अध्यायः 034

युधिष्ठिरेण भीमंप्रति स्वेन प्रतिज्ञाया दुस्त्यजत्वोक्तिपूर्वकं प्रतिज्ञाकालावसानप्रतिपालनविधानम् ॥ 1 ॥

वैशंपायन उवाच ।
स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा ।
अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे ॥
असंशयं भारत सत्यमेत- द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि ।
न त्वां विगर्हे प्रतिकूलमेत- न्ममानयाद्धि व्यसनं व आगात् ॥
अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।
तन्मां शठः कितव प्रत्यदेवी- त्सुयोधनार्थं सुबलस्य पुत्रः ॥
महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान् ।
अमायिनं मायया प्रत्यजैषी- त्ततोऽपश्यं वृजिनं भीमसेन ॥
अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च ।
शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम् ॥
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः ।
न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् ॥
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् ।
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः ॥
त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतास्तां सभां नः ।
यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् ॥
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो ।
अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मरूपः ॥
त्वां चेच्छ्रुत्वा तात तथा चरन्त- मवभोत्स्यन्ते भारतानां चराश्च ।
अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं निश्चित्य तत्प्रतिजानीहि पार्थ ॥
चरैश्चेन्नो विदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान् ।
ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः ॥
वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान् ।
चरेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति ॥
तत्र द्यूतमभवन्नो जघन्यं यस्मिञ्जिताः प्रव्रजिताश् सर्वे ।
इत्थं तु देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥
सुयोधनश्चापि न शान्तिमिच्छत् भूयः स मन्योर्वशमन्वगच्छत् ।
उद्योजयामास कुरूंश्च सर्वान् येचास्य केचिद्वशमन्वगच्छन् ॥
तां सिद्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः ।
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत् ॥
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः ।
बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतंभीम तदाऽभविष्यत् ॥
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः ।
प्राप्तं तु कालं त्वभिपद्यपश्चात् किं मामिदानीमतिवेलमात्थ ॥
भूयोपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा ।
यद्याज्ञसेनीं परिक्लिश्यमानां संदृश्य तत्क्षान्तमिति स्म भीम ॥
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये ।
कालं प्रतीक्षस्व सुखोदयाय पाकं फलानामिव बीजवापः ॥
यदा हि पूर्वं निकृतोनिकृन्ते- द्वैरं सपुष्पं सफलं विदित्वा ।
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके ॥
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते ।
मित्राणि चैनमतिरागाद्भजन्ते देवा इवेनद््रमुपजीवन्ति चैनम् ॥
मम प्रतिज्ञां च निबोध सत्यां वृणे सत्यममृतीज्जीविताच्च ।
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुस्त्रिंशोऽष्यायः ॥ 34 ॥

3-34-3 अन्वपद्यमनुसृतवात् ॥ 3-34-4 प्रवपन् पातयन् । अक्षपूगान् पाशसमूहान् । वृजिनं दुःखदं व्यसनम् ॥ 3-34-5 अयुजो विषमान् । युजः समान् । शक्य इति यः पुरुषस्य धैर्यं हन्यात् स सन्युर्यदि नाभविष्यत्तर्ह्यात्मा मनो नियन्तुं शक्यः अभविष्यदित्यध्याहृत्य योज्यम् ॥ 3-34-9 समा वर्षाणि । अथापरं वर्षम् । छद्मगूढ इति. झ. पाठः ॥ 3-34-10 अवभोत्स्यन्ते ज्ञास्यन्ति । बुद्ध्येरन्वै भारतानामिति क. पाठः ॥ 3-34-11 नो इति निपातः । वितस्तादिपञ्चनद्युपलक्षितो देशः ॥ 3-34-12 सर्वे शतमपि भ्रातरः । स राजा दुर्योधनः ॥ 3-34-13 नोऽस्माकम् । जघन्यं नीचम् । कृच्छ्ररूपाः क्लिष्टरूपाः । वनानि दुर्गाणि च घोररूपा इति क. ध. पाठः ॥ 3-34-14 शान्तिं नेच्छन् अनिच्छन् । उद्योजयामासोत्कर्षेण स्वेच्छया तेषु तेषु द्रगदेशादिपालनकार्येष्विष्टान्योजितवान् ॥ 3-34-15 तं संधिमास्थायेति झ. ट. पाठः ॥ 3-34-16 पर्यमृक्षः परामृष्टवानसि । दिधक्षन् दग्धुमिच्छन् ॥ 3-34-17 आविदानो जानन् । प्राप्तं कालं कालतुल्यां विपदमभिपद्य स्वीकृत्य ॥ 3-34-18 भूयोपि बह्वपि । दूये उपतप्ये ॥ 3-34-19 बीजवापः कृषीबलः । पक्तिं फलानामिति झ. ध. पाठः ॥ 3-34-20 वैरं वैरिसमूहम् । सपुष्पं सफलं विदित्वा पुष्टतरं ज्ञात्वा यदि निकृन्तेत् छिन्द्यात् तदा हि प्रसिद्धं महागुणं महान्तं गुणं हरति आहरति ॥ 3-34-22 अमृतात् देवभावात् । कलां षोडशं भागम् ॥