अध्यायः 310

स्नानाय भार्यया सह गङ्गां गतेनाधिरथनाम्ना सूतेन तत्रोत्प्लवमानायाः सगर्भमञ्जूषाया ग्रहणम् ॥ 1 ॥ तथा मञ्जूषोद्घाटने दृष्टस्य गर्भस्य स्वपुत्रतया परिकल्पनेन नामकरणादिपूर्वकंप्रीत्या पोषणम् ॥ 2 ॥ कर्णेन परशुरामादिभ्योऽस्त्रग्रहणपूर्वकं दुर्योधनेन सख्यकरणम् ॥ 3 ॥

वैशंपायन उवाच ।
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि । राधा नाम महाभागा न सा पुत्रमविन्दत ।
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ।
दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ॥
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ।
`विवर्तमानां बहुशः पुनःपुनरितस्ततः ॥
ततः सा वायुना राजन्स्रोतसा च बलीयसा ।
उपानीतो यतः सूतः सभार्यो जलमाश्रितः' ॥
सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी ।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम् ॥
मृष्टकुण्डलयुक्तेन वदनेन विराजितम् ।
`परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् ॥
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम्' । स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः ।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥
इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि ।
दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः ॥
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥
रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥
`स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः' । पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् ।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥
`नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते ।
कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्' ॥
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥
एवं स सूतपुत्रत्वं जगामामितविक्रमः ।
वसुषेण इतिख्यातो वृष इत्येव च प्रभुः ॥
सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान् ।
चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत् ॥
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम् ।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान् ॥
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः ।
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥
सदा हि तस् स्पर्धाऽऽसीदर्जुनन विशांपते ।
अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह ॥
एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः ।
यः सूर्यसंभवः कर्णः कुर्यात्प्रतिकुले रतः ॥
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिलोत्थितः ॥
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना ।
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः । स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि दशाधिकत्रिशततमोऽध्यायः ॥ 310 ॥

3-310-3 दत्तो रक्षार्थं प्रतिसरो दूर्वाकङ्कणादिरूपो यस्यां तामअ । अन्वालम्भनं कुङ्कुमहस्तदानम् ॥ 3-310-5 उपह्वरं समीपम् ॥ 3-310-7 उत्सार्य परतो नीत्वा ॥ 3-310-15 वसुवर्म स्वर्णकवचनम् ॥ 3-310-17 अङ्गेषु जनपदविशेषेषु ॥ 3-310-19 उपसदनं गुरूपसदनम् ॥ 3-310-20 परमेष्वासतां महाधनुर्धरताम् ॥