अध्यायः 044

उर्वश्यामर्जुनस्य दृष्टिविशेषेण तस्य तस्यामनुरागोत्प्रेक्षिणा शक्रेण चित्रसेनद्वारा तस्यास्तंप्रति यापनम् ॥ 1 ॥ तथा स्वप्रार्थनां व्यर्थीकृतवते पार्थाय क्लीबो भवेति शापदानम् ॥ 2 ॥ शक्रेण तच्छापस् भाव्यज्ञातवासमत्रोपयोगितया रपर्यवसानम् ॥ 3 ॥

वैसंपायन उवाच ।
कदाचित्स हि देवेन्द्रश्चित्रसेनं रहोऽब्रवीत् ।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः ॥
गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसांवराम् ।
उर्वशीं पुरुषव्याघ्रं सोपातिष्ठतु फल्गुनम् ॥
यथा न तामभिसृतां विद्यादस्मन्नियोगतः ।
तथा त्वया विधातव्यं स्त्रीसंसर्गविशारद ॥
एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात् ।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ॥
तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया ।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् ॥
विदितं तेऽस्तु सुश्रोणि प्रेषितोऽहमिहागतः ।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना ॥
यः स देवमनुष्येषु प्रख्यातः सहजैर्गुणैः । श्रिया शीलेन रूपेण श्रुतेन च बलेन च ।
प्रख्यातः शौर्यवीर्याभ्यां प्रपन्नः प्रतिभानवान् ॥
तेजस्वी सौम्यीलश्च क्षमावाञ्जितमत्सरः ।
साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान् ॥
योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम् ।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसाऽपि च ॥
एको वै रक्षिता चैव त्रिदिवं मघवानिव ।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ॥
सुहृदश्चान्नपानेन विविधेनाभिवर्षति ।
सत्यवागूर्जितो वक्ता रूपवाननहंकृतः ॥
भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः ।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः ॥
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्तवान् । तव शक्राभ्यनुज्ञातः पादावद्यप्रपद्यताम् ।
एवमुक्ता स्मितं कृत्वा स्वात्मानं बहुमान्य च ।
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता ॥
यत्त्वस्य कथितः सत्यो गुणोद्देशस्त्वयाऽनघ ।
तं श्रुत्वाऽन्यं प्रियं नारी वृणुयात्किमतोऽर्जुनं ॥
तस्य चाहं गुणौघेन फल्गुने जातमन्मथा ।
गच्छत्वं हि याथाकाममागमिष्याम्यहं सुखम् ॥
वैशंपायन उवाच ।
ततो विसृज्यगन्धर्वं कृतकृत्या शुचिस्मिता ।
उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा ॥
स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः ।
धनंजयस्य रूपेण शरैर्मन्मथचोदितैः ॥
अतिविद्धेन मनसा मन्मथेन प्रदीपिता ।
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे ॥
चित्तसंकल्पभावेन सुचित्ताऽनन्यमानसा ।
मनोरथेन संप्राप्तं रमयन्तीव फल्गुनम् ॥
निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे ।
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत् ॥
मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा ।
केशपाशेन ललना गच्छमाना व्यराजत ॥
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च ।
शशिनं वक्रचन्द्रेण साऽऽह्वयन्तीव गच्छती ॥
दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ ।
गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः ॥
स्तनोद्वहनसंक्षोभात्ताम्यमाना पदेपदे ।
त्रिवलीदामचित्रेण मध्येनातीव शेभिना ॥
रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम् ।
मन्मथायतनं शुभ्रं रशनादामभूषितम् ॥
ऋषीणामपि दिव्यानां मनोव्याघातकारणम् ।
सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत् ॥
गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली ।
कूर्मपृष्ठोन्तौ चास्याः शोभेते किङ्किणीकिणौ ॥
शीधुपानेन चाल्पेन तुष्टा च मदनेन च ।
विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत् ॥
सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी ।
बब्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ॥
सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता ।
तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेन गच्छति ॥
ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः ।
भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता ॥
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता ।
अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना ॥
उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम् ।
स शङ्कितमना राजन्प्रत्यगच्छत तां निशि ॥
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृलोचनः ।
तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान् ॥
अर्जुन उवाच ।
अभिवादये त्वां शिरसा प्रवराप्सरसांवरे । किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम् ।
किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः ॥
अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी ।
गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम् ॥
उर्वश्युवाच ।
यथा मे चित्रसेनेन कथितं मनुजोत्तम ।
नत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता ॥
उपस्ताने महेन्द्रस् वर्तमाने मनोरमे ।
तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे ॥
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः ।
समागमेऽश्विनोश्चैव वसूनां च नरोत्तम ॥
महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च ।
सिद्धचारणयक्षेषु महोरगगणेषु च ॥
उपविष्टेषु सर्वेषु स्थानमानप्रभावतः ।
ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु ॥
वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन ।
दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन ॥
सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह ।
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान् ॥
तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम् ।
तव पित्राऽभ्यनुज्ञाता गताः स्वनिलयान्सुराः ॥
तथैवाप्सरसः सर्वाविशिष्टाः स्वगृहं गताः ।
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः ॥
ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम् ।
प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम् ॥
त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि ।
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह ॥
शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम् ।
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाऽब्रवीत् ॥
ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ ।
तवान्तिकमनुप्राप्ता शुश्रूषितुमरिंदम ॥
न केवलं हि चक्रेण प्रेषिता चाहमागता ।
चिराभिलषितो वीर ममाप्येष मनोरथः ॥
वैशंपायन उवाच ।
तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जान्वितोऽर्जुनः ।
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशोपमः ॥
दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भामिनि ।
गुरुदारैः समाना मे निश्चयेन वरानने ॥
[यथा कुन्तीमहाभागा यथेन्राणी शची मम । तथा त्वमपि कल्याणीनात्र कार्या विचारणा]
यच्चेक्षिताऽसि विस्पष्टं विशेषेण मया शुभे ।
तच्च मे कारणं सर्वं शृणु सत्येन सुस्मिते ॥
इयं पौरववंशस् जननी सुदतीति ह ।
त्वामहं दृष्टवांस्तत्र विस्मयोत्फुल्ललोचनः ॥
न मामर्हसि कल्याणि अन्यथा ध्यात्रमप्सरः ।
गुरोर्गरुतरा मे त्वं मम त्वं वंशवर्धिनी ॥
उर्वश्युवाच ।
अनावृताश्च सर्वाः स्म देवराजाभिनन्दन ।
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि ॥
पितरः सोदराः पुत्रा नप्तारो वा त्विहागताः ।
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः ॥
तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि ।
हृच्छयेन च संतप्तां भक्तां च भज मानद ॥
अर्जुन उवाच ।
शृणु सत्यंवरारोहे यत्त्वां वक्ष्याम्यनिन्दिते ।
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः ॥
यथा कुन्ती च माद्री च शची चैव समा इह ।
तथा च वंशजननी त्वं हि मेऽद्य गरीयसी ॥
गच्छ मूर्ध्ना प्रपन्नोस्मि पादौ ते वरवर्णिनि ।
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया ॥
वैशंपायन उवाच ।
ततोऽवधूता पार्थेन उर्वशी क्रोधमूर्च्छिता ।
वेपन्ती भ्रुकुटीकक्रा शशापाथ धनंजयम् ॥
उर्वश्युवाच ।
तव पित्राऽभ्यनुज्ञातां स्वयं च गृहमागताम् ।
यस्मान्मां नाभिनन्देथाः कामबाणवशंगताम् ॥
तस्मात्त्वं नर्तकः पार्थ स्त्रीमध्ये मानवर्जितः ।
अपुंस्त्वेन च विख्यातः पण्ढवद्विचरिष्यसि ॥
एवं दत्त्वाऽर्जुने शापं स्फुरितोष्ठी श्वसन्त्यथ ।
पुनः प्रत्यागता क्षिप्रमुर्वशी स्वं निवेशनम् ॥
पार्थोपि लब्ध्वा शापं तं तां निशां दुःखितोऽवसम् ।
विवक्षुश्चित्रसेनाय प्रातः सर्वमहृष्टवत् ॥
ततः प्रभाते विमले गन्धर्वाय यथातथम् ।
निवेदयामास तदा चित्रसेनाय पाण्डवः ॥
तच्च सर्वं यथावृत्तं शापं चैव यथातथम् ।
अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः ॥
तदा त्वानाय्य तनयं विविक्ते हरिवाहनः ।
सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत ॥
सुपुत्राद्यपृथा तात त्वया पुत्रेण सत्तम ।
ऋषयोपि हि धैर्येण जिता वै ते महाभुज ॥
यं च दत्तवती शापमुर्वशी तव मानद ।
स चापि तेऽर्थकृत्तात साधकश्च भविष्यति ॥
अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ ।
वर्पे त्रयोदशे वीर तत्र त्वं गमयिष्यसि ॥
तेन नर्तकवेपेण अपुंस्त्वेन तथैव च ।
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि ॥
एवमुक्तस्तु शक्रेण फल्गुनः परवीरहा ।
मुदं परमिकां लेभे न च शापं व्यचिन्तयत् ॥
चित्रसेनेन सहितो गन्धर्वेण यशस्विना ।
रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः ॥
य इमां शृणुयान्नित्यं धृतिं पाण्डुसुतस्य वै ।
न तस्य कामः कामेषु पापकेषु प्रवर्तते ॥
इदममरवरात्मजस्य घोरं सुचि चरितं विनिशाम्य फल्गुनस्य ।
व्यपगतमददम्भरागदोषा- स्त्रिदिवगताऽभिरमन्ति मानवेन्द्राः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

