अध्यायः 040
					 महादेवेन पार्थाय स्वग्रस्तगाण्डीवादिप्रत्यर्पणपूर्वकं
						पाशुपतास्त्रप्रदानम् ॥ 1 ॥ 
					
					
						नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।
						बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥
					 
					
						त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।
						युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥
					 
					
						शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम् ।
						प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥
					 
					
						तदेतदेव गाण्डीवं तव पार्थ करोचितम् ।
						भायामास्थाय तद्ग्रस्तं मया पुरुषसत्तम ॥
					 
					
						तूणौ चाप्यक्षयौ भूयस्तव पार्थ करोचितौ ।
						भविष्यति शरीरं च नीरुजं कुरुनन्दन ॥
					 
					
						प्रीतिमानस्मि वै पार्थ भवान्सत्यपराक्रमः ।
						गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥
					 
					
						न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत ।
						दिवि वा वर्तते त्रं त्वत्प्रधानमरिंदम ॥
						अर्जुन उवाच । 
					 
					
						वरं ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।
						कामये दिव्यामस्त्रं तद्धोरं पाशुपतं प्रभो ॥
					 
					
						यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् ।
						युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥
					 
					
						[कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः ।
							त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि ॥]
						
					 
					
						जयेयं येन संग्रामे दानवान्राक्षसांस्तथा ।
						राज्ञश्चैव पिशाचांश्च गन्धर्वानथपन्नगान् ॥
					 
					
						यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः ।
						शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥
					 
					
						युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।
						सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥
					 
					
						एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।
						त्वत्प्रसादाद्विनिर्बृत्तः समर्थः स्यामहं यथा ॥
						भव उवाच । 
					 
					
						ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो ।
						समर्थो धारणे मोक्षे संहारेऽपि च पाण्डव ॥
					 
					
						न तद्वेद महेन्द्रोपि न यमो न च यक्षराट् ।
						वरुणोप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः ॥
					 
					
						न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।
						जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥
					 
					
						अबध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे ।
						मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥
						वैशंपायन उवाच । 
					 
					
						तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।
						उपसंगृह्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत् ॥
					 
					
						ततस्त्वध्यापयामास सरहस्यनिवर्तनम् ।
						तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥
					 
					
						उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् ।
						प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥
					 
					
						ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
						ससागरवनोद्देशा सग्रामनगराकरा ॥
					 
					
						शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।
						तस्मिनमुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥
					 
					
						अथास्त्रं जाज्वलद्धोरं पाण्डवस्यामितौजसः ।
						मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥
					 
					
						स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः ।
						यत्किं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः ॥
					 
					
						स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः ।
							प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत ।
						
					 
					
						ततः प्रभुस्त्रिदिवनिवासिनां वसी
							महामतिर्गिरिश उमापतिः शिवः ।
						
						धनुर्महद्दितिजपिशाचसूदनं
							ददौ भवः पुरुषवराय गाण्डिवम् ॥
						
					 
					
						ततः शुभं गिरिवरमीश्वरस्तदा
							सहोमयाऽसिततटसानुकन्दरम् ।
						
						विहाय तं पतगमहर्षिसेवितं
							जगाम स्वं पुरुषवरस्य पश्यतः ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥ 
					 3-40-3 शस्ताः मारिताः ॥ 3-40-7 त्वत्प्रधानं त्वमेव
						श्रेष्ठो रयस्मिन् क्षत्रे ॥ 3-40-14 विनिर्वृत्तः विशेषेण कृतकृत्यः ॥ 3-40-15 संहारे निवर्तने ॥ 3-40-18 मनसा संकल्पमात्रेण निपात्यते शत्रुः
						धनुषेति बाणप्रयोगेण ॥ 3-40-19 अधीष्व अध्यापय ॥ 3-40-23 निर्घात उत्पातः ॥ 3-40-27 वशी वश इच्छा तद्वान् । तज्जयीत्यर्थः ॥