अध्यायः 315

वैशंपायन उवाच ।
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवः ।
क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम् ॥
युधिष्ठि उवाच ।
सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥
बसूनां वा भवानेको रुद्राणामथवा भवान् ।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥
मम हि भ्रातर इमे सहस्रशतयोधिनः ।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः ॥
सुखं प्रति प्रबुद्दानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदोस्माकमथवा नः पिता भवान् ॥
यक्ष उवाच ।
अहंते जनकस्तात धर्मो मृदुपराक्रम ।
त्वां रदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥
यशः सत्यंदमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥
अहिंसा समता शान्तिस्तपः शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सुतो मम ॥
दिष्ट्या पञ्चसु रक्तोसि दिष्ट्या ते षट्रपदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे शान्ते सांपरायिके ॥
ध्रमोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः ।
आनृशंस्येन तुष्टोस्मि वरं दास्यामि तेऽनघ ॥
वरं वृणीष्व राजेन्द्रदाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥
युधिष्ठिर उवाच ।
अरणी तु हृतायस्य मृगेण वदतांवर ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥
धर्म उवाच ।
आरणेयमिदं तस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञालार्थं तवानघ ॥
वैशंपायन उवाच ।
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥
युधिष्टिर उवाच ।
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्रनो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्रिषु लोकेषु भारत ॥
वर्षंत्रयोदशमिदं मत्प्रसादात्कुरूद्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥
यद्वः संकल्पितं रूपं मनसा यस् यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥
अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतंमृगरूपिणा ॥
प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते ।
न तृप्यामि नरश्रेष्ठ प्रयच्छन्वै वरांस्तथा ॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्विदुरश्चममांशजः ॥
जुधिष्ठिर उवाच ।
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं वेत् ॥
धर्म उवाच ।
रउपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव ।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥
वैशंवायन उवाच ।
इत्युक्त्वान्तऽर्दधे धर्मो भगबाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥
उपेत्यचाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥
इदं समुत्थानसमागतं मह- त्पितुश्चपुत्रस्य च कीर्तिवर्धनम् ।
पठन्नरः रस्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतपर्षभाग्भवेत् ॥
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने ।
कदर्यभावे न रमेनेमनः सदा नृणां सदाख्यानमिदं विजानताम् ॥

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां अरण्यपर्वणि आरणेयपर्वणि पञ्चदशाधिकत्रिशततमोऽध्यायः ॥ 315 ॥

आरणेयपर्व समाप्तम् ॥ 21 ॥ समाप्तमिदमरण्यपर्व च ॥ 3 ॥ अतः परं विराटपर्व भविष्यति । तस्यायमाद्यः श्लोकः । जनमेयज उवाच । कथं विराटनगरे मम पूर्वपितामहाः । अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥

3-315-5 सुहृदः सुहृत् । छान्दसमदन्तत्वम् ॥ 3-315-9 पञ्चस्वात्मदर्शनसाधनेषु शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वेति श्रुत्युक्तेषु शमादिषु । दिष्ठ्या पूर्वपुण्यवशाद्रक्तोसि तस्य फलं च षट्पदीजयः । पद्यन्ते प्राप्नुवन्ति देहिनमिति पदानि षडूर्मयो योशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीति श्रुत्युक्तः । तेषां षण्णां पदानां समाहारः षट््पदी सा त्वया जिता । तेषु पदेषु द्वे पदे पूर्वे जातमात्रस्य ह्यशनायापिपासे प्रथमं भवतः । द्वे मध्ये शोकमोहौ । शोक इष्टवियोगजश्चित्तस्य संतापः । मोहोऽतिपापेन कार्याकार्यप्रतिसंधानशून्यत्वम् । एते मध्ये मध्यमे वयसि प्राप्नुतः । सांपरायिके जरामृत्यू उत्तरे वयस्युपतिष्ठतः । संपरायः परलोकस्तं प्रति नेतुमुदिते सांपरायिके ॥ 3-315-15 अरण्ये गतानीति शेषः । नोऽस्मान् ॥ 3-315-19 छन्दत उच्छातः ॥ 3-315-27 आरणेयमरणीसंपुटम् ॥ 3-315-28 समुत्थानसमागतं भीमादीनां समुत्थानं च रधर्मराजेन सह समागतं संमेलनं चेति समाहारः । पितुर्धर्मस्य । पुत्रस् युधिष्ठिरस्य । चात् समागतमिति समासैकदेशभूतमप्यनुवर्तते ॥ 3-315-29 कदर्यभावे कार्पण्ये । सदाख्यानं सुभाख्यानम् ॥