतिपदि कर्णनिषेकजन्मेत्यर्थः ॥ 3-309-5 हर्यक्षं सिंहनेत्रम् ॥ 3-309-6 गर्भं प्रति संमन्त्र्येत्यध्याहारेणान्वयः ॥ 3-309-8 मधूच्छिष्टं सिक्थकम् । मयनमिति भाषायाम् । तेन स्थितायां सर्वतोलिप्तायां मञ्जूषायाम् । जलप्रवेशो न भवेदित्यर्थः ॥ 3-309-12 आगमाश्च तथा सन्तु दिव्येन विधिना तव इति थ. ध. पाठः । आगमाश्च तथा पान्तु इति क. पाठः ॥ 3-309-28 दैवं कर्तृ । गर्भं सकुण्डलं वर्म धारयामासेत्यन्वयः । गर्भं कवचकुण्डलधारकंचकारेत्यर्थः । विधिना ईश्वरेण निर्मितम् ॥