अध्यायः 030

भर्तृव्यसनदर्शनदूनया द्रौपद्या युधिष्ठिरंप्रति धर्मादितोऽपि विधेरेव प्राबल्योपपादनम् ॥ 1 ॥

द्रौपद्युवाच ।
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव ।
पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः ॥
[कर्मभिश्चिन्तितो लोको गत्यांगत्यां पृथग्विधः । तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति ।]
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च ।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् ।
स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत ।
धर्मात्प्रियतरं किंचिदपि चेज्जीवितादपि ॥
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते ।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह ।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः ।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥
त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते ।
बुद्धिः सततमन्वेति छायेवं पुरुषं निजा ॥
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः ।
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् ।
देवताश्च पितॄंश्चैव सततं पार्थ सेवसे ॥
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः ।
यतयो मोक्षिणश्चैव गृहस्ताश्चैव भारत ॥
भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका । आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि ।
नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ॥
यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते ।
तद्दत्त्वाऽतिथिभृत्येभ्योराजञ्शिष्टेनजीवसि ॥
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये ।
वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ ॥
अस्मिन्नपि महारण्ये विजने दस्युसेविते ।
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति ॥
अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः ।
इष्टास्त्वया महायज्ञाबहवोऽन्ये सदक्षिणाः ॥
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये ।
पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः ॥
ऋजोर्मृदोर्बदान्यस्य धीमतः सत्यवादिनः ।
कथमक्षव्यसनजा बुद्धिरापतिता तव ॥
अतीव मोह आयाति मनश् परिदूयते ।
निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥
यथा दारुमयीं योषां नरो धीरः समाहितः ।
इङ्ग्यत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥
आकाश इव भूतानि व्याप्य सर्वाणि भारत ।
ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥
शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः ।
ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः ॥
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ।
धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥
नात्माथीनो मनुष्योऽयं कालं भजतिं कंचन ।
स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः ॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः ।
धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वः ।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् ।
येन कारयते कर्म शुभाशुभफलं विभुः ॥
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः ।
यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया ॥
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च ।
अन्यथैव प्रभुस्तानि करोति विकरोति च ॥
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः ।
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥
एवं स भगवान्देवः स्वयंभूः प्रपितामहः ।
निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः ।
क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ॥
न मातृपितृवद्राजन्धाता भूतेषु वर्तते ।
रोषादिव प्रवृत्तोऽयं यथाऽयमितरो जनः ॥
आर्याञ्शीलवो दृष्ट्वा हीमतो वृत्तिकर्शितान् ।
अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये ॥
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने ।
धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि ।
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति ।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति । कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

3-30-1 धात्रे ईश्वराय । विधात्रे पूर्वकर्मणे ॥ 3-30-2 चिन्तितः कल्पितो लोको भोगसाधनम् । गत्यांगत्यां ऊर्ध्वाधोमध्यमोत्तमाधमयोनिषु । नित्यानि अपरिहार्यफलानि । लोभात् मोहात् मोक्षं कर्मफलेभ्यो दुःखेभ्यो मुक्तिं यियासति प्राप्तुमिच्छति ॥ 3-30-5 धर्मात्प्रियतरं नहि त अष्यगमन् ज्ञातवन्तः किंतु जीवितादपि प्रियतरं धर्ममेवाध्यगमन् ॥ 3-30-10 शृङ्गं प्रभुत्वाभिमानः ॥ 3-30-12 ते त्वया ॥ 3-30-15 पाकयज्ञा गृह्याग्निसाध्या इष्टयः ॥ 3-30-18 परीतया विपरीतया ॥ 3-30-19 ऋजोरवक्रस्य । मृदोर्दयालोः ॥ 3-30-22 धाता ईश्वरः । तथैव खलु इति क. पाठः । शुक्रं प्राक्कर्मवीजम् । उच्चरन्नुत्कर्षेणानुसरन् ॥ 3-30-24 अन्तर्बहिर्व्याप्तौ आकाशदृष्टान्तः । बूतानि जरायुजादीनि ॥ 3-30-25 बद्धो वा बद्धइव ॥ 3-30-26 नसि नासिकायाम् । नस्यं नासासूत्रं तेन वा ओतः प्रोतः ॥ 3-30-37 संप्रयोज्यसंयोगं कृत्वा कामकार इच्छा तयैव करोतीति कामकारकरः । क्रीडनकैः सारीप्रभृतिभिः ॥ 3-30-42 कृतं कर्म यदि कर्तारमेव गच्छति नत्वन्यं तर्हि कारयितृतच्वादीश्वरोपि पापेन लिप्येतैवेत्यर्थः ॥