अध्यायः 039
किरातरूपिणआ हरेणार्जुनस्य पराजयः ॥ 1 ॥ तथा
पार्थपूजास्तुतिसंतुष्टेन तेन तदाश्वासनम् ॥ 2 ॥
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु ।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम् ।
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥
श्रीगद्धनुरुपादाय शरांश्चाशीविषोपमान् ।
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥
देव्या सहोमया श्रीमान्समानव्रतवेषया ।
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥
किरातवेषसंछन्नः स्त्रीभिश्चापि सहस्रशः ।
अशोभत तदा राजन्स देशोऽतीव भारत ॥
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा ।
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः ।
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम् ।
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् ।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् ।
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् ।
किरातरूपी सहसा वारयामास शंकरः ॥
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः ।
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः ।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः ।
मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा ॥
यथाऽशनैर्विनिष्पेषो वज्रस्येव च पर्वते ।
तथा तयोः सन्निपातः शरयोरभवत्तदा ॥
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ।
ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम् ॥
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।
किरातवेषसंछन्नं स्त्रीसहायममित्रहा ॥
तमब्रवीत्प्रीतमना कौन्तेयः प्रहसन्निव ।
को भवानटते शून्ये वने रस्त्रीगणसंवृतः ॥
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ।
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ॥
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ।
कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे ॥
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि ।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम् ॥
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव ।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनं ॥
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात् ।
इयं भूमिः सदाऽस्माकमुचिता वसतां वने ॥
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः ।
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन ॥
भवांस्तु कृष्णवत्मार्भः सुकुमारः सुखोचितः ।
कथं शून्यमिमं देशमेकाकी विचरिष्यति ॥
अर्जुन उवाच ।
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान् ।
निवसामि महारण्ये द्वितीय इव पावकः ॥
एष चापि मया जन्तुर्मृगरूपं समाश्रितः ।
राक्षसो निहतो घोरो हन्तुं मामिह चागतः ॥
किरात उवाच ।
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि ।
बाणैरभिहतः शेते नीतश्च यमसादनम् ॥
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः ।
ममैव च प्रहारेण जीविताद्व्यपरिपितः ॥
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः ।
अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव ।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा ।
रोषमाहारयामास ताडयामास चेषुभिः ॥
ततो हृष्टेन मनसा प्रतिजग्राह सायकान् ।
भूयोभूय इति प्राह मन्दमन्देत्युवाच ह ॥
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः ।
इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः ॥
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः ।
शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥
ततोऽर्जुनः शरवर्षं किराते समवासृजत् ।
तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ॥
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक् ।
अक्षतेन शरीरेण तस्थौ गिरिवाचलः ॥
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः ।
परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत् ॥
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः ।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः ।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥
न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः ।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः ।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः ।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः ।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा ।
वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ॥
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् ।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः ।
अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः ॥
अहमेनं धनुष्कोट्या रशूलाग्रेणेव कुञ्जरम् ।
नयामि दण्डधारस्य यमस्य सदनं प्रति ॥
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च ।
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः ॥
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा ।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः ॥
ततोऽर्जुनो ग्रस्तधनुः खङ्गपाणिरतिष्ठत ।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥
तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि ।
मुमोय भुजवीर्येण विक्रम्य कुरुनन्दनः ॥
तकस्य मूर्धानमासाद्य पफालासिवरो हि सः ।
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ॥
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ।
किरातरूपी भगवांस्ततः पार्थो महाबलः ॥
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ।
प्रजहार दुराधर्षे किरातसमरूपिणि ॥
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः ।
किरातरूपी भगवानर्दयामास फल्गुनम् ॥
ततश्चटचटाशब्दः सुधोरः समजायत ।
पाण्डवस्य च मुष्टीनां किरातस् च युध्यतः ॥
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम् ।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥
महाराज ततो जिष्णुः किरातमुरसा बली ।
पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात् ॥
तयोर्भुजविनिष्पेषात्संधर्षेणोरसोस्तथा ।
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् ।
तेजसा व्क्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ ।
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः ।
ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः ।
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः ॥
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम् ।
मृन्मयं स्ण्डिलं कृत्वामाल्येनापूजयद्भवम् ॥
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम् ।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः ॥
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः ।
[उवाच चैनं वचसा मेघगम्भीरगीर्हसः ।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् ॥
भव उवाच ।
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते ।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥
समं तेजश्च वीर्यं च ममाद्य तव चानघ ।
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ ॥
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान् ।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥
[प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम् ।
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ॥]
वैशंपायन उवाच ।
ततो देवं महादेवं गिरिशं शूनपाणिनम् ।
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च ।
प्रसादयामास हरं पार्थः परपुरंजयः ॥
अर्जुन उवाच ।
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन ।
[देवदेव महादेव नीलग्रीव जटाधर ॥
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम् ।
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् ॥
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः ।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥
दक्षियज्ञविनाशाय हरिरूपाय ते नमः ।
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये ॥
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे ।
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर ॥
गणेशं जगतः शम्भुं लोककारणकारणम् ।
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् ॥
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर ।
भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम् ॥
दयितं तव देवेश तापसालयमुत्तमम् ।
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम् ॥
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह ।
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शंकर ॥
वैशंपायन उवाच ।
तमुवाच महातेजाः प्रहसन्वृषभध्वजः ।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः ।
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः ॥
`गङ्गाङ्गितजटः शर्वः पार्थस्यामिततेजसः ।
प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् ॥'
इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
3-39-4 भूतैः प्रमथाख्यैः स्वपार्षदैः ॥ 3-39-13 समं एककालम् ॥ 3-39-15 अशनिर्मेधजं वज्रम् । वज्रं इन्द्रप्रहरणम् । संनिषातो योगः ॥ 3-39-16 स दानवः राक्षसमिव ॥ 3-39-20 अभिपन्नः परिगृहीतः कामानत् । यदृच्छातः ।
परिभवात् ममाभिभवाय ॥ 3-39-23 मत्कृते मन्निमित्तम् । वनमन्तिकाद्वनस्य समीपे ॥ 3-39-24 प्ररोचितः स्वीकृतः ॥ 3-39-30 दोषान्मृगया धर्मातिक्रमरूपान् ॥ 3-39-34 नाराचान् शरजातिभेदान् ॥ 3-39-39 अहोऽयमिति संधिरार्षः ॥ 3-39-41
सहितुं सोढुम् ॥ 3-39-52 असक्तमकुण्ठितम् ॥ 3-39-53 पफाल विशीर्ण 3-39-55
धूमं क्रोधावेशेन ॥ 3-39-61 पीड्य निपीड्य ॥ 3-39-62 गात्रेषु
संरुद्धश्चलनहीनः ॥ 3-39-66 प्रकृतिं स्वास्थ्यम् ॥ 3-39-70 चक्षुः
दिव्यज्ञानम् ॥ 3-39-77 मीढुषे वर्षकाय ॥