अध्यायः 032

युधिष्ठिरंप्रति द्रौपद्या ब्राह्मणोक्तबृहस्पतिनीतिकथनम् ॥ 1 ॥

द्रौपद्युवाच ।
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन ।
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥
आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत ।
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे ॥
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥
आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम् ।
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ ।
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥
उत्थानमभिजानन्ति सर्वभूतानि भारत ।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥
पश्यन्तः स्वं समुत्थानमुपजीवन्ति जन्तरः ।
अपि धाता विधाता च यथाऽयमुदके बकः ॥
[अकर्मणां वै भूतानां वृत्तिः स्वान्न हि काचन । तदेवाभिप्रपद्येत न विहन्यात्कदाचन ॥]
स्वकर्म कुरु माहासीः कर्मणा भव दंशितः ।
कृत्यं हि योऽभिजानाति सहस्रे सोस्ति नास्ति वां ॥
तस्य चापि भवेत्कार्वं विवृद्धौ रक्षणे तथा ।
भक्ष्यमाणो द्यनावाषः क्षीयेत हिमवानपि ॥
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि । [तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ॥]
दृष्ट्वाऽपिच फलं कर्म पश्यामः कुर्वतो जनान् ।
नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथंचन ॥
यश्च दिष्टपरो लोके यश्चापि हठवादकः ।
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ॥
यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन् ।
अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् ।
आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः ।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥
वश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत ।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥
यत्तावस्कर्मणा किंचित्फलमाप्नोति पूरुषः ।
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम् ॥
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात् ।
तत्स्वभावात्प्रकं विद्धि फलं पुरुषसत्तम ॥
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा ।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम् ॥
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः ।
विदधाति विभज्येह फलं पूर्वकतं नृणाम् ॥
यद्धि यः पुरुषः किंचित्कुरुते वै शुभाशुभम् ।
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि ।
स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः ॥
तेषुतेषु हि कृत्येषु विनियोक्ता महेश्वरः ।
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥
मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा ।
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम् ॥
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ ।
अगारनगराणां हि सिद्धिः पुरुषहैतुकी ॥
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः ।
एवं धीरो विजानीयादुपायं चास्य सिद्धये ॥
ततः प्रवर्तते पश्चात्कारणेष्वस्व सिद्धये ।
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥
कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम् ।
इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥
इष्टापूर्त्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् ।
पुरुषः कर्मसाध्येषु स्वाच्चेदयमकारणम् ॥
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते ।
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥
सर्वमेव हठेनैके दैवेनैके वदन्त्युत ।
पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते ॥
न चैवैतावता कार्यं मन्यन्त इति चापरे ।
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ॥
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः ।
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः ॥
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ।
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदोजनाः ॥
तथैव धाता भूतानामिष्टानिष्टफलप्रदः ।
यदि न स्वानन भूतानां कृपणो नाम कश्चन ॥
यंयमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः ।
तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम् ॥
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः ।
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥
कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः ।
एकान्तेन ह्यनीहोऽयं वर्ततेऽस्मासु संप्रति ॥
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर ।
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥
असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते ।
कृतेकर्मणि राजेन्द्र तथाऽनृण्यमवाप्नुते ॥
अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥
अनर्थं संशयावस्थं गृणन्त्यामुक्तसशंयाः ।
धीरा नराः कर्मरता न तु निःसंशयाः क्वचित् ॥
एकान्ते नह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम् ।
स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥
अथवाऽसिद्धिरेव स्यान्महिमा तु तदेव ते ।
वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि ॥
अन्येषां कर्म सफलमस्माकमपि वा पुनः ।
विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम् ॥
पृथिवीं लाङ्गलेनेह कृष्ट्वा बीजं वपत्युत ।
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः ।
यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया ॥
तच्चेदं फलमस्माकमपराधो न मे क्वचित् ।
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्रगर्हयेत् ॥
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत ।
निर्वेदो नात्र गन्तव्यो द्वावन्तौ यस्य कर्मणः ॥
सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा ।
बहूनां समवाये हि भावानां कर्म सिध्यति ॥
गुणाभावे फलं न्यूनं भवत्यफलमेव च ।
अनारम्भे हि न फलं न गुणो दृश्यते क्वचित् ॥
देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये ।
युनक्ति मेधया धीरो यथायोगं यथाबलम् ॥
अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः ।
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥
यत्रधीमानवेक्षेत श्रेयासं बहुभिर्गुणैः ।
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥
व्यसनं नाभिकाङ्क्षेत्त विनाशं वा युधिष्ठिर ।
अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः ॥
उत्थानयुक्तः सततं परेषामन्तरैषणे ।
आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन ।
न ह्यात्मपरिभूतस् भूतिर्भवति शोभना ॥
एवं संस्थितिका सिद्धिरियं लोकस्य भारत ।
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः ॥
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् ।
सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ ॥
नीतिं बृहस्पतिप्रोक्तां भ्रातृन्मेऽग्राहयन्पुरा ।
तेषां सकाशादश्रौषमहमेतां तदा गृहे ॥
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् । शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

3-32-12 अपिवाह्य फलं कर्मेति ट. ध. पाठः ॥ 3-32-18 यत्नवान्कर्मणेति ध. पाठः ॥ 3-32-32 त्रैधमेतन्निरुच्यते इति झ. पाटः ॥ 3-32-33 दैवशिष्टं तथा हठमिति क. पाठः । दैवादिष्टं तथा हठ इति ठ. पाठः ॥ 3-32-39 एकान्ते नह्यनर्थोयमिति क ध. पाठः ॥ 3-32-59 संस्थितिका ईदृग्व्यवस्थावती सिद्धिः फलसिद्धिः ॥ 3-32-62 कर्मवतीमागतां किंचित्कार्योद्देशेन पितुरन्तिके आगताम् ॥