अध्यायः 311

इन्द्रेण ब्राह्मणवेपधारणेन कर्णप्रति कवचकुण्डलयाचनम् ॥ तस्येन्द्रत्वं जानता कर्णेन तस्माच्छक्तिग्रहणपूर्वकं तस्मै कवचकुण्डलदानम् ॥

वैशंपायन उवाच ।
देवराजमनुप्राप्तं ब्राह्मणच्छद्मनाऽऽवृतम् ।
दृष्ट्वास्वागतमित्याह न बुबोधास्य मानसम् ॥
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् ।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥
ब्राह्मण उवाच ।
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् ।
नाह दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥
यदेतत्सहजं वर्म कुण्डले च तवानघ ।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥
एतदिच्छाम्यहं भिक्षां त्वया दत्तां परंतप ।
एष मे सर्वलाभानां लाभः परमको मतः ॥
कर्ण उवाच ।
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् ।
तत्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम् ॥
वैशंपायन उवाच ।
एवं बहुविधैर्वाक्यैर्वार्यमाणः स तु द्विजः ।
रकर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि ।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥
यदा नान्य प्रवृणुते वरं वै द्विजसत्तमः । `विनाऽस् सहजं वर्म कुण्डले च विशांपते' ।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे ।
तेनावध्योस्मि लोकेषु ततो नैतज्जहाम्यहम् ॥
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् ।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥
कुण्डलाभ्यां विमुक्तोऽहंवर्मणा सहजेन च ।
दमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥
वैशंपायन उवाच ।
यदन्यं न वरं वव्रे भगवान्पाकशासनः ।
ततः प्रहस् कर्णस्तं पुनरित्यब्रवीद्वचः ॥
विदितो देवदेवेश प्रागेवासि मम प्रभो ।
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम ।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥
यदि दास्यामि ते देव कुण्डले कवचं तथा ।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥
तस्माद्विनिमयं कृत्वा कुण्डलेवर्म चोत्तमम् ।
हरस्व शक्रकामं मे न दद्यामहमन्यथा ॥
शक्र उवाच ।
विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम् ।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥
काममस्तु तथा तात तव कर्ण यथेच्छसि ।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि ॥
वैशंपायन उवाच ।
ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् ।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥
क्रण उवाच ।
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव ।
अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे ॥
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः ।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् ।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च ॥
अमोघा हन्ति शतशः शत्रून्मम करच्युता ।
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥
सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम् ।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥
कर्ण उवाच ।
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे ।
गर्जन्तंप्रतपन्तं च यतो मम भयं भवेत् ॥
इन्द्र उवाच ।
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे ।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥
यमाहुर्वेदविद्वांसो वराहमपराजितम् ।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥
कर्ण उवाच ।
`एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन ।
वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः' ॥
एवमप्यस्तु भगवन्नेकवीरवधे मम ।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम् ॥
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते ।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत् ॥
इन्द्र उवाच ।
न ते बीभत्सता कर्ण भविष्यति कथञ्चन ।
ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि ॥
यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर ।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये ।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥
कर्ण उवाच ।
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् ।
यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥
वैशंपायन उवाच ।
ततः शक्तिं प्रज्वलितां प्रतिगृह् विशांपते ।
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥
ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेव ।
दृष्ट्वा सर्वे सिंहनादान्प्रणेदु- र्न ह्यस्यासीन्मुखजो वै विकारः ॥
ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम् ।
दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं महुश्चापि स्मयमानं नृवीरम् ॥
ततश्छित्त्वा कवचं दिव्यमङ्गा- त्तथैवार्द्रं प्रददौ वासवाय ।
तथोत्कृत्य प्रददौ कुण्डले ते कर्णात्तस्मात्कर्मणा तेन कर्णः ॥
`ततो देवो मुदितो वज्रपाणि- र्दृष्ट्वा कर्णं शस्त्रनिकृत्तगात्रम्' ।
ततः शक्रः प्रहसन्वञ्चयित्वा कर्णं लोके यशसा योजयित्वा । कृतंकार्यं पाण्डवनां हि भेने ततः पश्चाद्दिवमेवोत्पपात ॥
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन् ।
तां रचावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृपुः काननस्थाः ॥
जनमेजय उवाच ।
क्वस्ता वीराः पाण्डवास्ते बभूवुः कुतश्चैते श्रुतवन्तः प्रियं तत् ।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु ॥
वैशंपायन उवाच ।
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते ।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं कदेवर्षीणआं चरितं विस्तरेण ॥
`प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूतपौरोगवैस्ते ।
ततो ययुर्द्वैतवनं नृवीरा निस्तीर्यैवं वनवासं समग्रम्' ॥

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि एकादशाधिकत्रिशततमोऽध्यायः ॥ 311 ॥

3-311-3 यच्चान्यत्पादवन्धनम् इति ध. पाठः ॥ 3-311-6 अवनि गृहार्थम् । निवापं न्युप्यते बीजमम्मिन्निति क्षेत्रम् । बहुवर्पिकं यावज्जीविकवृत्तिरूपम् . । 3-311-18 आयानेव आगच्छन्नेव ॥ 3-311-39 कृणाति हिनस्ति कृन्तति छिनत्ति वा अङ्गानीति कर्ण इत्यर्थः ॥