3-44-7 प्रतिभानं समये स्फूर्तिः ॥ 3-44-8 चतुराख्यानपच्चमान् चतुःचतुःसंख्यान् । विभक्तिलोप आर्षः ॥ 3-44-9 गुरुशुश्रूषां मेघां च प्रत्येकमष्टगुणां अधीते प्राप्नोति । प्रसवैर्देव मातुः कुलेद्वे पितुस्तैश्चतुर्भिः ॥ 3-44-10 स्थूललक्ष्यो दाता ॥ 3-44-12 कान्तः सुखदः ॥ 3-44-13 स्वर्गफलं त्वत्सङ्गम् ॥ 3-44-23 आङ्गयन्ती स्वर्धया युद्धार्थम् ॥ 3-44-26 उन्नतः पीवरश्च नितम्बो यस्येति विशेषणं विशेष्येण बहुलमिति बाहुलकात्समासः ॥ 3-44-45 अवभृथो यज्ञान्तस्नानं तत्प्राप्ये ॥ 3-44-59 पुरोर्वंशे हि ये पुत्रा इति झ. पाठः ॥ 3-44-79 इदममरवरात्मजस्यघोरां धृतिमचलां च धनञ्जयस्य श्रुत्वा । अपगतभयदम्भरागरोषास्त्रिदिवगता रमयन्ति मानवेन्द्राः । इति क. ध. पाठः ॥